SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३६ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४३ ज्ञापनार्थं, यद्यपि कृषिवाणिज्यादयो बहवो जीवनोपायास्तथापि ते पश्चात्काले प्रादुर्बभूवुः भगवता तु सिल्पशतमेवोपदिष्टं अत एवाचार्योपदेशजं शिल्पमनाचार्योपदेशजं तु कर्मेति शिल्पकर्म्मणोर्विशेषमामनन्तीति, श्रीहेमसूरिकृतादिदेवचरित्रे तु 119 11 'तृणहारकाष्ठहारकृषिवाणिज्यकान्यपि । कर्माण्यासूत्रयामास, लोकानां जीविताकृते ।।' इत्युक्तमस्ति तदाशयेन तु कर्म्मणामित्यत्र द्वितीयार्थे षष्ठी ज्ञेया, तथा च कर्माणि जघन्यमध्यमोत्कृष्टभेदतस्त्रीण्यप्युपदिशतीत्यपि व्याख्येयं, शिल्पशतं च पृथगेवोपदिशतीति ज्ञेयमिति, अथात्र सूत्रे सङ्क्षेपतः प्रोक्ता विस्तरतस्तु श्रीराजप्रश्नीयादिसूत्रादर्शेषु दृश्यमाना द्वासप्ततिकलास्तत्पाठोपदर्शनपूर्वकं विक्रियन्ते, यथा "लेहं १ गणिअं २ रूवं ३ नट्टं ४ गीअं ५ वाइअं ६ सरगयं ७ पोक्खरगयं ८ समतालं ९ जूअं १० जनवायं ११ पासयं १२ अट्ठावयं १३ पोरकव्वं १४ दगमट्टि १५ अन्नविहिं १६ पानविहिं १७ वत्थविहिं १८ विलेवणविहिं १९ सयणविहिं २० अजं २१ पहेलिअं २२ मागहिअं २३ गाहं २४ गीअं २५ सिलोगं २६ हिरण्णजुत्तिं २७ सुवण्णजुत्तिं २८ चुण्णजुत्तिं २९ आभरणविहिं ३० तरुणीपरिकम्मं ३१ इत्थिलक्खणं ३२ पुरिसल० ३३ हयल० ३४ गयल० ३५ गोणलक्खणं ३६ कुकुडलक्खणं ३७ छत्तलक्खणं ३८ दंडलक्खणं ३९ असिलक्खणं ४० मणिलक्खणं ४१ कागणिलक्खणं ४२ वत्युविज्जं ४३ खंधावारभाणं ४४ नगरमाणं ४५ चारं ४ ६ पडिचारं ४७ वूह ४८ पडिवूहं ४९ चक्कवूहं ५० गरुडवूहं ५१ सगडवूहं ५२ जुद्धं ५३ नियुद्धं ५३ जुद्धातियुद्धं ५५ दिट्ठिजुद्धं ५६ मुट्ठियुद्धं ५७ बाहुयुद्धं ५८ लयायुद्धं ५५ इसत्यं ६० छरुप्पवायं ६१ धनुव्वेयं ६२ हिरण्णपागं ६३ सुवण्णपागं ६४ सुत्तखेडुं ६५ वत्थखेडुं ६६ नालिआखेड्डुं ६७ पत्तच्छेज्ज ६८ कडच्छेज्जं ६९ सज्जीवं ७० निजीवं ७१ सउणरुअ ७२ मिति । अत्र लेहमित्यादीनि द्वासप्ततिपदानि राजप्रश्नीयानुसारेण द्वितीयान्तानि प्रतिभासन्ते इत्यत्रापि व्याख्यायां तथैव दर्शयिष्यन्ते, समवायाङ्गानुसारेण वा विभक्तिव्यत्ययेन प्रथमान्ततया स्वयं योजनीयानीति, तत्र लेखनं लेखः - अक्षरविन्यासस्तद्विषया कला-विज्ञानं लेख एवोच्यते, तं भगवानुपदिशतीति प्रकृते योजनीयं, एवं सर्वत्र योजना कार्या, सच लेखो द्विधा- लिपिविषयभेदात्, तत्र लिपिरष्टादशस्थानोक्ता, अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथापि पत्रवल्कलकाष्ठदन्तलोहतानरजतादयोऽक्षराणामाधारास्तथा लेखनोत्किरणस्यूतव्यूतच्छिन्नभिन्नदग्धसङ्क्रान्तितोऽक्षराणि भवन्तीति, विषयापेक्षयाऽप्यनेकधा स्वामिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रुमित्रादीना लेखविषयाणामनेकत्वात्तथाविधप्रहयोजनभेदाच्च, अक्षरदोषाश्चैते ॥ १ ॥ 'अतिकार्श्यमतिस्थौल्यं, वैषभ्यं पङ्कितवक्रता । अतुल्यानां च साश्यमविभागोऽवयवेषु च ॥' तथा गणितं सङ्ख्यानं सङ्कलिताद्यनेकभेदं पाटीप्रसिद्धं २ रूपं लेप्यशिला सुवर्णमणिवस्त्रचित्रादिषु रूपनिर्माणं ३ नाट्यं-साभिनयनिरभिनयभेदभिन्नं ताण्डवं ४ गीतं गन्धर्वकलां गानविज्ञानमित्यर्थः ५ वादितं वाद्यं ततविततादिभेदभिन्नं ६ स्वरगतं गीतमूलभूतानां षडऋषभादिस्वराणां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy