SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ४-३५ प्रासादस्येवसंस्थानं यस्याः सा तथाऽन्येषामभिप्रायेण वक्तव्या, सा चैवम्-“एगेपुण एवमाहंसु, पासायसंठिया चंदिमसूरियसंठिई पनत्ता, एगे एवमाहंसु' ११ ‘गोपुरसंठिय'त्ति,गोपुरस्येवपुरद्वारस्येव संस्थितं-संस्थानं यस्याः सातथाऽन्येषां मतेनाभिधातव्या, सा चैवम्-‘एगे पुण एवमाहंसु गोपुरसंठिय चंदिमसूरियसंटिई पन्नत्ता, एगे एवमाहंसु' १२। 'पेच्छाघरसंठिय'त्ति प्रेक्षाग्रहस्येव वास्तुविद्याप्रसिद्धस्य संस्थितं-संस्थान यस्याः सातथा अपरेषां मतेनाभिधातव्या, तद्यथा-“एगे पुण एव०पिच्छाघरसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' १३, वलभीसंठिय'त्ति वलभ्या इव-गृहाणामाच्छादनस्येव संस्थितं-संस्थानं यस्याः सा तथा अन्येषां मतेनाभिघातव्या, सा चैवम्-‘एगे पुण एवमाहंसु वलभीसंठिया चंदिमसूरियसंठिई प० एगे एव०१४, ‘हम्मियतलसंठिय'त्ति हH-धनवतां गृहं तस्य तलउपरितनो भागस्तस्येव संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण वक्तव्या, सा चैवम्-‘एगे पुण एवमाहंसु हम्मियतलसंठि या चंदिमसूरियसंठिई प० एगे एव० १५ वालगपोत्तियासंठिय'त्ति वालाग्रपोतिकाशब्दो देशीशब्दत्वादाकाशतडागमध्ये व्यवस्थितं क्रिडास्थानं लघुप्रासादमाह तस्या इव संस्थितं-संस्थानं यस्याः सा तथा अपरेषां मतेन अभि धानीया, तद्यथा-'एगे पुण एवमाहंसु वालग्गपोत्तिया संठिया चंदिमसूरियसंठिई प० एगे एव१६ । तदेवमुक्ताः परतीथिकानां प्रतिपत्तयः, एतासां च मध्ये या प्रतिपत्ति समीचीना तामुपदर्शयति 'तत्थे त्यदि, तत्र-तेषां षोडशानां परतीर्थिकानांमध्ये येतेवादिन एवमाहुः-समचतुरससंस्थिता चन्द्रसूर्यसंस्थिति प्रज्ञप्ता इति, एतेन नवेन नेतव्यं- एतेनाभिप्रायेणास्मन्मतेऽपि चन्द्रसूर्यसंस्थितिरवधार्येति भावः, तथाहि-इह सर्वेऽपि कालविशेषाः सुषमसुषमादयो युगमूलाः, युगस्य चादौ श्रावणे मासि बहुलपक्षप्रतिपदि प्रातरुदयसमये एकः सूर्यो दक्षिणपूर्वस्यां दिशि वर्तते तदद्वितीयस्त्वपरोत्तरस्यां चन्द्रमा अपि तत्समये एको दक्षिणापरस्यां दिशि वर्तते द्वितीय उत्तरपूर्वस्यामत एतेषुयुगस्यादौ चन्द्रसूर्या समचतुरनसंस्थिता वर्तन्ते, यत्वत्र मण्डलकृतं वैषभ्यं यथा सूर्यो सर्वाभ्यन्तरमण्डले वर्तेते चन्द्रमसौ सर्वबाह्ये इति तदल्पमितिकृत्वा न देववक्ष्यते, तदें यतः सकलकालविशेषाणां सुषमासुषमादिरूपाणामादिभूतस्य युगस्यादौ समचतुरनसंस्थिताः सूर्यचन्द्रमसो भवन्तिततस्तेषां संस्थिति समचतुरस्रसंस्थानेनोपवर्णिता, अन्यथा वा यथासम्प्रदाय समचतुरनसंस्थिति परिभावनीयेति, 'नोचेवणंइयरेहिं'ति नोचेव-नैव इतरैः-शेषैर्नयैश्चन्द्रसूर्यसंस्थितिख़तव्या, तेषां मिथ्यारूपत्वात्, तदेवमुक्ता चन्द्रसूर्यसंस्थिति। सम्प्रति तापक्षेत्रसंस्थितिमभिधातुकामःप्रथमतस्तद्विषयंप्रश्नसूत्रमाह-'ताकहते इत्यादि, ता इति पूर्ववत् कथं भगवन् ! त्वया तापक्षेत्रसंस्थितिराख्याता इति भगवान् वदेत् ?, एवमुक्ते भगवान् एतद्विषये यावत्यः परतीथिकानां प्रतिपत्तयस्तावतीरुपदर्शयति-'तत्थे'त्यादि, तत्र-तस्यां तापक्षेत्रसंस्थितौ विषयो खल्विमाः पोडश प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, तद्यथा-तत्र-तेषांषोडशानां परतीर्थिकानांमद्ये एके एवमाह:-'गेहसंठिय'त्ति गेहस्येव-वास्तुविद्याप्रसिद्धगृहस्येव संस्थितं-संस्थानं यस्याः सा तथा, तापक्षेत्रसंस्थिति प्रज्ञप्ता, अत्रैवोपसंहारमाह- ‘एगे एव० एवं जाव वालग्गपोत्तियासंठिया तावखित्तसंठिई प०'इति, एवंअनन्तरोक्तेन प्रकारेण-चन्द्रसूर्यसंस्थितिगतेनप्रकारेणेत्यर्थः, गृहसंस्थितायाऊर्ध्वतावद्वक्तव्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy