________________
वक्षस्कारः - २
११७
जरयतीति लौकिकश्रुति एवं तेषामप्यत्याहारग्रहणेऽपि न जातुचिदजीर्णदोषादयः, शकुनेरिवपक्षिणइव पुरीषोत्सर्गे निर्लेपतया पोसः - अपानदेशो येषां ते तथा, 'पुस उत्सर्गे' पुरीषमुत्सृजन्त्यनेनेति व्युत्पत्तेः, तथा पृष्ठ- शरीरपृष्ठभागः अन्तरे- पृष्ठोदरयोरन्तराले पार्श्वे इत्यर्थ ऊरू च सक्थिनी इति द्वन्द्वः, एतानि परिणतानि-परिनिष्ठिततां गतानि येषां ते तथा, क्तान्तस्य परनिपातः सुखादिदर्शनात्, ततः पदद्वयस्य २ कर्मधारयः, यथोचितपरिणामेन तानि सञ्जतानीत्यर्थः, षड्धनुः सहस्रच्छ्रिताः, अत्रापि मकारोऽलाक्षणिकः, उत्सेधाङ्गुलतस्त्रगव्यूतप्रमाणकाया इत्यर्थः, यच्च युग्मिनीनां किञ्चिदूनत्रिगव्यूतप्रमाणोच्चत्वमुक्तं तदल्पतया न विवक्षितमिति भावः ।
अथ तेषां वपुषि पृष्ठकरण्कसङ्ख्यामाह - 'तेसि ण' मित्यादि, तेषां मनुष्याणां द्वे षटपञ्चाशदधिके पृष्ठकरण्डुकशते पाठान्तरेण पृष्ठकरण्डकशते वा प्रज्ञप्ते, पृष्ठकरण्डुकानि चपृष्ठवंशर्त्यन्नताः अस्थिखण्डाः पंशुलिता इत्यर्थः, हे श्रमणेत्यादि प्राग्वत्, पुनस्तानेव विशिनष्टि'पउमुप्पल' इत्यादि, ते णमिति पूर्ववत्, मनुजाः पद्मं-कमलमुत्पलं - नीलोत्पलं अथवा पद्मं पद्मकाभिधां गन्धद्रव्यं उत्पलं-कुष्ठं तयोर्गन्धेन-परिमलेन सदृशः-समो यो नः श्वासस्तेन सुरभिगन्धि वदनं येषां ते तथा, प्रकृत्या स्वभावेनोपशान्ता नतु क्रूराः प्रकृत्या प्रतनवः -अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते तथा, अत एव मृदु-मनोज्ञं परिणामसुखावहमिति भावः यन्मार्दवं तेन सम्पन्नाः न तु कपटमार्दवोपेताः, आलीना - गुरुजनमाश्रिता अनुशासनेऽपि न गुरुषु द्वेषमापद्यन्ते इत्याशयः । अथवा आ-समन्तात् सर्वासु क्रियासु लीना गुप्ता नोल्वणचेष्टशकारिण इत्यर्थः, भद्रकाःकल्याणभागिनः, भद्रगा वा भद्रहस्तिगतयः, विनीता बृहत्पुरुषविनयकरणशीला अथवा विनीता इव - विजितेन्द्रिया इव, अल्पेच्छा- मणिकनकादिप्रतिबन्धरहिताः अत एव न विद्यते सन्निधिपर्युषितखाद्यादेः संचयो - धारणं येषां ते तथा, विटपान्तरेषु- शाखान्तरेषु प्रासादाद्याकृतिषु परिवसनंआकालमावासो येषां ते तथा, यथेप्सितान् कामान्-शब्दादीन् कामयन्ते- अर्थान् भुञ्जते इत्येवंशीला ये ते तथा इति, अत्र च जीवाभिगमादिषु युग्मिवर्णनाधिकारे आहारार्थप्रश्नोत्तरसूत्रं दृश्यते, अत्र च कालदोषेण त्रुटितं सम्भाव्यते ।
अत्रैवोत्तरत्र द्वितीय-तृतीयारकवर्णकसूत्रे आहारार्थसूत्रस्य साक्षाद् दृश्यमानत्वादिति, तेनात्र स्थानाशून्यार्थ जीवाभिगमादिभ्यो लिख्यते
मू (३५) तेसि णं भंते ? मणुआणं केवइकालस्स आहारट्टे समुप्पाइ ?, गोअमा ! अट्टमभत्तस्स आहारट्ठे समुप्पज्ञ्जइ, पुढवीपुप्फफलाहारा णं ते मणुआ पन्नत्ता समणाउसो !
तीसे गं भंते! पुढवीए केरिसए आसाए पन्नत्ते ?, गो० ! से जहानामए गुलेइ वा खंडेइ वा सक्कराइ वा मच्छंडिआइ वा पप्पडमोअए इ वा भिसेइ वा पुप्फुत्तराइ वा पउमुत्तराइ वा विजयाइ वा महाविजयाइ वा आकासिआइ वा आदंसि आइ वा आगासफलोवमाइ वा उग्गाइ वा अनोवमाइ वा इमेए अज्झोववणाए, भवे एआरूवे ?, नो इणमट्टे समट्टे, सा णं पुढवी इत्तो इट्ठतरिआ चेव जाव मणामतरिआ चेव आसाएणं पत्रत्ता ।
तेसि णं भंते! पुप्फफलाणं केरिसए केरिसए आसाए पन्नत्ते ?, गोअमा ! से जहा नामए रन्नो चाउरंतचक्कवट्टिस्स कल्लाणे भो अणजाए सयसहस्सनिप्फन्ने वण्णेणुववेए जाव फासेणं उबवेए आसायणिजे विसायणिज्जे दिप्पणिजे दप्पणिजे मयणिज्जे विग्घणिज्जे विहणिजे सव्विंदिअगाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org