________________
११४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३४ भावः, अजघन्यानि उत्कृष्टानि प्रशस्तानिलक्षणानियत्रतत्तथा, एताशंअकोप्यं-अद्वेष्यमतिसुभगत्वेन जंघायुगलं यासांतास्तथा, सुष्टुनितरां मिते-परिमाणोपेते सुगूढे-अनुपलक्ष्ये ये जानुमण्डले तयोः सुबद्धौ हेढस्नायुकत्वाद् सन्धी-सन्धाने यासांतास्तथा, कदलीस्तम्भादतिरेकेण-अतिशयेन संस्थितं-संस्थानं ययोस्ते निणे-विस्फोटकादिक्षतरहिते सुकुमारमृदुके अत्यर्थकोमले मासलेमांसपूर्णे न तु काकजंघावदुर्बले अविरले-परस्परासन्ने समे प्रमाणतस्तुल्ये सहिके-क्षमे सुजातेसुनिष्पन्ने वृत्ते-वर्तुले पीवरे-सोपचये निरन्तरे-परस्परनिर्विशेषे ऊरू-सक्थिनी यासां तास्तथा, वीति-विगतेतिको घुणाधक्षत इति भावः एवंविधोऽष्टापदो-धूतफलकं, विशेषणव्यत्ययः प्राकृतत्वात्, तद्वत् प्रष्ठसंस्थिता-प्रधानसंस्थाना प्रशस्ता विस्तीर्णपृथुला-अतिविपुला श्रोणिकटेरग्रभगोयासांतास्तथा, वदनायामप्रमाणस्य मुखदीर्घत्वस्य च द्वादशाङ्गुलप्रमाणस्य तस्माद् द्विगुणं चतुर्विंशत्यङ्गुलं विस्तीर्णं मांसलं-पुष्टं सुबद्धं-अश्लथं जघनवरं-प्रधानकटीपूर्वभागं धारयन्तीत्येवंशीलाः । अत्रापि विशेषणस्य परनिपातः प्राग्वत्, वज्रवद्विराजितं क्षामत्वेन तथा प्रशस्तलक्षणं सामुद्रिकप्रशस्तगुणोपेतं निरुदरं-विकृतोदररहितं अथवा निरुदरंअल्पत्वेनाभावविवक्षणात् तिन वलयो यत्र तत्रिवलिकं तथा बलितं-सातबलं न च क्षामत्वेन दुर्बलमाशङ्कनीयं, तनु-कृशं नतं-नमंतनुनतमीषन्नम्रमित्यर्थ, ईशं मध्यं यासां तास्तथा, स्वार्थे कप्रत्ययः, ऋजुकानां अवक्राणां समानां-तुल्यानां न कापि दन्तुराणां संहितानां संततानां न त्वपान्तराले व्यवच्छित्रानां जात्याना-स्वभावजानांप्रधानानांवातनूनांसूक्ष्माणां कृष्णानां-कालानां नतुमर्कटवर्णानां स्निग्धानां सतेजस्कानांआदेयानां-दृष्टिसुभगानां लडहत्ति ललितानांसुजातानांसुनिष्पन्नानां सुविभक्तानां कान्तानां-कमनीयानां अत एव सोभमानानां रुचिररमणीयानांअतिमनोहराणां रोग्णांराजि-आवलीयर्यासांतास्तथा, गड्गावत्तेतिपदंप्राग्वत्, अनुभटौ-अनुल्बणौ प्रशस्ती पीनौ कुक्षी यासांतास्तथा, सनतपादिविशेषणानि प्राग्वत् ।
काञ्चनकलशयोरिवप्रमाणं ययोस्तौ तथा, समौ-परस्परंतुल्यौ नैको हीनो नएकोऽधिक इति भावः सहितौ-संहतो अनयोरन्तराले मृणालसूत्रमपि न प्रवेशं लभते इति भावः, सुजातीजन्मदोषरहितौ लष्टचूचुकामेलकौ-मनोज्ञस्तनमुखशेखरौ यमलौ-समश्रेणीको युगलौ-युगलरूपी वर्तितौ-वृत्तौ अभ्युनतौ-पत्युरभिमुखमुन्नतौ पीनं-पुष्टां रतिं पत्युर्दत्त इत पीनरतिदौ पीवरौ-पुष्टौ पयोधरौ यासां तास्तथा, मुजगवदानुपूव्येण-क्रमेणाधोऽधोभागे इत्यर्थ तनुको अत एव गोपुच्छवदृत्तौ समौ-परस्परं तुल्यौ संहितौ-मध्यकायापेक्षयाऽविरलौ नतौ-नम्नौ स्कन्धदेशस्य नतत्वात्आदेयी-अतिसुभगतयोपादेयौ तलिनी-मनोज्ञचेष्टाकलितीबाहूयासांतास्तथा, ताम्रनखा इति व्यक्तं, मांसलावग्रहस्तौ-हस्ताग्रभागौ यासां तास्तथा, पीवरेति प्राग्वत्, स्निग्धपाणिरेखा इति व्यक्तं, रविशशिशङ्खचक्रस्वस्तिका एव सुविभक्ताः-सुप्रकटाः सुविरचिताः-सुनिर्मिताः पाणिरेखा यास तास्तथा, पीना-उपचितावयवा उन्नता-अभ्युन्नताः कक्षावक्षोबस्तिपरदेशाभुजमूलहदयगुह्यप्रदेशायासांतास्तथा, परिपूर्णागलकपोला यासांतास्तथा, चउरड्गुलेतिपूर्ववत्, मांसलेति व्यक्तं दाडिमपुष्पप्रकाशो रक्त इत्यर्थ पीवर उपचितः।
प्रलम्बः-ओष्ठापेक्षया ईषल्लम्बमानः कुञ्चितः-आकुञ्चितो मनाग वलित इत्यर्थः वरःप्रधानोऽधरः-अधस्तनदशनच्छदो यासां तास्तथा, सुन्दरोतरोष्ठा इति कण्ठयम्, दधि प्रतीतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org