________________
वक्षस्कारः-२
१३७
ज्ञानं ७ पुष्करगतं पुष्करं-मृदङ्गमड्गयादिभेदभिन्नं तद्विषयकं विज्ञानं, वाद्यान्तर्गतत्वेऽप्यस्य यत्पृथक्कथनं तत्परमसड्गीताङ्गत्वख्यापनार्थं ८ समतालं-गीतादिमानकालस्तालः स समोऽन्यूनाधिकमात्रिकत्वेन यस्माद् ज्ञायते तत् समतालं विज्ञानं, कचित्तालमानमिति पाठः ९ द्यूतं सामान्यतः प्रतीतं १० जनवादं द्यूतविशेष ११ पाशकं-प्रतीतं १२ अष्टापदं-शारिफलकबूतं त्विषयककलां १३ पुरःकाव्यमिति पुरतः पुरतः काव्यं शीघ्रकवित्वमित्यर्थः १४ 'दगमट्टिअमिति दकसंयुक्तमृत्तिका विवेचकद्रव्यप्रयोगपूर्विका तद्विवेचनकलाप्युपचाराद्दकमृत्तिका तां १५ अन्नविधि-सूपकारकलां १६ पानविधि-दकमृत्तिकाकलया प्रसादितस्य सहजनिर्मलस्य तत्तत्संस्कारकरणं, अथवाजलपानविधिजलपानविषये गुणदोषविज्ञानमित्यर्थः, १७ वस्त्रविधिवस्त्रस्यपरिधानीयादिरूपस्यनवकोणदैविकादिभागयथास्थाननिवेशादिविज्ञानं, वानादिविधिस्तु अनन्तविज्ञानान्तर्गत इति नेह गृह्यते १८ विलेपनविधि-यक्षकईमादिपरिज्ञानं १९ शयनविधिशयनं शय्या-पल्यङ्कादिस्तद्विधि, स चैवं॥१॥ "कर्माङ्गुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् ।
अङ्गुलशतं नृपाणां महती शय्या जयायकृता॥ ॥२॥ नवति सैव षडूना द्वादशहीना त्रिषट्कहीना च ।
नृपपुत्रमन्त्रिवलपतिपुरोधसां स्युर्यथासङ्खयम् ।। अर्द्धमतोऽष्टांशोनं विष्कम्भो विशुद्धकर्मणा प्रोक्तः ।
आयामस्त्रयस्त्रिशंसमः पादोच्छ्रायः सकुप्यशिराः॥ इत्यादिकं विज्ञानं, अथवा शयनं-स्वप्नं तद्विषयको विधिस्तं, यथा 'पूर्वस्यां शिरः कुर्या'दित्यादिकं विधि २० आर्या-सप्तचतुःकलगणादिव्यवस्थानिबद्धां मात्राच्छन्दोरूपां २१ प्रहेलिकागूढाशयपद्यं २२ मागधिकां-छन्दोविशेषं, लक्षणं चेदं॥१॥ विसमेसु दुन्नि टगणा समेसुपो टो तओ दुसुवि जत्थ ।
लहुओ कगणो लहुओ कगणोतं मुणह मागहिअंति-२२ द्वित्रिचतुःपञ्चषड्मात्रिका गणाः कचटतपसंज्ञाः २३, गाथां-संस्कृतेतरभाषानिबद्धामार्यामेव २४ गीतिका पूर्वार्द्धसशाऽपरार्द्धलक्षणामार्यामेव २५ श्लोकं-अनुष्टुपविशेषं २६ हिरण्ययुक्तिहिरण्यस्य-रूप्यस्ययुक्ति-यथोचितस्थाने योजनं २७ एवं सुवर्णयुक्ति २८ चूर्णयुक्तिकोष्ठादिसुरभिद्रव्येषुचूर्णीकृतेषुतत्तदुचितद्रव्यमेलनं २९आभरणविधि व्यक्तं३०तरुणीपरिकर्मयुवतीनामगसक्रियां वर्णादिवृद्धिरूपां ३१ स्त्रलक्षणपुरुषलक्षणे सामुद्रिकप्रसिद्धे ३२-३३, हयलक्षणं-'दीर्घग्रीवाक्षिकूट'इत्यादिकमश्वलक्षणविज्ञानं ३४ गजलक्षणं । ॥१॥ पञ्चोन्नति- सप्त मृगस्य दैय॑मष्टौ च हस्ताः परिणाहमानम् ।
एकद्विवृद्धावथमन्दभद्रौ, सङ्कीर्णनागोऽनियतप्रमाणः ।।' इत्यादिकं ज्ञानं ३५ ‘गोणलखणं तिगोजातीयलक्षणं सास्नाबिलरूक्षाक्ष्योमूषिकनयनाश्च नशुभदा गावः' इत्यादिकं ३६ कुर्कुटलक्षणं-'कुक्कुटजतनुरुहाङ्गुलिस्ताम्रवक्रनखचूलिकः सितः' इत्यादिकं ३७ छत्रलक्षणं यता चक्रिणां छत्ररलस्य ३८ दण्डलक्षणं॥१॥ यष्टयतपत्राङ्कुशवेत्रचापवितानकुन्तध्वजचामराणाम् । व्यापीत १ तनत्री २ मधु ३ कृष्ण ४ वर्णा, वर्णक्रमेणैव ताय दण्डाः ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org