SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - २ पाइकचडकरेण य मंदं २ उद्धतरेणुयं करेमाणे २ । जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छति २ असोगवरपायवस्स अहे सीअं ठावेइ २ त्ता सीआओ पचोरुहइ २ ता सयमेवाभरणालंकारं ओमुअइ २ त्ता सयमेव चउहिं अट्ठाहिं लोअं करेइ २ त्ता छणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइनाणं खत्तिआणं चउहिं सहस्सेहिं सद्धिं एगं देवदूतमादाय मुंडे भवित्ता अगाराओ अनगारियं पव्वइए। वृ- 'नाभिस्स ण' मित्यादि, नाभेः कुलकरस्य मरुदेव्या नाम्या भार्यायाः कुक्षो एतस्मिन् समये 'उसह' त्ति ऋषभः संयमभारोद्वहनादृषभ इव ऋषभः, वृषभो वेति संस्कारः तत्र वृषभ इव वृषभ इति वा, वृषेण भातीति वा वृषभः, एवं च सर्वेऽप्यर्हन्त ऋषभा वृषभा वा इत्युच्यन्ते तेन ऊर्वोर्वृषभलाञ्चनत्वेन मातुश्चतुर्दशस्वप्नेषु प्रथमं वृषभदर्शनेन च ऋषभो वृषभो वेति नाम्ना, कोशलायां - अयोध्यायां भवः कौशलिकः 'भाविनि भूतवदुपचार' इति न्यायादेतद्विशेषणं, अयोध्यास्थापनाया ऋषभदेवराज्यस्थापनासमये कृतत्वात्, तद्वयक्तिस्तु भरतक्षेत्रनामान्वर्थकथनावसरे 'धनवईमतिनिम्माया' एततसूत्रव्याख्यायां दर्शयिष्यते, अर्हन्तश्च पार्श्वनाथादय इव केचिदनङ्गीकृतराजधर्मका अपि स्युरित्यसी केन क्रमेणार्हन्नभूदित्याह १३५ प्रथमो राजा, इहावसर्पिण्यां नाभिकुलकरादिष्टयुग्मिमनुजैः शक्रेण च प्रथममभिषिक्तत्वात्, प्रथमजिनः प्रथमो रागादीनां जेता, यद्वा प्रथमो मनः पर्यवज्ञानी राज्यत्यागादनन्तरं द्रव्यतो भावतश्च साधुपदवर्त्तित्वे, अत्रावसर्पिण्यामस्यैव भगवतः प्रथमस्तद्भवनात्, जिनत्वं चावधिमनः पर्यवकेवलज्ञानिनां स्थानाङ्गे सुप्रसिद्धं, अवधिजिनत्वे तु व्याख्यायमानेऽक्रमबद्धं सूत्रमिति, केवलिजिनत्वे चोत्तरग्रन्थेन सह पौनरुक्त्यमिति व्याख्यानासङ्गति श्रोतॄणां प्रतिभासेत, प्रथम केवली - आद्यसर्वज्ञः, केवलित्वे च तीर्थकृन्नामोदयतीत्याह-प्रथमतीर्थकर :- आद्यश्चतुर्वर्णसङ्घस्थापकः, उदिततीर्थकृत्रामा च कीदृशः स्यादिति-प्रथमो धर्मवरो-धर्मप्रधानश्चक्रवर्ती, यथा चक्रवर्ती सर्वत्राप्रतिहतवीर्येण चक्रेण वर्त्तते तथाऽयमपीति भावः, समुदपद्यत - समुत्पन्नवानित्यर्थ, अथ यथा भगवान् वयः प्रतिपन्नवान् तथाऽऽह 'तए ण' मित्यादि, ततो जन्मकल्याणकानन्तरमित्यर्थ ऋषभोऽर्हन् कौशलिकः विंशतिं पूर्वशतसहस्रणि-पूर्वलक्षाणि भावप्रधानत्वान्निर्द्देशस्य कुमारत्वेन अकृताभिषेकराजसुतत्वेन वासःअवस्थानं तन्मध्ये वसति, 'कुमारवासमज्झावसइ' इति पाठे तु कुमारवासमध्यावसति आश्रयतीत्यर्थ, उषित्वा च त्रिषष्टिपूर्वलक्षाणि अत्रापि भावप्रधानो निर्देश इति महाराजत्वेनसाम्राज्येन वासः - अवस्थानं तन्मध्ये वसति, तत्र वसंश्च कथं प्रजा उपचक्रे इत्याह ' तेवट्ठि' इत्यादि, त्रिषष्टिं पूर्वलक्षाणि यावत् महाराजवासमध्ये वसन् लिपिविधानादिका गणितं अङ्कविद्या धर्मकर्मव्यवस्थितौ बहूपकारित्वात् प्रधाना यासु ताः शकुनरुतं-पक्षिभाषितं पर्यवसाने - प्रान्ते यासां तास्तथा, द्वासप्ततिकलाः, कलनानि कला विज्ञानानीत्यर्थस्ताः कलनीयभेदात् द्वासप्तति अर्थात्, प्रायः पुरुषोपयोगिनीः । 'चतुःषष्टिं महिलागुणान् स्त्रगुणान्, कर्म्मणां जीवनोपायानां मध्ये शिल्पशतं च विज्ञानशतं च कुम्भकारशिल्पादिकं त्रीण्यप्येतानि वस्तूनि प्रजाहिताय-लोकोपकारायोपदिशति, अपिशब्द एकोपदेशकपुरुषतासूचनार्थः, वर्त्तमाननिर्देशश्चात्र सर्वेषामाद्यतीर्थङ्कराणामयमेवोपदेशविधिरिति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy