SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ पल्हायणिजे, भवे एआरूवे ?, नो इणमट्टे समट्टे । जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २/३५ तेसि णं पुप्फफलाणं एत्ती इट्ठतराए चेव जाव आसाए पन्नत्ते । वृ- तेषां भदन्त ! मनुजानां 'केवइकालस्स' त्ति सप्तम्यर्थे षष्ठी कियति काले गते भूय आहारार्थ समुत्पद्यते -आहारलक्षणं प्रयोजनमुपतिष्ठते ?, भगवानाह - हे गौतम! अष्टमभक्तस्य, अत्रापि सप्तम्यर्थे षष्ठी, अष्टमभक्तेऽतिक्रान्ते आहारार्थ समुत्पद्यते इति, यद्यपि सरसाहारि-त्वेनैतावत्कालं तेषां क्षुद्वेदनीयोदयाभावात् स्वत एवाभक्तार्थता न निर्जरार्थं तपः तथाप्यभक्तार्थत्वसाधम्यार्दष्टमभक्त इति, अष्टमभक्तं चोपवासत्रयस्य संज्ञा इति, अथैते यदाहारयन्ति तदाह- 'पुढवीपुष्फे'त्यादि, पृथिवी भूमिफलानि च कल्पतरूणामाहारो येषां ते तथा, एवंविधास्ते मनुजाः प्रज्ञप्ताः हे श्रमणेत्यादि पूर्ववत् । अथानयो राहायो मध्ये पृथिवी स्वरूपं पृच्छन्नाह- 'तीसेण' मित्यादि, तस्याः पृथिव्याः कीध्श आस्वादः प्रज्ञप्तो, यो युगलधर्मिणा मनन्तरपूर्वसूत्रे आहारत्वेनोक्त इत्यध्याहार्यं, भगवानाह - गौतम ! तद्यथा नाम ए इत्यादि प्राग्वत्, गुडः - इक्षुरसक्काथ इति, इतिवाशब्दौ प्राग्वत्, खण्ड - गुडविकारः शर्करा - काशादिप्रभवा मत्स्यंडिका-खण्डशर्कराः पुष्पोत्तरापद्मोत्तरे शर्कराभेदावेव, अन्ये तु पर्पटमोदकादयः खाद्यविशेषा लोकतोऽवसेयाः, एषां मधुरद्रव्यविशेषाणां स्वामिना निर्द्दिष्टेषु नामसु एताद्दशरसा पृथिवी भवेत् कदाचिदिति विकल्पारूढमतिर्गौतम आह- भवेदेतद्रूपः पृथिव्या आस्वादः ?, स्वाम्याह- गौतम ! नायमर्थः समर्थः, सा पृथिवी इतो गुडशर्करादेरिष्टतरिका एव, स्वार्थे कप्रत्ययः, यावत्करणात्कान्त- तरिका चैव प्रियतरिका चैवेति परिग्रहः, मनआपतरिका एव आस्वादेन प्रज्ञप्ता इति, अथ पुष्पफलानामास्वादं पृच्छन्नाह- 'तेसि णं०' तेषां पुष्पफलानां कल्पद्रुसम्बन्धिनां कीशः- क आस्वादः प्रज्ञप्तो, यानि पूर्वसूत्रे युग्मिनामाहारत्वेन व्याख्यातानी गम्यं, भगवानाह - गौ० ! तद्यथा नाम राज्ञः, स च राजा लोके कतिपयदेशाधीशोऽपि स्यादत आह- चतुर्ष्वन्तेषु समुद्रत्रयहिमवत्परिच्छिन्नेषु चक्रेण वर्त्तितुं शीलमस्येति चतुरन्तचक्रवर्ती, 'अः समृध्यादौ वे' त्यनेन दीर्घत्वं, अनेन वासुदेवतो व्यावृत्ति कृता, तस्य कल्याणं- एकान्तसुखावहं भोजनजातंभोजनविशेषः शतसहस्रनिष्पन्नं- वर्णेनातिशायिनेति गम्यते, अन्यथा सामान्यमोजनस्यापि वर्णमात्रवत्ता सम्भवत्येवेति किमाधिक्यवर्णनं ?, युक्तं, यावदतिशायिना स्पर्शेनोपपेतं यावत् गन्धेन रसेन चातिशायिनोपपेतं, आस्वादनीयं सामान्येन विस्वादनीयं विशेषतस्तद्रसमधिकृत्य दीपनीयं अग्निवृद्धिकरं दीपयति जठराग्निमिति दीपनीयं, बाहुलकात्कर्त्तर्यनीयप्रत्ययः, एवं दर्पणीयमुत्साहवृद्धिहेतुत्वात्, मदनीयं मदनीयं मन्मथजनकत्वात् बृहणीयं धातूपचयकारित्वात्, सर्वाणि इन्द्रियाणि गात्रं च प्रह्लादयतीति सर्वेन्द्रियगात्रप्रह्लादनीयं वैशद्यहेतुत्वात्तेषां । एवमुक्तो गौतम आह-भगवन् ! भवेदेतद्रूपस्तेषां पुष्पफलानामास्वादः ?, भगवानाहगौतम ! नायमर्थः समर्थः, तेषां पुष्पफलानामितः चक्रवर्त्तिभोजनादिष्टतरकादिरेवास्वादः, अत्र कल्याणभोजने सम्प्रदाय एवं चक्रवर्तिसम्बन्धिनीनां पुंड्रेक्षुचारिणीनामनातङ्कानां गवां लक्षस्याद्धार्द्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्याः गोः सम्बन्धि यत् क्षीरं तद्राद्धकलमशालिपरमान्नरूपमनेकसंस्कारकद्रव्यसम्मिश्रं कल्याणमोजनमिति प्रसिद्धं, चक्रिणं स्त्ररलं च विना अन्यस्य भोक्तुर्दुर्जरं महदुन्मादकं चेति ॥ अथैते उक्तस्वरूपमाहारमाहार्य क्व वसन्तीति पृच्छति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy