________________
१०६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३३ हस्तमालकं हर्षकं केयूरं-अगदं, पूर्वस्माच्चाकृतिकृतो विशेषः वलयं-कङ्कणं प्रालम्ब-झुम्बनकं अड्गुलीयक-मुद्रिका वलक्ष-रूढिगम्यं दीनारमालिका चन्द्रमालिका सूर्यमालिका-दीनाराधाकृतिमणिकमालाः काञ्चीमेखला-कलापाः-स्त्रकट्याभरणविशेषाः, विशेषश्चैषांरूढिगम्यः, प्रतरकं-वृत्तप्रतल आभरणविशेषः पारिहार्य-वलयविशेषः पादेषु जालाकृतयो घण्टिका-घरिकाः किङ्किण्य:-क्षुद्रघण्टिकाः रत्नोरुजालं-रत्नमयं जसायाः प्रलम्बमानं सङ्कलकं सम्भाव्यते क्षुद्रिका वराणि नूपुराणिव्यक्तानि चरणमालिका-संस्थानविशेषकृतं पादाभरणं लोके पागडांइति प्रसिद्धं, कनकनिगडः-निगडाकारः पादाभरणविशेषः सौवर्णसम्भाव्यते, (लोक) चकडलांइतिप्रसिद्धानि, एतेषां मालिका-श्रेणिः, अत्र च व्याख्यातव्यतिरिक्तं भूषणस्वरूपं लोकतो गम्यं, इत्यादिका भूषणविधयो-मण्डनप्रकाराः बहुप्रकारा अवान्तरभेदात, ते च किंविशिष्टा इत्याह-काश्चनमणिरलभक्तिचित्रा इति व्यक्तं, तथैव च-तथा प्रकारेण भूषणविधिनोपपेतास्ते मण्यड्गा इति तात्पर्यार्थ, शेषं प्राग्वत्।
अथ नवमकल्पवृक्षस्वरूपमाह-तीसे णं समाए तत्थ २ बहवे गेहागारा नामं दुमगणा पनत्तासमणाउसो!, जहा से पागारट्टालयचरिअदारगोपुरपासायागसतलमंडवएगसालगविसालगतिसालगचउसालगगब्भघमोहणघरवलभीहरचित्तमालयघरभ तिघरवट्टतंसचउरंसणंदिआवत्तसंठिआ पंडुरतलमुंडमालहम्मियं अहवणं धवलहरअद्धमागहविब्भमसेलद्धसेलसंठिअकूडागारसुविहिअकोट्ठगअनेगघरसरणलेणआवणा विडंगजालविंदणिजूहअपवरगचंदसालिआरूवविभत्तिकलिआ भवणविही बहुविकप्पा तहेव ते गेहागारावि दुमगणा अनेगबहु • विहविविहवीससापरिणयाए सुहारुहणसुहोत्ताराए सुहनिक्खमणपवेसाए दद्दरसोपाणपंतिकलिआए पइरिक्कसुहविहाराए मणोणुकूलाए भवमविहीए उववेआ जाव चिटुंतीति।
तस्यां समायामित्यादि प्राग्वत्, गेहाकारा नाम द्रुमगणाः प्रज्ञप्ताः, यथा ते प्राकारो-वप्रः अट्टालकः-प्राकारोपरिवत्यारियविशेषः चरिका-नगरप्राकारान्तरालेऽष्टहस्तप्रमाणो मार्ग द्वारं व्यक्तं, गोपुरं-पुरद्वारं प्रासादो-नरेन्द्राश्यः आकाशतलं-कटाद्यच्छन्नकुट्टिमं मण्डपः-छायाद्यर्थं पटादिमय आश्रयविशेषः एकशालकद्विशालकत्रिशालकचतुःशालकादीनि भवनानि, नवरंगर्भगृहसर्वतोवर्तिगृहान्तरं अभ्यन्तरगृहमित्यर्थः, मोहनगृह-सुरतगृहं, वल्लभी-छरिदाधारस्तप्रधानं गृहं, चित्रशालगृह-चित्रकर्मवद् गृहंमालकगृह-द्वितीयभूमिकाधुपरिवर्तिगृहं भक्ति-विच्छित्तिस्तप्रधान गृहं वृत्तं-वर्तुलाकारंत्र्यनं-त्रिकोणं चतुरनं-चतुष्कोणं नन्द्यावर्त्तः-प्रासादविशेषस्तद्वत्संस्थितानि नन्द्यावर्ताकाराणि गृहामि पश्चात् द्वन्द्वः,
पाण्डुरतलं सुधामयतलं मुण्डमालहर्म्य-उपर्यनाच्छादितशिखरादिभागरहितंहर्मय।अथवा णमितिप्राग्वत्, धवलगृह-सौधं अर्द्धमागधविभ्रमाणि-गृहविशेषाः शैलस्थितानि-पर्वताकाराणि गृहाणि अर्द्धशैलसंस्थितानि तथैव कुटाकारेण-शिखराकृत्याऽऽढ्यानि सुविधिकोष्ठकानिसुसूत्रणापूर्वकरचितोपरितनभागविशेषा अनेकानि गृहाणि सामान्यतः शरणानि-तृणमयानि लयनानि-पर्वतनिकुट्टितगृहाणि आपणा-हट्टाः इत्यादिका भवनविधयो-वास्तुप्रकाराबहुविकल्पा इत्यन्वयः, विटण्कः कपोतपालीजालवृन्दः-गवाक्षसमूहः नि!हो-द्वारोपरितनपार्श्वविनिर्गतदारु अपवरकः प्रतीतः चन्द्रशालिका-शिरोगृहं, एवंरूपाभिर्विभक्तिभि कलिताः, तथैव भवनविधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org