SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १३२ जम्बद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४० _ 'उग्गा भोगा रायन्न खत्तिआ संगहो भवे चउहा' इत्युक्तं तदरकान्त्यभागभावित्वेन नेहाधिक्रियते, नन्वस्याः समायास्त्रधाविभजनंकिमर्थं?,उच्यते, यथाप्रथमारकादौ त्रिपल्योपमायुषस्त्रिगव्यूतोच्यास्त्रिदिनान्तरितर्भोजनाएकोनपञ्चाशदिनानिकृतापत्यसंरक्षणास्ततःक्रमेण कालपरिहाण्या द्वितीयारकादौ द्विपल्योपमायुषो द्विगव्यतोच्छ्रया द्विदिनान्तरितभोजनाश्चतुःषष्टिदिनानि कृतापत्यसंरक्षणास्ततोऽपि तथैव परिहाण्या तृतीयारकादौ एकपल्योपमायुषः एकगव्युतोच्या एकदिनान्तरितभोजना अशीतिदिनानि कृतापत्यसंरक्षणास्तदनन्तरमपि त्रिधाविभक्ततृतीयारकथप्रथमत्रिभागद्वयं यावत्, तथैव नियतपरिहाण्या हीयमाना युग्मिमनुजा अभूवन्, अन्तिमत्रिभागे तु सा परिहाणिरनियता जातेति सूचनार्थं त्रिभागकरणं सार्थकमिति सम्भाव्यते, अन्यथा वायथाऽऽगमसम्प्रदायंत्रिभागकरणेहेतुरवगन्तव्यइति।अथ तृतीयारकस्वरूपप्रश्नायाह- 'तीसे णं०', यदेव दक्षिणा भरतस्वरूपप्रतिपादनाधिकारे व्याख्यातं तदत्र सूत्रे निरवशेष ग्राह्य-नवरमत्र कृष्यादिकर्माणि प्रवृत्तानीति कृत्रिमैस्तृणैः कृत्रिमैर्मणिभिरित्युक्तं, अथात्रैव मनुजानां स्वरूपं पृच्छन्नाह-"तीसे णमित्यादि ।व्याख्या प्राग्वत् । अथ यथास्मिन् जगदव्यवस्थाऽभूत् तदाह मू (११) तीसे णं समाए पच्छिमे तिभाए पलिओवमट्ठभागावसेसे एत्थ णं इमे पन्नरस कुलगरा समुप्पजित्था, तंजहा सुमई १ पडिस्सुई २ सीमंकरे ३ सीमंधरे ४ खेमंकरे ५ खेमंधरे ६ विमलवाहने ७ चक्खुमं ८ जसमं ९ अभिचंदे १० वंदामे ११ पसेणई १२ मरुदेवे १३ नामी १४ उसभे १५ति। वृ-तस्याः समायाः पाश्चात्ये त्रिभेगा-तृतीये त्रिभागे पल्योपमाष्टमभागावशेषे एतस्मिन् समये इमे-वक्ष्यमाणाः पञ्चदश कुलकरा-विशिष्टबुद्धयो लोकव्यवस्थाकारिणः कुलकरणशीलाः पुरुषविशेषाः समुदपद्यन्ते-समुत्पननवन्तः, अत्राह कश्चित-आवश्यकनियुक्त्यादिषु सप्तानां कुलकराणाभिधानादिह पञ्चदशानां तेषामभिधानं कथं यदिवा नामैतत्, पुण्यपुरुषाणामधिकाधकवंश्यपुरुषणवर्णनस्य न्याय्यत्वात्, परंपल्योपमाष्टभागावशिष्टतावचनं कालस्य सुतरां बाधतेअनुपपत्तेः, तथाहि-पल्योपमं किलासत्कल्पनया चत्वारिंशद्भागं परिकल्यते, तस्याष्टमो भागश्चत्वारिंशद्भागाः पञ्च, तत्राप्याद्यस्य विमलवाहनस्यायुः पल्योपमदशभागस्तत- श्चत्वारश्चत्वारिंशद्भागास्तदायुषि गताः । शेषएकः पल्योपमस्य चत्वारिंशत्तमः सङ्खयेयो भागोऽवतिष्ठते, स चक्षुष्मदादीनामसंख्येयपूर्वभिः सख्येयपूर्व श्रीऋषभस्वामिनश्चतुरशीत्या पूर्वलक्षैः शेषैश्चैकोननवत्या पक्षैः परिपूर्यते, तेन पूर्वेषां समुत्यादिकुलकराणा महत्तमायुवां कावकाशः ? आद्यस्य सुमतेस्तावत्पल्यदशमाश आयुः, ततो द्वादश वंश्यान्यावत् पूर्वदर्शितन्यायेनैकस्मिंश्चत्वारिंशत्तमेऽवशिष्टभागेऽसङ्खयेयानि पूर्वाणि तानि च यथोत्तरं हीनहीनानि नाभेस्तु सङ्खयेयानि पूर्वाणीत्यादि, इत्थं चाविरुद्धमिव प्रतिभाति, यत्तु आवश्यकवृत्ती॥१॥ “पलिओवमदसमंसो पढमस्साउं तओ असंखिज्जा । ते अनुपुब्बी हीणा पुव्वा नाभिस्स संखिजा ।" इतिगाथाव्याख्यानेमतान्तरेण नाभेरसङ्घयेयपूर्वायुष्कत्वमुक्तं, तत्तुकुलकरसमानायुष्कत्वेन कुलकरपलीनां मरुदेव्या अप्यसंख्यपूर्वायुष्कतापत्तौ मुक्त्यनुपपत्तिरिति तत्रैव दूषितमस्तीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy