SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्राभृतं ४, प्राभृतप्राभृतं - यावद्वालाग्रपोत्तिकासंस्थिता प्रज्ञता इति, तच्चैवम् - एगे पुण एवमाहंसु गेहावणसंठिया तावखेत्तसंटिई प० एगे एव०२, एगे पुण एवमाहंसु पासावसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ३, एगे पुण एवमाहंसु गोपुरसंठिया तावखित्तसंटिई प०, एगे एवमाहंसु ४ । एगे पुण एवमाहंसु पिच्छाघरसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ५, एगे पुण एवमाहंसु वलभीसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ६, एगे पुण एवमाहंसु हम्मियतलसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ७, एगे पुण एवमाहंसु वालग्गपोत्तियासंठिया तावखित्तसंठिई पश्नत्ता, एगे एवमाहंसु ८ । अत्र सर्वेष्वपि पदेषु विग्रहभावना प्रागिव कर्त्तव्या, 'एगे पुण' इत्यादि एके पुनरेवमाहुः 'जस्संठिय'त्ति यत् संस्थितं-संस्थानं यस्य स यत्संस्थितो जम्बूद्वीपो द्वीपस्तत्संस्थिता - तदेव - जम्बूद्वीपगतं संस्थितं - संस्थानं यस्याः सा तथा तापक्षेत्रसंस्थिति प्रज्ञप्ता, अत्रोपसंहारः 'एगे एव०' ९, एके पुनरेवमाहुः - यत्संस्थितं भारतं वर्षं तत्संस्थिता तापक्षेत्रसंस्थिति प्रज्ञप्ता, अत्र विग्रहभावना प्रागिव वेदितव्या, अत्रोपसंहारः 'एगे एवमाहंसु' १०, एवंउक्तेन प्रकारेण उद्यानसंस्थिता तापक्षेत्रसंस्थितिरपरेषामभिप्रायेण वक्तव्या, सा चैवम्- 'एगे पुण एव० उज्जाणसंठिया तावखित्तसंदिई प० एगे एव० अत्र उद्यानस्येव संस्थितं - संस्थानं यस्याः सा तथेति विग्रहः ११, 'निञ्चाणसंदिय'त्ति निर्याणं पुरस्य निर्गमनमार्ग तस्येव संस्थितं - संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण वक्तव्या, सा चैवम् - एगे पुण एवमाहसु, निज्राणसंठिया तावखित्तसंठिई पत्रत्ता, एगे एवमाहंसु' १२ । 019 'एगतोनिसहसंठिय'त्ति एकतो-रथस्य एकस्मिन् पार्श्वे यो नितरां सहते स्कन्ध पृष्ठे वा समारोपितं भारमिति निषधो-वलीवद्दस्तस्येव संस्थितं संस्थानं यस्याः सा एकतोनिषधसंस्थिता अपरेषामभिप्रायेण वक्तव्या, सा चैवम्- 'एगे पुण एवमाहंसु, एगतोनिसहसंठिया तावखित्तसंटिई पन्नत्ता, एगे एवमाहंसु' १३, 'दुहतोनिसहसंदिय'त्ति अपरेषामभिप्रायेणोभयतोनिषधसंस्थिता वक्तव्या, उभयतो- रथस्योभयोओः पार्श्वयोर्यो निषधौ - बलीवद्द तयोरिव संस्थितं-संस्थानं यस्याः सा तथा, सा चैवं वक्तव्या - एगे पुण एवमाहंसु दुहओनिसहसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु' १४ 'सेयणदगसंठिय'त्ति श्येनकस्येव संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेणाभिधातव्या, सा चैवम्- 'एगे पुण एवमाहंसु सेवाणसंठिया तावखित्तसंटिई पन्नत्ता एगे एवमाहंसु' १५, 'एगे पुण' इत्यादि, एके पुनरेवमाहुः, सेचनकपृष्ठस्येव श्येनपृष्ठस्येव संस्थितं संस्थानं यस्याः सा तथा तापक्षेत्रसंस्थिति प्रज्ञप्ता, अत्रोपसंहारमाह- 'एगे एव १६ । तदेवमुक्ताः षोडशापि प्रतिपत्तयः, एताश्च सर्वा अपि मिथ्यारूपा अत एता व्युदस्य भगवान् स्वमतं भिन्मुपदर्शयति- 'वयं पुण' इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं वक्ष्यमाणप्रकारेण वदामः, उद्रीमुखे त्यादि, ऊर्ध्वमुखकलम्बुकपुष्प - संस्थिता - ऊर्ध्वमुस्य कलन्दुकापुष्पस्वेव नालिकापुप्यस्वेव संस्थितं संस्थानं यस्याः सा तथा, तापक्षेत्रसंस्थिति प्रज्ञप्ता, मया शेपैश्च तीर्थकृद्भिः, साकथम्भूतेत्यत आह- अन्तः - मेरुदिशि संकुचा संकुचिता वहि:- लवणदिशि विस्तृता, तथा अन्तर्मेरुदिशि वृत्ता-वृत्तार्द्धवलयाकारा सर्वतोवृत्तमेरुगतान् त्रीन् द्वौ वा दशभागानभिव्याप्य तस्या व्यवस्थितत्वात्, बहिर्लवणदिशि पृथुला मुत्कलभावेन विस्तारमुपगता, एतदेव संस्थानकथनेन स्पष्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy