________________
वक्षस्कारः-२
१०५ विशिष्टपरिपाकमागतः सबाष्पानि-बाष्पं मुञ्चन्ति मृदूनि-कोमलानि चतुष्कल्पसेकादिना परिकर्मितत्वात् विशदानि सर्वथा तुषादिमलापगमात् सकलानि-पूर्णानि सित्थानि यत्र सतथा, अनेकानि शालनकानि-पुष्पफलप्रभृतीनि प्रसिद्धानि तैः संयुक्तः, अथवा मोदक इव भवेदिति
परिपूर्णानि-समस्तानि द्रव्याणि-एलाप्रभृतीनि उपस्कृतानि-नियुक्तानि यत्र स तथा, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, सुसंस्कृतो-यथोक्तमात्राग्निपरितापादिना परमसंस्कारमुपनीतःवर्णगन्धरसस्पर्शासामथ्यादतिशायिनस्तैर्युक्ता बलवीर्यहतवश्च परिणामा आयतिकाले यस्य स तथा, अतिशायिभिर्वर्णादिभिर्बलवीर्यहेतुपरिणामैचोपेता इति भावः, तत्र बलं-शारीरं वीर्य-आन्तरोत्साहः, तथा इन्द्रियाणां चक्षुरादीनां बलं-स्वस्वविषयग्रहणपाटवं तस्य पुष्टि-अतिशायी पोषस्तां वर्द्धयति, नन्द्यादित्वादनः, तथा क्षुत्पिपासामथन इति व्यक्तं, तथा प्रधानः कथितो-निष्पको गुडस्ताशं वा खण्डं ताशी वा मत्स्यण्डी-खण्डशर्करा ताशं वा घृतं तान्युपनीतानि-योजितानियस्मिन्स तथा, निष्ठान्तस्य परनिपातः सुखादिदर्शनात, तथा श्लक्ष्णासूक्ष्मत्रिर्वस्त्रगालितत्वेन समिता-गोधूमंचूर्णं तद्गर्भः-तन्मूलदलनिष्पन्न इति भावः, परमेष्टकंअत्यन्तवल्लभं तदुपयोगि द्रव्यं तेन संयुक्तः, एतद्वयक्ति सम्प्रदायगम्या, तथैव ते चित्ररसाअपि द्रुमगणाः अनेकबहुविधविधविनसापरिणतेन भोजनविधिनोपपेता इत्यादि प्राग्वत् ।
अथाष्टमकल्पवृक्षस्वरूपमाह-'तीसे णं समाए तस्थ २ बहवे मणिअंगा नामं दुभगणा पन्नत्ता समणाउसो !, जहा से हारद्धहारवेढणयमउडकुंडलवामुत्तगहेमजालमणिजालकणगजालसुत्तगउचिअकडगखुड्डयएकावलिकंठसुत्तगमगरिअउरत्थगेविजसोणिसुत्तगचूलामणिकणगतिलगफुल्लगसिद्धत्थयकण्णवासिलसिसूरउसहचक्कगतलभंगयतुडिअहत्थमालगहरिसयकेऊ रलयपालंव अंगुलिज्जगव लक्खदीणारमालि आकंचिमेहलकलाव पयरगपारिहेरगपाय जालघंटिआखिंखिणि रयणोरुजालखुड्डिअवर नेऊरचलणमालि- आकणगणिगलमालिआकंचणमणिरयणभत्तिचित्तातहेवतेमणिअंगाविदुमगणाअनेगजावभूसणविहीएउववेआजावचिटुंतीति तस्यां समायामित्यादि प्राग्वत्, नवरं मणिमयानि आभरणान्याधेये आधारोप- चारान्मणीनि तान्येवाङ्गानि-अवयवा येषांतेमण्यड्गा भूषणसम्पादका इत्यर्थः, यथातेहारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः वेष्टनकः-कर्णाभरणविशेषः मुकुटकुण्डले व्यक्ते वामोत्तकः हेमजालंसच्छिद्रसुवर्णालङ्कारविशेषः एवं मणिजालकनकजालके अपि, परंकनकजालकस्य हेमजालतो भेदो रूढिगम्यः, सूत्रकं-वैकक्षककृतं सुवर्णसूत्रं उचितकटकानि-योग्यवलयानि क्षुद्रकअड्गुलीयकविशेषः एकावलीच-विचित्रमणिककृताएकसरिका चकण्ठसूत्र-प्रसिद्धं मकरिकामकराकार आभरणविशेषः उरस्थं हदयाभरणविशेषः ग्रैवेयं-ग्रीवाभरणविशेषः ।। ___ - अत्र सामान्यविवक्षया अवेयमिति जीवाभिगमवृत्यनुसारेणोक्तं, अन्यथा हेमव्याकरणादाव-लङ्कारविवक्षायां ग्रैवेयकमिति स्यात्, एवमन्यत्रापि तत्तदवृत्यनुसारेण ज्ञेयं, श्रोणिसूत्रक-कटिसूत्रकं चूडामणिनाम सकलनृपरत्नसारो नरामरेन्द्रमौलिस्थायी अमगलामयप्रमुखदोषहत्परममगलभूत आभरणविशेषः कनकतिलकं-ललाटाभरणंपुष्पकंपुष्पाकृति ललाटाभरणं सिद्धार्थकं-सर्षपप्रमाणस्वर्णकणरचितसुवर्णमणिकमयं कर्णवाली-कर्णोपरितनविभागभूषणविशेषः शशिसूर्यवृषभाः स्वर्णमयचन्द्रकादिरूपाआभरणविशेषाः चक्रकं. चक्राकारःशिरोभूषणविशेषः तलभड्गकंत्रुटिकानिचबाह्वाभरणा, अनयोर्विशेषस्तुआकारकृतः,
__www.jainelibrary.org
Jain Education International
For Private & Personal Use Only