SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-२ १३३ न कोऽपि परस्पर विरोधः, यच्चावश्यकादिषु विमलवाहनस्य पल्यदशमांशायुष्कत्वं तद्वाचनाभेदादवगन्तव्यं, यच्च ग्रन्थान्तरे नामपाठभेदः सोऽपि तथैवेत्यत्र सर्वविदःप्रमाणमित्यलं विस्तरेण, अथ प्रस्तुतमुपक्रम्यते- 'तद्यथेति तान् नामतो दर्शयति, सुमति १ प्रतिश्रुति २ सीमङ्करः ३ सीमन्धरः ४ क्षेमङ्करः ५ क्षेमन्धरः ६ विमलवाहनः ७ चक्षुष्मान् ८ यशस्वी ९ अभिचन्द्रः १० चन्द्राभः ११ प्रसेनजित् १२ मरुदेवः १३ नाभिः १४ ऋषभ १५इति, यत्पुनः पद्मचरित्रे चतुर्दशानां कुलकरत्वमभिहितमत्रतुपञ्चदशस्य ऋषभस्यापि तद्भरतक्षेत्रप्रकरणे भरतभर्तुर्भरतनाम्नोऽपि महाराजस्य प्ररूपणाप्रक्रमितव्याऽस्तीति ज्ञापनार्थमिति । अथैते कुलकरत्वं कथं कृतवन्त इत्याह मू(४२) तत्थ णं सुमई १ पडिस्सुइ २ सीमंकर ३ सीमंधर ४ खेमंकरा ५ णं एतेसिं पंचण्हं कुलगराणं हक्कारे नामंदण्डनीई होत्या, तेणं मणुआ हक्कारेणं दंडेणं हया समाणा लजिआ विलजिआ वेड्ढा भीआ तुसिणीआ विणओणया चिट्ठति, तत्थ णं खेमंघर ६ विमलवाहण ७ चक्खुमं ८ जसमं९ अभिचंदाणं १० एतेसिणं पंचण्हं कुलगराणं मक्कारे नामंदंडनीई होत्था, ते णं मणुआ मक्कारेणं दंडे हया समाणा जाव चिट्ठति, तत्थ णं चंदाभ ११ पसेणइ १२ मरुदेव १३ नाभि १४ उसभाणं १५ एतेसि णं पंचण्हं कुलगराणं धिक्कारे नामं दंडनीइ होत्या, ते णं मणुआ धिक्कारेणं दंडेणं हया समाणा जाव चिट्ठति।। 'तत्थ णमित्यादि, तेषु पञ्चदशसु कुलकरेषु मध्ये सुमतिप्रतिश्रुतिसीमंकरसीमन्धरक्षेमङ्कराणामेतेषां पञ्चानां कुलकराणांहा इत्यधिक्षेपार्थकः शब्दस्तस्य करणं हाकारो नाम दण्ड:अपराधिनामनुशासनं तत्र नीति-न्यायोऽभवत्, अत्रायं सम्प्रदायः-पुरा तृतीयारान्ते कालदोषेण व्रतभ्रष्टानामिव यतीनां कल्पद्रुमाणां मन्दायमानेषु स्वदेहावयवेष्विव तेषु मिथुनानां जायमाने ममत्वेऽन्यस्वीकृतंतमन्यस्मिन् गृह्णात परस्परंजायमाने विवादे सशजनकृतराभवमसहिष्णवः आत्माधिकं सुमतिं स्वामितया ते चक्रुः, सचतेषां तान् विभज्यस्थविरो गोत्रिणां द्रव्यमिव ददौ, यो यः स्थितिमतिचक्राम तच्छासनाय जातिस्मृत्या नीतिज्ञत्वेन हाकारदण्डनीतिं चकार, तां च प्रतिश्रुत्यादयश्चत्वारोऽनुचकुरिति, तया च ते कीशा अभवन्नित्याह 'तेण'मित्यादि, तेमनुजा णमिति प्राग्वत्, हाकारेण दण्डेन हताः सन्तो लज्जिताः व्रीडिता व्यर्धाः-लज्जाप्रकर्षवन्त इत्यर्थः, एते त्रयोऽपि पर्यायशब्दा लज्जाप्रकृष्टतावचनायोक्ताः भीताव्यक्तं तूष्णीका-मौनभाजो विनयावनता न तूल्लण्ठा इव निस्त्रपा निर्भया जल्पाका अहंयवश्च तिष्ठन्ति, ते अनेनैव दण्डेन हृतस्वमिवात्मानं मन्यमानाः पुनरपराधस्थाने न प्रवर्त्तन्त इत्याशयः, अत्र चा६ष्टपूर्वशासनानां तेषां दण्डादिघातेभ्योऽप्यतिशायि माविच्छासनमिदमिति हता इति वचनं, अथोत्तरकालवतिकुलकरकाले किं सैव दण्डनीतिरन्या वेत्याशङ्कायां समाधत्ते 'तत्थ णमित्यादि, तत्र क्षेमन्धरविमलवाहनचक्षुष्मद्यशस्व्यभिचन्द्राणामेतेषां पञ्चानां कुलकराणां मा इत्यस्यनिषेधार्थस्य करणं-अभिधानंमाकारो नाम दण्डनीतिरभवत्, शेषंपूर्ववत्, आवश्यकादौतुविमलवाहनचक्षुष्मतोः कुलकरयोर्या हाकाररूपा दण्डनीति यच्चाभिचन्द्रप्रसेनजितोरन्तराले चन्द्राभस्याकथनमित्याधन्तरं तद्वाचनान्तरेणेति, अयमर्थः-क्रमेणातिसंस्तवादिना जीर्णभीतिकत्वेन हाकारमतिक्रामत्सुअंकुशमिवगम्भीरवेदिषुगजेषु युग्मिषु क्षेमन्धरः कुलकुञ्जरो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy