________________
१२४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३७ यवविशेषाः 'कल'त्ति कलायास्त्रीपुटाख्या वृत्तचणकावामसूरा मालवादिदेशप्रसिद्धाधान्यविशेषा मुदगमापतिलाः कुलत्थाः-चपलकतुल्याश्चिपिटाभवन्तिनिष्पावा-वल्लाः 'आलिसंदग'त्तिचपलकाः अलसी-धान्यं यस्य तैलं असलीतैलमिति प्रतीतं 'कुसुंभ'त्ति लट्टाकाणाः यत्पुष्पैर्वस्त्रदिरागः समुत्पाद्यते कोद्रवाः-प्रतीताः कङ्गवः-पीततण्डुलाः बरगत्ति बरट्टीधान्यविशेषःसपादलक्षादिषु प्रसिद्धः रालकः-कगुविशेष एव, स चायं (विशेषः) बृहच्छिराः कङ्गुरल्पशिरा रालकः, शणंत्वकप्रधाननालो धान्यविशेषः सर्षपाः प्रतीताः मूलक-शाकविशेषः तस्य बीजानि, प्राकृतत्वात् ककारलोपसन्धिभ्यां निष्पत्ति, अत्रोत्तरम् सन्ति, नचतेषांमनुजानांपरिभोग्यतया कदाचिदायान्ति कल्पद्रुमपुष्पफलाद्याहारकत्वात्तेषामिति।
'अस्थि णमित्यादि, अत्र गर्ता-महती खड्डा दरी-मूषिकादिकृता लध्वी खड्डा अवपान:प्रपातस्थानं यत्र चलन् जनः सप्रकाशेऽपि पतति प्रपातो-भृगुर्यत्र जनः काञ्चित् कामनां कृत्वा प्रपततिविषम-दुरारोहावरोहस्थानं विजलं-स्निग्धकईमाविलस्थानंयत्रजनोऽतर्कित एव पतति, नायमर्थः समर्थः, नसन्तीत्यर्थः, भरतवर्षे बहुसमरमणीयो भूमिभागोयतःप्रज्ञप्तः ‘से जहानामए' इत्यादिवर्णकःप्राग्वद् ज्ञेयः । अस्थिण'मित्यादि,अत्र स्थालुः-ऊर्ध्वकाष्ठं कण्टकः-स्पष्ट तृणान्येव कचवरः पत्राण्येवकचवरः, अत्राह-'ने त्यादि, यतोव्यपगतस्थाणुयावत्पत्रकचवरासा-सुषमसुषमा नाम्नी सभा-अरकः प्रज्ञप्ता । 'अस्थि णमित्यादि, अत्र दंशमशकयूकालिक्षाः स्पष्टाः ढिंकुणामत्कुणाः यदाहुः श्रीहेमसूरयो देश्यां-“मकुणए टिंकुण खंडुणा तहा ढंकणी पिहाणीए" इति, पिशुकाः-चञ्चटाः, अत्राचार्य-व्यपगतदंशमशकयूकालिक्षातथा ढिंकुणापिशुकोपद्रवविरहिता, पश्चात् कर्मधारयः, सासमाप्रज्ञप्ता, अत्रसूत्रेव्यपगतेत्यादिविशेषणस्य कर्मधारयं विना व्याख्यानकरणेप्रसुतमूलादर्शविरहिअतिपदंप्रमादापतितमिति ज्ञेयं, तदर्थस्य तत्वतो व्यपगतपदेनैवोक्तत्वात्।
'अस्थिण मित्यादि,अत्रअहयः-सामान्यतःसर्पाःअजगराः-महाकायसर्पाः शेषपूर्ववत्, यतः प्रकृतिभद्रकास्तेव्यालगणाः-सरिसृपजातीयगणा-प्रज्ञप्ता इति । अत्र ग्रहयुद्धसूत्रंजीवाभिगमादिषु साक्षाद् दृष्टमपिएतत्सूत्रादर्शेषु न दृष्टमिति न व्याख्यायामप्यलेखि। अस्थि णमित्यादि, अत्र डिम्बडमरौपूर्ववत्, कलहो-वचनराटि बोलो-बहूनामानिामव्यक्ताक्षरध्वनिकः कलकलः क्षारः-परस्परंमत्सरः वैरं-परस्परमसहमानतया हिंस्यहिंसकताध्यवसायःमहायुद्धानि-व्यवस्थाहीना महारणाः महासङ्गामाःचक्रादिव्यूहरचनोपेततया सव्यवस्था महारमाः महाशस्त्राणि-नागबाणादीनि तेषां निपतनानि-हिंसाबुध्या रिपुमोचनानि, महाशस्त्रत्वं चैतेषामद्भुतविचित्रशक्तिकत्वात्, तथाहि-नागबाणा धनुष्यारोपिता बाणाकारा मुक्ताश्च सन्तो जाज्वल्यमानासह्योल्कादण्डरूपास्ततः परशरीरे सक्रान्ता नागमूर्तीभूय पाशत्वमश्नुवते, तामसबाणास्तु सकलरणोर्वीव्यापिमहान्धतमसरूपतया पवनवाणाश्च तथाविधपवनस्वरूपतया वह्निबाणाश्च ताशवह्निप्रकारेण परिणताः प्रतिवैरिवाहिनीषु विघ्नोत्पादका भवन्ति, एवमन्येष्वपि स्वस्वनामानुसारेण स्वस्वजन्यकार्यमुत्पादयन्ति, उक्तंच॥१॥ "चित्रं श्रेणिक ! ते बाणा, भवन्ति धनुराश्रिताः।
उल्कारूपाश्च गच्छन्तः, शरीरे नागमूर्तयः ।। ॥२॥ क्षणं बाणाः क्षणं दण्डाः, क्षणं पाशत्वमागताः ।
आमरा ह्यस्त्रभेदास्ते, यथाचिन्तितमूर्तयः ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org