________________
१२२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३७ वस्त्रजातिमणि-चन्द्रकान्तादि मौक्तिकं व्यक्तंशो-दक्षिणावर्तादिशिला-गन्धपेषणादिका प्रवालं-' प्रतीतंरक्तरत्नानि-पद्मरागादीनिस्वापतेयं रजतसुवर्णादिद्रव्यं, ननुयदिहिरण्यरूप्यंतदारूप्यखानी तत्सम्भवः यदि चाघटितसुवर्णं तदा सुवर्णखानौ परं घटितं सुवर्ण तथा ताम्रत्रपुसंयोगजं कांस्यं तथा तन्तुसन्तानसम्भवंदूष्यंतत्र कथंसम्भवेयुः?, शिल्पिप्रयोगजन्यत्वत्तेषां, नच तान्यत्रातीतोसर्पिणीसत्कनिधानगतानि सम्भवंतीति वाच्यं, सादिसपर्यवसितप्रयोगबन्धस्यासङ्ख्येयकालस्थितेरसम्भवात्, एगोरुगोत्तरकुरुसूत्रयोरेतदालापकस्याकथनप्रसङ्गात्, उच्यते, संहरणप्रवृत्तक्रीडाप्रवृत्तदेवप्रयोगात्तानि सम्भवन्तीति सम्भाव्यते, इहोत्तरं-हन्तेति वाक्यारम्भेकोमलामन्त्रणे वा, अस्ति हिरण्यादिकमिति शेषः, नैव तेषां मनुजानां परिभोग्यतया हव्वमिति-कदाचिदागच्छति । 'अस्थिण मित्यादि, अस्ति राजाइति वा चक्रवत्यादि युवराजो (वा) राज्यार्ह इतियावत् ईश्वरो-भोगिकादिअणिमाघष्टविधैश्वर्ययुक्तोदातलवरः-सन्तुष्टनरपतिप्रदत्तसौवर्णपट्टालङ्कतशिरस्कचरादिशुद्धयधिकारीमाडम्बिकः-पूर्वोक्तमडम्बाधिपःकौटुम्बिकःकतिपयकुटुम्बप्रभुःइभ्योयहव्यनिचयान्तरितोहस्त्यपिनद्दश्यते, इभो-हस्तीतप्रमाणं द्रव्यमर्हतीतिनिरुक्तादिभ्यः, श्रेष्ठीश्रीदेवताध्यासितसौवर्णपट्टालङ्क तशिराः पुरज्येष्ठो वणिगविशेषः, सेनापति-यदायत्ता नृपेण चतुरङ्गसेना कृता भवति,सार्थवाहो-योगणिमादिक्रयाणकंगृहीत्वा देशान्तरंगच्छन्सहचारिणामध्वसहायो भवति?, अत्रोत्तरम् नायमर्थःसमर्थः, व्यपगता ऋद्धिर्विभवैश्वयं सत्कारश्च-सेव्यतालक्षणो येभ्यस्ते तथा
- 'अस्थि णमित्यादि, दास-आमरणं करयक्रीतः गृहदासीपुत्रो वा प्रेष्यः-प्रेषणा) जनो दूतादि शिष्य-उपाध्यायस्योपासकः शिक्षणीय इत्यर्थः, भृतको-नियतकालमवधिं कृत्वा वेतनेन कर्मकरणायधृतःदुष्कालादौनिश्रितोवा, भागिको-द्वितीयाद्यराग्राही, कर्मकरः-छगणपुजाद्यपनेता, अत्राह-नायमर्थः समर्थः, यतस्ते मनुजा व्यपगतमाभियोग्यं-आभियोगिकं कर्म येभ्यस्ते तथा, अत्राभियोग्यशब्दात् कर्मणि यप्रत्यये "व्यञ्जनात् पञ्चामान्तस्थायाः स्वरूपे वा" इत्यनेनैकस्य यकारस्य लोप इति । 'अत्थिण मित्यादि, माता या प्रसूते पिता यो बीजं निषिक्तवान् भ्राता यः सहजातो भगिनी सहजाता भार्या भोग्या जन्यः पुत्रः जन्या स्त्र दुहिता स्नुषा-पुत्रवधूः, भग०हन्तेत्यादि, नैव चः पुनररथे तेषा मनुजानां तीव्र-उत्कट प्रेमरूपं बन्धनं समुत्पद्यते, तथाविधक्षेत्रस्वभावात् प्रतनुप्रेमबन्धास्ते युग्मिन इति, ननु चतुर्युकुटुम्बमनुष्येषु स्नुषासम्बन्धो यथाआपेक्षिकस्तथा भ्रातृव्यभागिनेयादिसम्बन्धः कथंनसम्भवी?,उच्यते, कुबेरदत्तकुबेरदत्तास्वकभाववत् सोऽयुपलक्षणाद्ग्राह्यः, परं स्फुटव्यवहारत्वेनेम एव सम्बन्धाः, अत्थिणं०', अरिसामान्यतः शत्रुवैरिको-जातिनिबद्धवैरोपेतः घातको-योऽन्येन घातयतिवधकः-स्वयंहन्ता व्यथको वा-चपेटादिना ताडकः प्रत्यनीकः-कार्योपघातकः प्रत्यमित्रो-यः पूर्व मित्रं भूत्वा पश्चादमित्रो जातः अमित्रसहायो वा?, नायमिति, यतो व्यपगतो वैरज्योऽनुशयः पश्चात्तापो येभ्यस्ते तथा, वैरं कृत्वा हि तदुत्थफलविपाके पुमाननुशेते इति ।
'अथिण' मित्यादि,अत्र मित्रं-स्नेहास्पदंवयस्यः-समानवयाः गाढतरस्नेहास्पदंशातकःस्वज्ञातीयः यद्वा ज्ञातकःसंवासादिना ज्ञातः सहजपरिचित इत्यर्थः सङ्घाटिकः-सहचारी सखासमानखादनपानो गाढतमस्नेहास्पदं सुहदमित्रमेव सकलकालभव्यभिचारि हितोपदेशदायि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org