SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - २ ११५ दगरज - उदककणश्चन्द्रः प्रतीतः कुंदं- कुन्दकुसुमं वासन्तीमुकुलं-वनस्पतिविशेषकलिका तद्वद् धवला जम्बूद्वीपप्रज्ञप्तिप्रश्नव्याकरणाद्यादर्शेष्वष्टोऽपि धवलशब्दो जीवाभिगमवृत्तौ दर्शनाल्लिखितोऽस्ति अच्छिद्रा - अविरला विमला - निर्मला दशना-दन्ता यासां तास्तथा, रक्तोत्पलवद्रक्तं मृदुसुकुमारं अतिकोमलं तालु जिह्वा च यासां तास्तथा, करवीरकलिकावत् नासापुटद्वयस्य यथोक्तप्रमाणतया संवृताकारतया वाऽकुटिला अवक्रा सती अभ्युदगताभ्रूद्वयमध्यतो विनिर्गता अत एव ऋज्वी सरला सती तुड्गा उच्चा नतु गवादिश्र ङ्गवका सती तुङ्गेत्यर्थ, एवंविधा नासा यासां तास्तथा, शरदि भवं शारदं नवं कमलं- रविबोधं कुमुदं चन्द्रबोध्यं कुवलयं तदेव नीलं एषां यो दलनिकरः- पत्रसमूहस्तत्सध्शे लक्षणप्रशस्ते अजिह्मे-अमन्दे भद्रभावतया निर्विकारचपले इत्यर्थः, कान्ते नयने यासां तास्तथा, एतेन तदीयध्शामनञ्जितसुभगत्वमायतत्वं सहजचपलत्वं चाह, स्त्रीणामङ्गे हि नयनसौभाग्यमेव परमशृ ङ्गाराङ्गमिति पुनस्तद्विशेषणेन पत्रले - पक्ष्मवती न तु रोगविशेषाद्गतरोमके क्वचिद्धवले कर्णान्तवर्त्तिनी कचित्ताम्रलोचने यासां तास्तथा । 'आणामिअ' त्ति 'अल्लीण' विशेषणे प्राग्वत्, पीना मांसलतया नतु कूपाकारा मृष्टा- शुद्धा न तु श्यामच्छायापन्ना गण्डलेखा - कपोलपाली यासां तास्तथा, चतुर्षु अस्रषु कोणेषु दक्षिणोत्तरयोः प्रत्येकमूर्द्धाधोभागरूपेषु प्रशस्तमहीनाधिकलक्षणत्वात् समम्-अविषमं ललाटं यासां तास्तथा, कौमुदी - कार्त्तिकी पौर्णिमा तस्या रजनिकरः- चन्द्रस्तद्वद्विमलं प्रतिपूर्णम्- अहीनं सौम्यं - अक्रूरं न तु बककान्तानामिव भीषणं वदनं यासां तास्तथा, छत्रोन्नतोत्तमाङ्गा इति प्रतीतं, अकपिला-श्यामाः सुस्निग्धाः- तैलाभावादभ्यड्गनिरपेक्षतया निसर्गचिक्कणाः सुगन्धा दीर्घा न तु पुरुषकेशा इव निकुरम्बभूताः नापि धम्मिल्लादिपरिणाममापन्नाः संयमविज्ञानाभावात् शिरोजा यासां तास्तथा । , छत्रं १ ध्वजः २ यूपः-स्तम्भविशेषः ३ स्तूपः- पीठं ४ दामिणित्ति रूढिगम्यं ५ कमण्डलुःतापसपानीयपात्रं ६ कलशः ७ वापी ८ स्वस्तिकः ९ पताका १० यवो ११ मत्स्यः १२ कूर्मः १३ रथवरः १४ मकरध्वजः - कामदेवस्ततसंसूचकं सूचनीये सूचकोपचाराल्लक्षणमिति, तच सर्वकालमविधवत्वादिसूचकं १५ अङ्कः- चन्द्रबिम्बान्तर्वर्ती श्यामावयवः क्वचिदङ्कस्थाने शुक इति ध्श्यते १६ स्थालं १७ अङ्कुशः १८ अष्टापदं द्यूतफलकं १९ सुप्रतिष्ठकं-स्थापनकं २० मयूरः २१ श्रियोऽभिषेको-लक्ष्मया अभिषेकः २२ तोरणं २३ भेदिनी २४ उदधि २५ वरभवनं- प्रधानगृहं २६ गिरि २७ वरादर्शो - वरदर्पणः २८ सलीलगजो-लीलावान् गजः २९ ऋषभो - गौः ३० सिंहः ३१ चामरं ३२ । एतान्युत्तमानि - प्रधानानि प्रशस्तानि सामुद्रिकशास्त्रषु प्रशंसास्पदीभूतानि द्वात्रिंशल्लक्षणानि धरन्ति यास्तास्तथा हंसस्य सध्शी गतिर्यासां तास्तथा कोकिलाया आम्रमञ्जरीसंस्कृतत्वेन पञ्चमस्वरोद्गारमयी या मधुरा गीस्तद्वत् सुष्ठु - शोभनः स्वरो यासां तास्तथा, कान्ताः - कमनीयाः सर्वस्य तत्प्रत्यासन्नवर्त्तिनो लोकस्यानुमताः सम्मता न कस्यापि मनागपि द्वेष्या इति भावः, वलि - शैथिल्समुद्भवश्चर्मविकारः पलितं पाण्डुरः कचः व्यपगतानि वलिपलितानि याभ्यस्तास्तथा, तथा विरुद्धमड्गं व्यङ्गं वकारवानयवः दुर्वर्णो- दुष्टशरीरच्छवि व्याधिदौर्भाग्यशोकाः प्रतीताः तैर्मुक्ताः, पञ्चाद्विशेषणद्वयकर्मधारयः, उच्चत्वेन च नराणां स्वभर्तृणां स्तोकोनं यथा स्यात्तथोच्छ्रिताः किञ्चिन्यूनिगव्यतोच्छ्रया इत्यर्थः, न हि ऐदंयुगीनमनुष्यपल्य इव स्वभर्तु समोच्चत्वा अधिकच्चत्वा वा भवेयुः, किमुक्तं भवति ? यथा हि सम्प्रति पुरुषस्य अन्यूनोच्चत्वया भार्याया योगो लोके उपहासपात्रं स्यात् न तथा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy