________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ४/-/३५
योजनसहस्राणि प्रकाशयेत्, अत एवेत्थं जम्बूद्वीपस्य पञ्चाशतं योजनसहस्राणि प्रकाश्यानि सम्भाव्य सर्वाभ्यन्तरेऽपि मण्डले वर्तमाने सूये तापक्षेत्रस्यायामप्रमाणंज्योतिष्करण्डकमूलटीकायां श्रीपादलिप्तसूरिभिस्त्रयशीतिर्योजनसहस्राणि त्रीणि शतानि त्र्यस्त्रिंशदधिकानि योजनस्य च त्रिभाग इत्युक्तं युक्तं चैतत्सम्भावनया तापक्षेत्रायामपरिणामं, अन्यथा जम्बूद्वीपमध्ये तापक्षेत्रस्य पञ्चत्वारिंशत्सहस्रमात्रपरिमाणाभ्युपगमे यथा सूर्यो वहिर्निष्क्रामति तथा तव्प्रतिबद्धं ताप क्षेत्रमपि, ततो यदा सूर्य सर्व वाह्यं मण्डलमुपसंक्रम्य चारं चरति तदा सर्वथा मन्दरसमीपे प्रकाशो न प्राप्नोति, थ च तदापि तत्रम दरपरिरयपरिक्षेपेण विशेषपरिमाणमग्रे वक्ष्यते, तस्मात्पादलिप्तसूरिव्याख्यानमप्यभ्युपगन्तव्यमिति ।
८०
तदेवं सर्वाभ्यन्तरमण्डलमधिकृत्य तापक्षेत्रसंस्थितिरुक्ता, सम्प्रति तदेव सर्वाभ्यन्तरमण्डलमधिकृत्यान्धकारसंस्थितिं प्रतिपिपादयिषुस्तद्विषयं प्रश्नसूत्रमाह- 'तया ण 'मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले 'किंसंठिय'त्ति किं संस्थितं - संस्थानं यस्याः यदिवा कस्येव संस्थितं - संस्थानं यस्याः सा किंसंस्थिता अन्धकारसंस्थितिराख्याता इति वदेत् ?, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत् ऊर्ध्वमुखकृतकलम्बुकापुष्पसंस्थिता अन्धकारसंस्थितिराख्याता इति वदेत्, सा च अन्तः - मेरुदिशि विष्कम्ममधिकृत्य संकुचा संकुचिता, बहि० - लवणदिशि विस्तृता, तथा अन्तः- मेरुदिशि वृत्ता - वृत्तार्द्धवलयाकारा, सर्वतो वृत्तमेरुगतौ द्वौ दशभागौ व्याप्य तस्या व्यवस्थितत्वात्, बहि-लवणदिशि पृथुला - विस्तीर्णा, एतदेव संस्थानकथनेन स्पष्टयति- 'अंतो अंकमुहसंठिया बाहिं सत्थिमुहसंठिया' अनयोश्च पदयोव्याख्यानं प्रागिव वेदितव्यं, 'उभओ पासे न 'मित्यादि, तस्याः - अन्धकारसंस्थितेस्तापक्षेत्रसंस्थितिद्वैविध्यवशाद् द्विधा व्यवस्थिताया मेरुपर्वतस्योभयपार्श्वेन - उभयोः पार्श्वयोः प्रत्येकमेकैकभावेन ये जम्बूद्वीपगते वाहे ते आयामेन - आयामप्रमाणमधिकृत्यावस्थित भवतस्तद्यथा - पञ्चचत्वारिंशद्योजनसहस्राणि द्वे च वाहे विष्कम्भमधिकृत्यैकैकस्या अन्धकारसंस्थितेर्भवतस्तद्यथा-सर्वाभ्यन्तरा सर्वबाह्या च, एतयोश्च व्याख्यानं प्रागिव द्रष्टव्यं तत्र सर्वाभ्यन्तराया वाहाया विष्कम्भमधिकृत्य प्रमाणमविधित्सुराह - 'तीसेण 'मित्यादि, तस्या - अन्धकारसंस्थितेः सर्वाभ्यन्तरा या बाहा मन्दरपर्वतान्तेमन्दरपर्वतसमीपे सा च षट् योजनसहस्राणि त्रीणि शतानि चतुर्विशानि चतुर्विंशत्यधिकानि षट् द्वादशभागान् योजनस्य यावत्परिक्षेपेण- परिरयपरिक्षेपणेनाख्याता इति वदेत्, अमुमेवार्थ स्पष्टावबोधनार्थं पृच्छति - 'ता से ण' मित्यादि, ता इति प्राग्वत्, तस्याः - अन्धकारसंस्थितेः सःयथोक्तप्रमाणपरिक्षेपविशेषो मन्दरपरिरयपरिक्षेपविशेषः कुतः ? - कस्मात्कारणात् आख्यातो नोनोऽधिको वेति भगवान् वदेत् ?, एवं प्रश्ने कृते भगवानाह -
'ता जेण 'मित्यादि, ता इति पूर्ववत्, यो णमिति वाक्यालङ्कारे मन्दरस्य पर्वतस्य परिक्षेपः प्रागुक्तप्रमाणः तं परिक्षेपं द्वाभ्यां गुणयित्वा, करमा द्वाभ्यां गुणनमिति चेत्, उच्यते, इह सर्वाभ्यन्तरे मण्डले चरं चरतोः सूर्ययोरेकस्यापि सूर्यस्य जम्बूद्वीपगतस्य चक्रवालस्य यत्र तत्र वा प्रदेशे यत्तच्चक्रवालक्षेत्रानुसारेण दशभागास्त्रयः प्रकाश्या भवन्ति अपरस्यापि सूर्यस्य त्रयः प्रकाश्या दशभागास्तत उभयमीलने षट् दशभागा भवन्ति, तेषां च त्रयाणां २ दशभागानामपान्तराले द्वौ २ दशभागौ रजनी ततो द्वाभ्यां गुणनं, तौ च द्वौ दशभागाविति दशभिर्भागहरणं, 'सेसं तं चेव' त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org