________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ४/-/३५
'अंतो अंकमुहसंठिया बाहिं सत्थिमुहसंठिय'त्ति अन्तर्मेरुदिशि अङ्कः - पद्मासनोपविष्टस्योत्सङ्गरूप आसनबन्धः तस्य मुखं- अग्रभागोऽर्द्धवलयाकारस्तस्येव संस्थितं-संस्थानं यस्याः सा तथा बहिर्लवणदिशि स्वस्तिकमुखसंस्थिता - स्वस्तिकः- सुप्रतीतः तस्य मुखं-- अग्रभागः तस्येवातिविस्तीर्णतया सूर्यभेदेन द्विधाव्यवस्थितायाः प्रत्येकमेकैकभावेन ये द्वे बाहे ते आयामेनजम्बूद्वीपगतमायाममाश्रित्यावस्थिते भवतः, सा चैकैका आयामतः किंप्रमाणा इत्याह-पञ्चचत्वारिंशत् २ योजनसहस्राणि तस्यास्तापक्षेत्रसंस्थितेरेकैकस्या द्वे च बाहे अनवस्थिते भवतः, तद्यथा - सर्वाभ्यन्तरा सर्वबाह्या च, तत्र या मेरुसमीपे विष्कम्भमधिकृत्य बाहा सा सर्वाभ्यन्तरा, या तु लवणदिशि जम्बूद्वीपपर्यन्ते विष्कम्भमधिकृत्य बाहा सा सर्वबाह्या, आयामश्च दक्षिणोत्तरायततया प्रतिपत्तव्यो विष्कम्भः पूर्वापरायततया, एवमुक्ते सति भगवान् गौतमः स्वशिष्याणां स्पष्टावबोधनार्थं भूयः पृच्छति - 'तत्थे' त्यादि, तत्र तस्यामेवंविधायामनन्तरोदितायां वस्तुव्यवस्थायां को हेतुः ? - का उपपत्तिरिति भगवान् वदेत् ?, एवमुक्ते भगवानाह - 'ता अयण्ण' मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण भावनीयं, 'ता जया ण' मित्यादि, तत्र यदा सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा 'उद्धमुहकलंबुयापुप्फे 'त्यादि, प्राग्वत् व्याख्येयं यावत्सर्वाभ्यन्तरा वाहा सर्वबाह्या च बाहा, 'तीसेन' मित्यादि, तस्यास्तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरा बाहा मेरुपर्वतान्ते - मेरुपर्वत- समीपे सा च परिक्षेपेण- मन्दरपरिक्षेपगतया नव योजनसहस्राणि चत्वारि योजनशतानि षडशीत्यधिकानि नव च दशभागा योजनस्य ९४८६ आख्याता मया इति वदेत्, एवमुक्ते भगवान् गौतमः प्रश्नयति
'ता से ण' मित्यादि, ता इति प्राग्वत् स तापक्षेत्रसंस्थितपरिक्षेपविशेषो-मंदरपरिरयपरिक्षेपणविशेषः कुतः - कस्मात्कारणादेवंप्रमाण आख्यातो नोनोऽधिको वेति वदेत्, भगवानाह 'ता जेण 'मित्यादि, ता इति पूर्ववत्, यो णमिति वाक्यालङ्कारे मन्दरस्य- मेरोः पर्वतस्य परिक्षेपः-परिरयगणितप्रसिद्धस्तं मण्डले वर्त्तमानः सूर्यो जम्बूद्वीपगतस्य चक्रवालस्य यत्र तत्र प्रदेशे तत्तचक्रवालक्षेत्रप्रमाणानुसारेण त्रीन दशभागान् प्रकाशयति एतच्च प्रागेवोक्तं, सम्प्रति च मन्दरसमीपे तापक्षेत्रे चिन्ता क्रियमाणा वर्त्तते ततो मन्दरपरिरयः सुखावबोधार्थं प्रथमतस्त्रभिर्गुण्यते गुणयित्वा च दशभिर्विभज्यत इति, दशभिश्च भागे ह्रियमाणे यथोक्तं मन्दरसमीपे तापक्षेत्रपरिमाणमागच्छति, तथाहि - मन्दरपर्वतस्य विष्कम्भो दश सहस्राणि तेषां वर्गो दश कोट्यः तासां दशभिर्गुणने कोटिशतं अस्य वर्गमूलानयेन लब्धानि एकत्रिशत्सहस्राणि षट् शतानि किञ्चिन्यूनत्रयोविंशत्यधिकानि परं व्यवहारतः परिपूर्णानि विवक्ष्यन्ते एष राशिस्त्रभिर्गुण्यते, जातानि चतुर्नवति सहस्राणि अष्टौ शतानि एकोनसप्तत्यधिकानि एतेषां दशभिर्भागहारे लब्धानि नव योजनसहस्राणि चत्वारि शतानि षडशीत्यधिकानि नव च दशभागा योजनस्य, तत एष एतावान् - अनन्तरोदितप्रमाणः परिक्षेपविशेषो - मन्दरपरिरयपरिक्षेपविशेषस्तापक्षेत्रसंस्थितेराख्यात इति वदेत् स्वशिष्येभ्यः, अयं चार्थोऽन्यत्राप्युक्तः"मन्दरपरिरयरासीतिगुण दसाइयंभि जं लद्धं ।
119 11
७८
तं होइ तावखेत्तं अभितरमंडले रविणो ॥"
तदेवं सर्वाभ्यन्तरे मण्डले वर्त्तमाने सूर्ये मन्दरसमीपे तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरबाहाया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International