________________
प्राभृतं ४, प्राभृतप्राभृतं - शेषं तदेव प्रागुक्तं वक्तव्यं, तच्चेदम्-'दसहिं छित्ता दसहिंभागे हीरमाणे एसणं परिकखेवविसेसे आहियत्ति वइज्जा' अस्यायमर्थ-दशभिश्छित्वा-दशभिर्विभज्य दशभिर्भागे हियमाणे यथोक्तमन्धकारसंस्थितेर्मन्दरपरिरयपरिक्षेपपरिमाणमागच्छति, तथाहि-मेरुपर्वतपरिरयपरिमाणमेकत्रिंशद्योजनसहम्नाणि षट् शतानि त्रयोविंशत्यधिकानि एतद् द्वाभ्यां गुण्यते, जातानि त्रिषष्टि सहस्राणि द्वे शते षटचत्वारिंशदधिके एतेषां दशभिर्भागे हते लब्धानि षट् योजनसहस्राणि त्रीणिशतानि चतुर्विंशत्यधिकानिषट्च दशभागा योजनस्यतत एष एतावनन्तरोदितप्रमाणोऽन्धकारसंस्थितेः परिक्षेपविशेषो मन्दरपरिरयपरिक्षेपणविशेष आख्यात इति वदेत् । तदेवमुक्तमन्धकारसंस्थितेः सर्वाभ्यन्तराया वाहाया विष्कम्भपरिमाणम्, अधुना सर्ववाह्याया बाहाया आह– 'तीसे ण'मित्यादि, तस्याः-अन्दकारसंस्थितेः सर्वबाह्या बाहा लवणसमुद्रान्ते -लवण- समुद्रसमीपे जम्बूद्वीपपर्यन्ते, सा च परिक्षेपेण-जम्बूद्वीपपरिरयपरिक्षेपणेनाख्याता त्रिषष्टिर्योजन- सहम्नाणि द्वे पञ्चचत्वारिंशे योजनशते षट् च दशभागान् योजनस्य यावत् । एतदेव स्पष्टं स्वशिष्यानवबोधयितुं भगवान् गौतमः पृच्छति।
'तासेणमित्यादि, ता इतिप्राग्वत्, तस्याः अन्धकारसंस्थितेः सः तावान्परिक्षेपविशेषो जम्बूद्वीपपरिक्षेपणविशेषः कुतः?-कस्मात्कारणात्आख्यातो नोनोऽधिको वेति वदेत्?,भगवान् वर्द्धमानस्वामी आह-'ताजेण'मित्यादि, ता इतिपूर्ववत्, योणमिति वाक्यालङ्कारे जम्बूद्वीपस्य परिक्षेपः प्रागुक्तप्रमाणः तंपरिक्षेपंद्वाभ्यांगुणयित्वा दशमिश्छित्वा-दशभिर्विभज्य, अत्र कारणं प्रागेवोक्तं, दशभिर्भागे ह्रियमाणे यथोक्तमन्धकारसंस्थितेर्जम्बूद्वीपपरिरयपरिक्षेपणभागच्छति, तथाहि-जम्बूद्वीपस्य परिक्षेपपरिमाणं त्रीणि लाणि षोडश सहसामि द्वे शते अष्टाविंशत्यधिके एतद्वाभ्यां गुण्यते, जातानिषट् लक्षाणि द्वात्रिंशत्सहस्राणिचत्वारि शतानिषटपञ्चा-शदधिकानि तेषां दशभिर्भागे ह्वते लब्धानि त्रिषष्टिरोयनजसहस्राणि द्वे शते पञ्चच- त्वारिंशदधिकेषट् च दशभागा योजनस्य तत एष एतावान् अनन्तरोदितप्रमाणोऽ न्धकारसंस्थितेः परिक्षेपविशेषो जम्बूद्वीपपरिरयपरिक्षेपणविशेष आख्यात इति वदेत्, तदेवमुक्तं सर्वबाह्यया अपि वाहाया विष्कम्भपरिमाणं, सम्प्रति सामस्त्येनान्धकारसंस्थितेरायामप्रमाणमाह-- 'तीसेण मित्यादि, इदं चायामप्रमाणं तापक्षेत्रसंस्थितिगतायामपरिमाणवत्परिभावनीयं, समानभावनिकत्वात् । अत्रैव सर्वाभ्यन्तरे मण्डले वर्तमानयोः सूर्ययोर्दिवसरात्रिमुहूर्तप्रमाणमाह--
'तयाण मित्यादि सुगमं । तदेवं सर्वाभ्यन्तरे मण्डले तापक्षेत्रसंस्थितिं अन्धकारसंस्थितिं चाभिधाय सम्प्रति सर्वबाह्यमण्डले तामभिधित्सुराह--'ता जया ण'मित्यादि, ता इति पूर्ववत्, यदा सूर्य सर्वबाह्यमण्डलमुपसङ्कम्य चारं चरति तदा किंसंस्थिता तापक्षेत्रसंस्थितिराख्याता इति भगवान्वदेत्?, भगवानाह–'ताऊद्धमुहे'त्यादि, ता इति पूर्ववत्, ऊर्ध्वमुखकलम्बुकापुष्पसंस्थिता तापक्षेत्रसंस्थितिराख्याता (इति) वदेत् स्वशिष्येभ्यः । 'एवमित्यादि, एवं-पूर्वोक्तेन प्रकारेण यदभ्यन्तरमण्डले अभ्यन्तरमण्डलगते सूर्ये अन्धकारसंस्थितेः प्रमाणमुक्तं तद्बाह्यमण्डलेवाह्यमण्डलगते सूर्येतापक्षेत्रसंस्थितेः परिमाणं भणितव्यं, यत्पुनस्तत्र-सर्वाभ्यन्तरेमण्डले वर्तमाने सूर्ये तापक्षेत्रसंस्थितेः प्रमाणं तद्बाह्यमण्डले वर्तमाने सूर्येऽन्धकारसंस्थितेः प्रमाणमभिधातव्यं,
1216
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org