________________
प्रामृतं २, प्राभृतप्राभृतं -३ दुवासमुहत्ता राई भवइ', 'तस्सिंच ण'मित्यादि, तस्मिंश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादशमुहूर्त्तप्रमाणदिवसे तापक्षेत्रप्रज्ञप्तं एकनवतिर्योजनसहस्राणि तानि चैवमुपपद्यन्तेउदगमनमुहूर्तेस्त-मयमुहूर्ते च प्रत्येकं षट् योजनसहनाणि गच्छतीत्युभयमीलने द्वादश योजनसहस्राणि सर्वाभ्यन्तरं मुहूर्तमात्रगम्यंतापक्षेत्रमुक्त्वाशेषेमध्यमेतापक्षेत्रे पञ्चदशमुहूर्तप्रमाणे पञ्च पञ्चयोजनसहस्राणि गच्छतीति पञ्चानां योजनसहस्रणां पञ्चदशभिर्गुणने पञ्चसप्ततिर्योजनसहस्राणि सर्वाभ्यन्तरे तु मुहूर्त्तमात्रगम्ये तापक्षेत्रचत्वारियोजनसहम्माणि गच्छतीति सर्वमीलने एकनवतिर्योजनसहस्राणि भवन्ति, न चैतान्यन्यथा घटन्ते, तथा ‘ता जयान'मित्यादि, तत्रयदा सर्ववाद्यंमण्डलमुपसंक्रम्य सूर्यश्चारं चरति तदा रात्रिंदिवं-रात्रिंदिवपरिमाणं तथैव-प्रागिव वेदितव्यं, तच्चैवम्
'तयाणंउत्तमकठ्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ताराई भवइ, जहन्नए दुवालसमुहुत्ते दिवसे भवई' इति, तस्सिंच णमित्यादि, तस्मिंश्च सर्वबाह्यमण्डलगते द्वादशमुहूर्तप्रमाणे दिवसेतापक्षेत्रं प्रज्ञतं, एकपष्टिर्योजनसहनाणि तानि चैवंघटा प्राञ्चन्ति-उदगमनमुहूर्तअस्तमयमुहूर्ते च प्रत्येक पट्पट्योजनसहस्राणि गच्छन्ति, तत उभयमीलने द्वादशयोजनसहनाणि भवन्ति सर्वाभ्यन्तरं मुहूर्तमात्रगम्यंतापक्षेत्रमुक्त्वा शेषे मध्यमे तापक्षेत्रे नवमुहूर्तगम्यप्रमाणे पञ्चपञ्च योजनसहस्राणि एकैकेन मुहूर्तेन गच्छति, ततः पञ्चानां योजनसहस्रणांनवभिगुणने पञ्चचत्वारिंशद्योजनसहम्माणि भवन्ति सर्वाभ्यन्तरे तु मुहूर्तमानगम्ये तापक्षेत्रे चत्वारि योजनसहस्राणि गच्छति, सर्वमीलने एकषष्टियोजनसहम्नाणि, नचैतान्यन्यथोपपद्यन्ते,ततः 'तयाण'मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले सर्वबाह्यमण्डलचारकाले चोक्तप्रकारेण षडपि पश्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहूर्तेनगच्छति, अत्रैवोपसंहार:--'एगेएव०' एके चतुर्था वादिन एवं अनन्तरोक्तेन प्रकारेणाहुः । तदेवं परतीर्थि-कप्रतिपत्तीरुपदर्य सम्प्रति स्वमतमुपदर्शयति_ 'वयं पुण' इत्यादि, वयं पुनरुत्पन्न केवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-'ता साइरेगाई'इत्यादि, ता इति पूर्ववत् सातिरेकाणि-समदिकानि पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन णुहूर्तेन गच्छति, इह क्वापि मण्डले कियताऽधिकेन पञ्च पञ्च योजनसहमाणिगच्छति, ततः सर्वमण्डलप्राप्तिमपेक्ष्य सामान्यत उक्तं सातिरेकाणीति, एवमुक्तेभगवान् गौतमस्वामी स्वशिष्याणां स्पष्टाववोधनाय भूयः पृच्छति_ 'तत्थे' त्यादि, तत्र-एवंविधायामनन्तरोदितायां वस्तुव्यवस्थायांको हेतुः का उपपत्तिरिति वदेत्, भगवान् वर्द्धमानस्वामी आह–'ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत्स्वयं परिपूर्ण परिभावनीयं । 'ता जया न मित्यादि, तत्र वदा सूर्य सर्वाभ्यन्तरं मण्डलमुपसंक म्य चारं चरति तदा पञ्चपञ्च योजनसहनाणि द्वे द्वेयोजनशते एकपञ्चाशदधिके एकोनत्रिंशतंच पष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्छति, कथमेतदवसीयते इति चेत्, उच्यते, इह द्वाभ्यां सूर्याभ्यामेकं मण्डलमेकेनाहोरात्रेण परिसमायते, आहोरात्रश्च त्रिशन्मुहूर्तप्रमाणः, प्रतिसूर्व चाहोरात्रगणने परमार्थतो द्वाभ्यामहोरात्राभ्यांमण्डलं परिभ्रमणतः परिसमाप्यते, द्वयोश्चाहोरात्रप्रमाणयोर्मुहूत्ता पटिर्भवन्ति, ततो मण्लपरिरयस्य षष्टया भागं हारचेत्, भागलब्धं भवति तन्मुहर्तगतिप्रमाणं, तत्र सर्वाभ्यन्तरे मण्डले परिरयप्रमाणं त्रीणि लक्षाणि पञ्चदश सहनाणि नवाशी त्यधिकानि ३१५०८९ अस्य पष्टया भागेहते लब्धं यथोक्तं मुहूर्तगतिपरिमाणमिति । अत्रास्मिन् सर्वाभ्यन्तरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org