________________
प्रामृतं ४, प्राभृतप्राभृतं
७५
वृ.'ता कहते सेयाए संठिई आहियाइति वदेज्जा?' ता इति पूर्ववत्, कथं भगवन् ! त्वया श्वेततायाः संस्थितिराख्याता इति भगवान् वदेत् ?, एवं भगवता गौतमेनोक्ते वर्द्धमानस्वामी भगवानाह–'तत्थे' त्यादि, तत्र श्वेतताया विषयेखल्वियं-वक्ष्यमाणस्वरूपा द्विविधासंस्थितिः, 'तयथा' तामेव तद्यथेत्यादिनोपदर्शयति, तद्यथेत्यत्र तच्छब्दोऽव्ययं, ततोऽयमर्थ-सा श्वेतता यथा येन प्रकारेण द्विधा भवति तथोपदयते, चन्द्रसूर्यसंस्थितिस्तापक्षेत्रसंस्थितिश्च, इह श्वेतता चन्द्रसूर्यविमानानामपि विद्यते तत्कृततापक्षेत्रस्यचततः स्वेततायोगादुभयमपिश्वेतताशब्देनोच्यते, तेनोक्तप्रकारेण श्वेतता द्विविधा भवति, तत्र चन्द्रसूर्यसंस्थितिविषये प्रश्नयति____ 'ता कहं ते'इत्यादि, ता इति प्राग्वत्, कथं ते त्वया भगवन् ! चन्द्रसूर्यसंस्थितिराख्याता इतिवदेत्?, इह चन्द्रसूर्यविमानानां संस्थानरूपा संस्थितिप्रागेवाभिहितातत इहचन्द्रसूर्यविमानसंस्थितिश्चतुर्णामपिअवस्थानरूपा पृष्टा द्रष्टव्या, एवमुक्तेभगवानेतद्विषयेयावत्यः परतीर्थिकाणां प्रतिपत्तयस्तातीरुपदर्शयति-'तत्थे' त्यादि,तत्रचन्द्रसूर्यसंस्थितौ विचार्यमाणायांखल्विमाः षोडश प्रतिपत्तयः प्रज्ञप्ताः,-एके वादिन एवमाहुः-समचतुरनसंस्थिता चन्द्रसूर्यसंस्थितः प्राप्ता, समचतुरम्न संस्थितिं- संस्थानं यसयाश्चन्द्रसूर्यसंस्थितेः सा तथा, अत्रैवोपसंहारवाक्यमाह
एगेएवमाहंसु, एवं सर्वत्रापि प्रत्येकमुपसंहारवाक्यं द्रष्टव्यं १,एके पुनरेवमाहुः विषमचतुरनसंस्थिता चन्द्रसूर्यसंस्थितिराख्याता, अत्राप विषमचतुरनं संस्थानं यस्याः सा तथेति विग्रहः २,एवं समचउक्कोणसंठिय'त्ति एवं-उक्तेन प्रकारेणापरेषामभिप्रायेण समचतुष्कोणसंस्थिता चन्द्रसूर्यसंस्थितिर्वक्तव्या, साचैवम्-'एगेपुणएवमाहंसु समचउक्कोणसंठियाचंदिमसूरियसंठिई पनत्ता, एगेएवमाहंसु अत्र 'समचउक्कोणसंठिय'त्ति समाश्चत्वारः कोणा यत्र तत्समचतुष्कोणं (तत्) संस्थितं-संस्थानं यस्याः सा तथेति विग्रहः ३, 'विसमचउक्कोणसंठिय'त्ति ‘एगे पुण एवमाहंसु-विप्समचउक्कणसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु'४।
समचक्कवालसंठियत्ति समचक्रवालं-समचक्रवालरूपं संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण चन्द्रसूर्यसंस्थितिर्वक्तव्या, साचैवम्- ‘एगे एवमाहंसुं समचक्कवालसंठिया चंदिमसूरियासंठिईपन्नत्ता, एगेएवमाहंसु ५, 'विसमचक्कवालसंठिय'त्तिविषमचक्रवालं-विषमयक्रवालरूपं संस्थितं-संस्थानं यस्याः सा तता अन्येषां मतेन चन्द्रसूर्यसंस्थितिर्वक्तव्यता सा चैवम्-‘एगे एवमाहंसु विसमचक्वालसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' ६, 'चक्कद्धचकवाल संठिय'त्ति चक्रस्य रथाङ्गस्य यदर्द्धचक्रवाल-चक्रवालस्वार्द्ध तद्रूपं संस्थितंसंस्थानं यस्याः सा तथा, अन्येषाभिप्रायेणवक्तव्या, साचैवम्-‘एगेपुणएवमाहंसुचक्कद्धचक्कवालसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु'७, 'एगे पुण' इत्यादि, एके पुनराहुः छत्राकारसंस्थिता चन्द्रसूर्यसंस्थिति प्रज्ञप्ता, अत्रैवोपसंहारः एगे एवमाहंसु' ८।
'गेहसंठिय'त्ति गेहस्येव-वास्तुविद्योपनिबद्धस्य गृहस्येव संस्थितं-संस्थानं यस्याः सा तथा अपरेषां मतेन चन्द्रसूर्यसंस्थितिर्वक्तव्या, साचैवम्--'एगे पुणएवमाहंसु गेहसंठिया चंदिमसूरियसंठिईपनत्ता, एगे एवमाहंसु' ९, 'मेहावणसंठियत्तिगृहयुक्त आपणोगृहापणो-वास्तुविद्याप्रसिद्धस्तस्येव संस्थितः-संस्थानं यस्याः सा तथा अन्येषामभिप्रायेण वक्तव्या,सा चैवम्-‘एगे पुणएवमाहंसु, गेहावणसंठिया चंदिमसूरियसंठिईपन्नत्ता, एगेएवमाहंसु १०, पासायसंठिय'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org