________________
वक्षस्कारः-२
१२३
साड्गतिकः-सड्गतिमात्रघटितः, हन्तेत्यादि पूर्ववत्, नचैव तेषां मनुजानां तीव्र रागरूपं बन्धनं समुत्पद्यते । 'अस्थि ण' मित्यादि, अत्र चाह-आहूयन्ते स्वजनास्ताम्बूलदाना यत्र स आवाहोविवाहात् पूर्वं ताम्बूलदानोत्सवः विवाहः-परिणायनं यज्ञः-प्रतिदिवसं स्वस्वेटदेवतापूजा श्राद्धंपितृक्रिया स्थालीपाकः-सम्प्रदायगम्यः मृतपिण्डनिवेदनानि-मृतेभ्यः स्मशाने तृतीयनवमादिषु दिनेषु पिण्डनिवेदनानि-पिण्डसमर्पणानि ?, अत्रोत्तरं-नायमर्थः समर्थः, व्यपगतावाहविवाहयज्ञश्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः ।
__'अस्थिण'मित्यादि इन्द्रः प्रतीतस्तस्य महः-प्रतिनियतदिवसभावी उत्सवः, एवमग्रेऽपि, स्कन्दः-कार्तिकेयः नागो-भवनपतिविशेषः यक्षभूतौ-व्यन्तरविशेषौ अगड'त्तिअवटः-कूपःतडागःसरः द्रहनदीरूक्षपर्वताः प्रतीताः स्तूपः-पीठविशेषः चैत्यं च-इष्टदेवतायतनं, अत्राहयपगतमहिमानस्ते मनुजाः प्रज्ञप्ताः । 'अस्थि णमित्यादि, नटा-नाटयितारः तेषां प्रेक्षा-प्रेक्षणकं कौतुकदर्शनोत्सुकजनमेलकः,एवमग्रेऽपि, नृत्यन्ति स्म नृत्ताः कतरिक्तः प्रत्ययः नृत्तविधायिनः जल्ला-वरत्राखेलकाः मल्ला-भुजयुद्धकारिण मौष्टिका-मल्ला एव ये मुष्टिभि प्रहरन्ति विडम्बकाविदूषकाः मुखविकारादिभिर्जनानां हास्योत्पादकाः कथकाः-सरसकथाकथनेन श्रोतृरसोत्पत्तिकारकाः प्लवका-ये झम्पादिभिर्गादिकमुत्लवन्ते गर्तादिलङ्घनकारिणः इत्यर्थः अथवा तरन्ति नद्यादिकं ये इति लासका-ये रासकान् ददति तेषां प्रेक्षा, उपलक्षणा दाख्यायकप्रेक्षादिग्रहः, अत्रोत्तरं-नायमर्थः समर्थः, यतो व्यपगतकुतूहलास्ते मनुजाः प्रज्ञप्ताः।
'अस्थिणमित्यादि, अत्रशकटानि प्रतीतानिरथाः-क्रीडारथादयः यायन्ते-गम्यन्तेएभिरिति व्युत्पत्या यानानि-उक्तवक्ष्यमाणातिरिक्तानि गन्त्रयादीनि युग्यं-पुरुषोक्षिप्तमाकाशयानं जम्पानमित्यर्थः 'गिल्लित्ति पुरुषद्वयोक्षिप्डोलिका थिल्लित्ति वेसरादिद्वयविनिर्मितोयानविशेषः शिबिका-प्रतीता स्यन्दमानिका-पुरुषायामप्रमाणः शिबिकाविशेषः, अत्रप्रतिवचः नायमित्यादि, पादचारेण न तु शकटादिचारेण विहारो-विचरणं येषां ते तथा मनुजा इत्यादि। ___'अस्थि ण मित्यादि, अत्र गोमहिष्यजाः स्पष्टाः, एडका-उरभ्री, आह-'नो चेवे'त्यादि न चतेषां मनुष्याणां परिभोग्यतया कदाचिदागच्छन्ति, नैतासां दुग्धादि तेषामुपभोग्यमितियावत्। 'अस्थि ण'मित्यादि, अत्राश्वाः हस्तिनः उष्ट्राः अतीताः गोणा-गावः गवयोवनगवः अजैडको स्पष्टौ प्रश्रया-द्विखुराआटव्यपशुविशेषाः मृगवराही व्यक्तौ रुरवो-मृगविशेषाः शरभा-अष्टापदाः चमरा-अरण्यगवो यासां पुच्छकेशाचामरतया भवन्ति शबरा-येषामनेकशाखे श्रड्ने भवतः कुरङ्गगोकर्णी मुगभेदौ शृङ्गवर्णादिविशेषाश्चसामर्थ्यगम्याः, अत्रोत्तरम्-हन्तेति कोमलामन्त्रणे, सन्ति, न चैव तेषांप्रथमसमाभाविनां मनुष्याणां यथासम्भवमारोहणादिकार्येषूयुज्यन्ते ।
अथ नाखरप्रश्नसूत्रमाह-'अस्थि ण'मित्यादि, अत्र सिंहाः केसरिणः व्याघ्राः-प्रतीताः वृका-ईहामृगाः द्वीपिनः-चित्रकाः रुक्षा-अच्छमल्लाः तरक्षवो-मृगादनाः शृगाला व्यक्ताः विडालामार्जाराः शुनकाः-श्वानः कोकन्तिका-लोमटका ये रात्रौ को को इत्येवं रवन्ति कोलशुनकामहाशकराः, अत्रोत्तरम्-सन्ति, परं नैव तेषां मनुजानां आबाधां वा-ईषद्बाधां व्याबाधां वाविशेषेणाबाधांछविच्छेदं वा-चर्मकर्त्तनं उत्पादयन्ति, यतः प्रकृतिभद्रकास्ते श्वापदगणाः प्रज्ञप्ताः। 'अस्थिण मित्यादि,अत्रशालः-कलमादिविशेषाः व्रीहयः-सामान्यतः गोधूमयवौप्रतीतौ यवयवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org