________________
६०
सूर्यपिपासूत्रम् २/३/३३
दिवसे भवती 'ति, 'तस्सिंचन 'मित्यादि, तस्मिन् सर्वबाह्यमण्डलगते सर्वजघन्ये द्वादशमुहूर्तप्रामाणे दिवसे तापक्षेत्रं प्रज्ञप्तं षष्टिर्योजनसहस्राणि तदा ह्यनन्तरोक्तयुक्तिवशाद् द्वादश-मुहूर्त्तगम्यप्रमाणं तापक्षेत्रमेकैकेन च मुहूर्तेन पञ्च २ योजनसहस्राणि गच्छति ततः पञ्चानां योजनसहस्रणां द्वादशभिर्गुणने भवति षष्टिर्योजनसहस्राणि अत्रैवोपपत्तिलेशमाह
'तया गंपंचे पंचे' त्यादित, तदा सर्वाभ्यन्तरमण्डलचारचरमकाले सर्वबाह्यमण्डलचारचरणकाले च पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, ततः सर्वाभ्यन्तरे सर्ववाह्ये च मण्डले यथोक्तमातपक्षेत्रपरिमाणं भवति २ । 'तत्थे 'त्यादि, तत्र ये ते वादिन एवमाहुः - चत्वारि २ योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति त एवं सूर्यतापक्षेत्रप्ररूपणां कुर्वन्ति यदा सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा दिवसरात्री तथैव-प्रागिव वक्तव्ये, ते चैवम्- 'तथा णं उत्तम पत्ते उक्कोसए अट्ठारसभवइ' इति, 'तस्सि च न 'मित्यादि, तस्मिंश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादशमुहूर्तप्रमाणे दिवसे तापक्षेत्रं प्रज्ञप्तं द्विसप्ततिर्योजन सहस्राणि तथा हि-एतेषां मतेन सूर्य एकैकेन मुहूर्तेन चत्वारि २ योजनसहस्राणि गच्छति, सर्वाभ्यन्तरे च मण्डले तापक्षेत्रपरिमाणं प्रागुक्तयुक्तिवशादष्टादश-मुहूर्त्तगम्यं, ततश्चतुर्णां योजनसहस्रणामष्टादशभिर्गुणने भवन्ति द्विसप्ततिर्योजनसहस्राणि, 'ताजयाण' मित्यादि, ततो यदा सूर्य सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति, तदा 'राईदियं तहेव 'त्ति रात्रिंदिवं - रात्रिदिवसप्रमाणं तथैव-प्रागिव वक्तव्यं, तच्चैवम्- 'तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहन्नए दुवालसमुहुत्ते दिवसे भवति’ ‘तस्सि च न’मित्यादि, तस्मिंश्च सर्वबाह्यमण्डलगते द्वादशमुहूर्त्तप्रमाणे दिवसे तापक्षेत्रं प्रज्ञप्तं अष्टाचत्वारिंशद्योजन सहस्राणि तदा हि तापक्षेत्रं द्वादशमुहूर्त्तगम्यं, एकैकेन च मुहूर्त्तेन चत्वारि २ योजनसहस्राणि गच्छति, ततश्चतुर्णां योजनसहनमां द्वादशभिर्गुणनेऽटाचत्वारिंशत्सहस्राणि भवन्ति, इमामेवोपपत्तिं लेशतो भावयति- 'तया ण'मि०तदा सर्वाभ्यन्तरमण्डलचाराले सर्ववाह्यमण्डलचारकाले च यतश्चत्वारि योजनसहस्राणि एकैकेन मुहूर्तेन गच्छति ततः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले यथोक्तं तापक्षेत्रपरिमाणं भवति ३ ।
'तत्थे 'त्यादि, तत्र ये ते वादिन एवमाहुः - पडपि पञ्चापि चत्वार्यपि योजनसहग्रहाणि सूर्य एकैकेन मुहूर्त्तेन गच्छति ते एवमाहुः एवं सूर्वचारं प्ररूपयन्ति, सूर्य उद्गमनमुहूर्ते अस्तमयनमुहूर्ते च शीघ्रगतिर्भवति ततस्तदा- उद्गमनकालेऽस्तमयनकाले च सूर्य एकैकेन मुहूर्तेन षट् षड् योजनसहस्राणि गच्छति, तदनन्तरं सर्वाभ्यन्तरगतं मुहूर्त्तमात्रगम्यं तापक्षेत्रं मुक्त्वा शेषं मध्यं तापक्षेत्रं परिभ्रमेण समासादयन् मध्यमगतिर्भवति, ततस्तदा पञ्च पञ्च योजनसहस्राणि एकैकेन मुहूर्त्तेन गच्छति, सर्वाभ्यन्तरं तु मुहूर्तमात्रगम्यं तापक्षेत्रं सम्प्राप्तः सन् सूर्यो मन्दगतिर्भवति, ततस्तदा यत्र तत्र वा मण्डले चत्वारि २ योजनसहस्राणि एकैकेन मुहूर्तेन गच्छति, अत्रैव भावार्थं पिपृच्छिपुराह-- 'तत्थे'त्यादि, तत्र एवंविधवस्तुतत्वव्यवस्थायां को हेतुः ? -का उपपत्तिरिति वदेत्, एवं स्वशिष्येण प्रश्ने कृते सति ते एवमाहुः 'ता अयण्ण' मित्यादि, अत्र जम्बूद्वीपवाक्यं पूर्ववत् स्वयं परिपूर्णं पठनीयं व्याख्यानीयं च ।
'जयाण' मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा दिवसरात्री तथैव प्रागिव वक्तव्ये, ते चैवम्- 'तया णं उत्तमकट्टपत्ते उक्कोसए द्वारसमुहुत्ते दिवसे भवि जहन्निया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org