________________
११६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३४ तेषां मनुष्याणामिति, तथा स्वभावत एव अगाररूपश्चारु-प्रधानो वेषो यासां तास्तथा, प्रायो निर्विकारमनस्कत्वेनाद्दष्टपूर्वकत्वेन च तासांसीमन्तोन्नयनाद्यौपाधिकश्र गाराभावात्, सड्गतंउचितं गतं-गमनं हंसीगमनवत् हसितं-हसनं कपोलविकाशिप्रेमसन्दर्शिच भणितं-भणनंगम्भीर दर्पकोद्दीपि च चेष्टनं-सकाममड्गप्रत्यगोपाड्गदर्शनादि विलासो-नेत्रचेष्टा संलापः-पत्या सह सकामं स्वहदयप्रत्यर्पणक्षमं परस्परं सम्भाषणं तत्र निपुणाः, तथा युक्ताः -सड्गता ये उपचारालोकव्यवहारास्तेषु कुशलाः, ततः पतद्वयस्य कर्मधारयः।
एवंविधविशेषणाश्च स्वपतिं प्रति द्रष्टव्या नतु परपुरुषं प्रति, तथाविधकालस्वभावात् प्रतनुकामतया परपुरुषं प्रति तासामभिलाषासम्भवात्, एवं च युग्मिपुरुषाणामपि परस्त्र प्रति नाभिलाष इति प्रतिपत्तव्यं, नन्वेवं सति प्रथमभगवतः सुनन्दापाणिग्रहणं कथमुचितं? मृतेऽपि पुंसि तस्याः परसम्बन्धित्वाविरोधात्, उच्यते, मा ब्रूहि निषिद्धविरुद्धाचरणस्य भगवतः श्रवणाश्रव्यमेनमपवादं, कन्यावस्थाया एव तस्या भगवता पाणिग्रहणकरणात्, यतः॥१॥ “पढमो अकालमचूतहिं तालफलेण दारओ पहओ।
कण्णा य कुलगरेणं सिटे गहिआ उसभपत्ती॥" एवंतर्हि सहजातायाः सुमड्गलायाः पाणिग्रहणं कथं?,सत्यं तदानीन्तनलोकाचीर्णत्वेन तदानीं तस्या अविरुद्धत्वादिति, पूर्वोक्तमेवार्थ सम्पिण्ड्याह-'सुंदरे'त्यादि व्यक्तमेव, नवरंजघनंपूर्वकटीभागः, लावण्यं-आकारस्य स्पृहणीयता विलासः-स्त्रणांचेष्टाविशेषः, आह च॥१॥ “स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव।।
उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ।।" नन्दनवनं-मेरोद्धितीयवनंतस्यविवरं-अवकाशो वृक्षरहितभूभागस्तत्रचारिण्यइवाप्सरसोदेव्यः भरतवर्षे मानुषरपाअप्सरसः आश्चर्य-अद्भूतमिति प्रेक्षणीयाः प्रासादीया इत्यादि । सम्प्रति स्त्रपुंससाधारण्येन तत्कालभाविमनुष्यस्वरूपं विवक्षुरिदमाह-'तेणं मणुआ' इत्यादि, ते सुषमसुषमाभाविनो मनुष्याः ओधः-प्रवाही स्वरो येषां ते तथा, हंसस्येव मधुरः स्वरो येषां ते तथा, क्रौञ्चस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते तथा, नन्दी-द्वादशविध-तूर्यसमुदयस्तस्या इव शब्दान्तरतिरोधायी स्वरो येषं ते तथा, नन्या इव घोषः-अनुनादो येषां ते तथा, सिंहस्येव बलिष्टः स्वरो येषां तेतथा, एवं सिंहघोषाः,उक्तविशेषणानां विशेषणद्वारा हेतुमाचष्टेसुस्वराः सुस्वरनिर्घोषाः, छायया-प्रभया द्योतितान्यड्गानि-अवयवा यस्य तदेवंविधमड्ग-शरीरं येषां ते तथा, मकारोऽलाक्षणिकः, वज्रऋषभनाराचं नाम सर्वोत्कृष्टाद्यं संहननं येषां तेतथा, सम चतुरस्र संस्थान-सर्वोत्कृष्ट आकृतिविशेषस्तेन संस्थिताःछव्यां-त्वचि निरातङ्काः-नीरोगाः द्रुकुष्ठकिलासादित्वग्दोषरहितवपुष इत्यर्थः, अथवा छवित्ति छविमन्तः,छविच्छविमतोरभेदोष-चाराद् दीर्घत्वेन मतुल्लोपाद्वा, यथा मरीचिरित्यत्र मलयगिरीयावश्यकवृत्ती, उदात्तवर्णसुकुमारत्वचा युक्ता इत्यर्थः, पश्चान्निरातङ्कपदेन कर्मधारयः, अनुलोमः-अनुकूलोवायुवेगः-शरीरान्तवर्तीवातजवो येषां ते तथा।
कपोतस्य इव गुल्मरहितोदरमध्यप्रदेशाः, सति गुल्मे प्रतिकूलो वायुवेगो भवतीति भावः, कङ्कः-पक्षिविशेषस्तस्येव ग्रहणी-गुदाशयो नीरोगवर्चस्कतया येषां ते तथा, कपोतस्येवपक्षिविशेषस्येवपरिणामः-आहारपरिपाको येषांतेतथा, कपोतस्य हिजाठराग्निपाषाणलवानपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org