________________
११९
मू (३६) ते णं भंते! मणुया तमाहारमाहारेत्ता कहिं वसहिं उवेति ?, गोअमा! रुक्खगेहालया णं ते मणुआ पत्रत्ता समणाउसो !, तेसि णं भंते! रुक्खाणं केरिसए आयारभावपडोआरे पन्नत्ते ? गोअमा ! कूडागारसंठिआ पेच्छाच्छत्तझयथूभतोरणगोचरवेइआचोप्फालगअट्टालगपासायहम्मि अगवक्खवालग्गपोइआवलभीधरसंठिआ अत्थण्णे इत्थ बहवे वरभवणविसिद्धसंठाणसंठिआ दुमगणा सुहसीअलच्छाया पन्नत्ता समणाउसो !
वृ- 'ते ण' मित्यादि, ते भदन्त ! मनुजास्तमनन्तरोदितस्वरूपमाहारमाहार्य क्व वसतीकस्मिन्नुपाश्रये उपयन्ति-उपगच्छन्ति ?, भग०- गौ० ! वृक्षरूपाणि गृहाणि आलया आश्रया येषां ते तथा एवंविधास्ते मनुजाः प्रज्ञप्ताः, हे श्रमणेत्यादि पूर्ववत्, अथैते गेहाकारा वृक्षाः किंस्वरूपा'तेसिणं भंते! रुक्खाण', प्रश्नसूत्रपदयोजना सुलभा, आकारभावप्रत्यक्तारः प्राग्वत्, भगवानाह - गौ० ! ते वृक्षाः कूटं शिखरं तदाकारसंस्थिताः, प्रेक्षा इति पदैकदेशे पदसमुदायोपचारात् प्रेक्षागृहंनाट्यगृहं, 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति संस्थितशब्दः सर्वत्र योज्यः, तेन प्रेक्षागृहसंस्थिता इति व्याख्येयं प्रेक्षागृहाकारेण संस्थानवन्त इत्यर्थः, एवं छत्रध्वजतोरणस्तूपगोपुर वेदिका चोप्फाल अट्टालकप्रासादहर्म्मयगवाक्षवालाग्रपोतिकावलभीगृहसंस्थिताः, तत्र छत्राद्याः प्रतीताः, गोपुरं पुरद्वारं वेदिका-उपवेशनयोग्या भूमि चोप्फालं नाम मत्तवारणं अट्टालकः- प्राग्वत् प्रासादो-देवतानां राज्ञां वा गृहं उच्छ्रयबहुलो वा प्रासादः ते चोभयेऽपि पर्यन्तशिखराः हम्र्मयशिखररहितं धनवतां भवनं गवाक्षः-स्पष्टः वालाग्रपोतिका नाम जलस्योपरि प्रासादः वलभीछदिराधारस्तत्प्रधानं गृहं ।
वक्षस्कार:- २
अत्रायमाशयः केचिद्वृक्षाः कूटसंस्थितास्तदन्ये प्रेक्षागृहसंस्थितास्तदपरे छत्रसंस्थिता, एवं सर्वत्र भाव्यं, अन्ये तु अत्र- सुषमसुषमाया भरतवर्षे बहवो वरभवनंसामान्यतो विशिष्टगृहं तस्येव यद्विशिष्टं संस्थानं तेन संस्थिताः शुभा शीता छाया येषां ते तथा एवंविधा द्रुमगणाः प्रज्ञप्ताः, प्राग्गेहाकार कल्पद्रुमस्वरूपवर्णके उक्तेऽपि एते परमपुण्यप्रकृतिका युग्मिन एषु सौन्दर्याश्रयेष्वाश्रयेषु वसन्तीति ज्ञापनार्थं पुनस्तद्वर्णकसूत्रारम्भः सार्थक इति, ननु तदा गृहाणि न सन्ति ?, सन्त्यपि वा गृहाणि धान्यवन्त्र तेषामुपभोगायायान्तीत्याशङ्कमानः पृच्छति
मू (३७) अत्थि णं भंते तीसे समाए भरहे वासे गेहाइ वा गेहावणाइ वा ?, गोअमा ! नो इण सम, रुक्खगेहालया णं ते मणुआ प० स० !, अस्थि णं भंते! तीसे समाए भरहे वासे गामाइ वा जाव संणिवेसाइ वा ? गो० ! नोइणट्टे समट्टे, जहिच्छि अकामगामिणो णं ते मणुआ प० ।
अत्थि णं भंते! असीव वा मसीइ वा किसीइ वा वणिएत्ति वा पणिएत्ति वा वाणिज्जेइ वा ? नो इट्टे समट्टे, ववगयअसिमसिकिसिवणि अपणि अवाणिज्जा णं ते मणुआ पन्नत्ता समणाउसो! अत्थिणं भंते! हिरण्णेइ वा सुवण्णेइ वा कंसेइ वा दूसेइ वा मणिमोत्तिअसंखसिलप्पवालरत्तरयणसावइज्जेइ वा ?, हंता अत्थि, नो चैव णं तेसिं मणुआणं परिभोगत्ताए हव्वमागच्छइ ।
अस्थि भंते! भरहे रायाइवा जुवराया इ वा ईसरतलवरमाडंबिअकोडुबि अइब्भसेट्ठिसेनावइसत्थवाहाइ वा ?, गोयमा ! नो इणट्टे समट्टे, ववगयइड्ढिसक्कारा णं ते मणुआ, अत्थि गं भंते! भरहे वासे दासेइ वा पेसेइ वा सिस्सेइ वा भयगेइ वा भाइल्लएइ वा कम्पयरएइ वा ?, नो इण सम, ववगयअभिओगा णं ते मणुआ पन्नत्ता समणाउसो ! ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org