________________
प्राभृतं ४, प्राभृतप्राभृतं.
७९ विष्कम्भपरिमाणमुक्तं, इदानीं लवणसमुद्रदिशिजम्बूद्वीपपर्यन्तेयासर्ववाह्यावाहातस्याविष्कम्भपरिमाणमाह-तीसेण'मित्यादि, तस्याः-तापक्षेत्रसंस्थितेः लवणसमुद्रान्ते-लवण-समुद्रसमीपे सर्वबाह्या वाहा सा परिक्षेपेण-जम्बूद्वीपपरिरयपरिक्षेपेण चतुर्नवतियोजनसहस्राणि अष्टौ च अष्टषष्टयधिकानि योजनशतानि चतुरश्च दशभागान् योजनस्य यावदाख्याता इति वदेत्, अत्रैव स्पष्टावबोधाधानाय प्रश्नं करोति-'ता से न'मित्यादि, ता इति पूर्ववत्, स एतावान् परिक्षेपविशेषस्तापक्षेत्रसंस्थितेः कुतः ? कस्मात् कारणादाख्यातो नोनोऽधिको वेति वदेत्, भगवानाह_ 'ताजे ण'मित्यादि, ता इति पूर्ववत् यो जम्बूद्वीपस्य परिक्षेपः-परिरयगणितप्रसिद्धस्तं परिक्षेपं त्रिभिर्गुणयित्वा चतनन्तरं च दशभिश्छित्वा-दशभिर्विभज्य अत्रार्थे कारणं प्रागुक्तमेवानुसरणीयं, दशभिर्भागेहियमामेयथोक्तं जम्बूद्वीपपर्यन्तेतापक्षेत्रपरिमाणमाच्छति, तथाहिजम्बूद्वीपस्य परिक्षेपस्त्रणि लक्षाणि षोडश सहस्राणि द्वेशते सप्तविंशत्यधिके त्रीणिगव्यूतानि ३ अष्टाविंशंधनुःशतंत्रयोदशअङ्गुलानि एकमाङ्गुलं, एतावता चयोजनमेकंकिल किञ्चिन्यूनमिति व्यवहारतः परिपूर्ण विवक्ष्यते, ततो द्वेशते अष्टाविंशत्यधिके वेदितव्ये एष त्रिभिर्गुण्यतेजातानि नवलक्षाणि अष्टाचत्वारिंशत्सहस्राणिषट्शतानि चतुरशीत्यधिकानि एतेषां दशभिर्भागो ह्रियते, लब्धं यथोक्तं जम्बूद्वीपपर्यन्ते सर्वबा- ह्याया बाहाया विष्कम्भपरिमाणं, ततः “एस न'मित्यादि, एष एतावान् अनन्तरोदितप्रमाणः परिक्षेपविशेषो जम्बूद्वीपपरिरयः परिक्षेपविशेषस्तापक्षेत्रसंस्थितेराख्यात इति वदेत्, उक्तं चैतदन्यत्रापि॥१॥ “जंबुद्दीवपरिरये तिगुणे दसमाइयंमिजं लद्धं ।
तं होइ तावखित्तं अभितरमंडले रविणो॥" तदेवं जम्बूद्वीपे तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरायाः सर्वबाह्यायाश्च बाहाया विष्कम्भपरिमाणमुक्तं । सम्प्रति सामस्त्येनायामतस्तापक्षेत्रपरिमाणं जिज्ञासुस्तद्विषयं प्रश्नमाह
‘ता से णं० ता इति पूर्ववत्, तापक्षेत्रं आयामतः सामस्त्येन दक्षिणोत्तरायततया कियत्-किंप्रमाणमाख्यातमिति वदेत् ?, भगवानाह–'ता अछुत्तर मित्यादि ता इति पूर्ववत् अष्टसप्तति योजनसहम्नाणित्रीणि योजनशतानि त्रयस्त्रिंशानि-त्र्यस्त्रिंशदधिकानियोजनविभागं च यावत् आयामेन दक्षिणोत्तरायततया आख्यातमिति वदेत, तथाहि-सर्वाभ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य तापक्षेत्रंदक्षिणोत्तरायततया मेरोरारभ्य तावद्वर्द्धते यावल्लवपसमुद्रस्य षष्ठो भागः, उक्तंच॥१॥ "मेरुस्स मज्झभागाजाव य लवणस्स रुंदछन्भागा।
तावायामो एसो सगडुद्धीसंठिओ नियमा।" अत्र एसो' इत्यादि, एष तापो नियमात् खशकटोद्धिसंस्थितः, शेषं सुगम, तत्र मेरोरारम्य जम्बूद्वीपपर्यन्तं यावत्पञ्चचत्वारिंशद्योजनसहस्राणि लवणस्य विस्तारो द्वे योजनलक्षे तयोः षष्ठो भास्त्रयस्त्रिंशद्योजनसहनाणि त्रीणि योजनशतानि त्रयस्त्रिंशदधिकानि योजनस्य च त्रिभागः, तत उभयमीलने यथोक्तमायामप्रमाणं भवति,
इह सर्वाभ्यन्तरेमण्डलेवर्तमानस्य सूर्यस्य लेश्या अभ्यन्तरंप्रविशन्ती मेरुणा प्रतिस्खल्यते, यदिपुनर्न प्रतिस्खल्यते ततोमेरोः सर्वमध्यभागगतंप्रदेशमवधीकृत्यायामतो जम्बूद्वीपस्य पञ्चाशतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org