________________
प्राभृतं २, प्राभृतप्राभृतं -३ तत्र-तेषां चतुर्णा वादिनां मध्ये एके एवमाहुः--षट् २ योजनसहनाणि सूर्य एकैकेन मुहूर्तेन गच्छति, अत्रैवोपसंहारः ‘एगे एवमाहंसु' ११ एवमग्रेतनान्युपसंहारवाक्यानि भावनीयानि, एकेपुनर्द्वितीयाएवमाहुः पञ्च २ योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति २, एके पुनस्तृतीया एवमाहुः-चत्वारि २ योजन- सहस्राणि सूर्य एकैकन मुहूर्तेन गच्छति, ३ !
अपरे पुनश्चतुर्थाएवमाहुः-षडपिपञ्चापिचत्वार्यपियोजनसहस्राणिसूर्य एकैकेन मुहूर्तेन गच्छति, तदेवंचतसोऽपि प्रतिपत्तीः सङक्षेपत उपदर्य सम्प्रत्येतासां यथाक्रमं भावनिकामाह
'तत्थे' त्यादि, तत्र येते वादिन एवमाहुः-षट्पट्योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छतितेएवमाहुः-यदा सूर्य सर्वाभ्यन्तरंमण्डलमुपसंक म्यचारंचरति तदा उत्तमकाष्ठाप्राप्तःपरमप्रकर्षप्राप्तोऽष्टादशमुहूर्तो दिवसो भवति सर्वजधन्या च द्वादशमुहूर्त्ता रात्रि, तस्मिंश्च दिवसे तापक्षेत्रप्रज्ञप्तं एकंयोजनशतसहस्रमष्टौच योजनसहस्राणि, तथाहि-तस्मिन्नपि मण्डले उदयमानः सूर्योदिवसस्यार्द्धन यावन्मात्रं क्षेत्रं व्याप्नोतितावति व्यवस्थितश्चक्षुर्गोचरमायाति तत एतावकिल पुरतस्तापक्षेत्रं, यावच्च पुरतस्तापक्षेत्रं तावत्पश्चादपि, यत उदयमान इवास्तम्यमानोऽपि सूर्यो दिवसस्यार्द्धन यावन्मात्रंक्षेत्रंव्याप्नोति तावतिव्यवस्थितश्चक्षुषोपलभ्यते, एतच्च प्रतिप्राणिसुप्रसिद्धं, सर्वाभ्यन्तरेच मण्डले दिवसस्यार्द्धनव मुहूर्तास्ततोऽष्टादशभिमुहूर्तर्यावन्मात्रं क्षेत्रं गम्यंतावप्रमाणं तापक्षेत्रं, एकैकेन मुहर्तेन षट् षट्योजनसहस्राणि गम्यन्ते, ततः षण्णांयोजनसहस्राणामष्टादशभिर्गुणने भवत्येकं योजनशतसहसमष्टौ योजनसहस्राणीति,
- एवमुत्तरत्रापि तत्तन्मण्डलगतदिवसपरिमाणं प्रतिमुहूर्तगतिपरिमाणं च परिभाव्य तापक्षेत्रपरिमाणभावना भावनीया, यदाच सर्वबाह्यमण्डलमुपसंक्रम्य चारंचरतितदाउत्तमकाष्ठाप्राप्ताअष्टादशमुहूर्ता रात्रिर्भवतिसर्वजघन्यश्चद्वादशमुहूर्तोदिवसः,तस्मिंश्चदिवसे तापक्षेत्रपरिमाणं द्विसप्ततिर्योजनसहस्राणि तदा हि तापक्षेत्रं द्वादशमुहूर्तगम्यप्रमाणं, अत्रार्थे च भावना प्रागुक्तानुसारेण स्वयं भावनीया, मुहूर्तेन च षट्पट् योजनसहस्राणि गच्छति, ततः षण्णां योजनसहनणां द्वादशभिर्गुणने भवन्ति द्वासप्ततिरेव योजनसहसाणीति, इमामेवोपपत्तिं लेशत आह 'तेसिन' मित्यादि, तेषां हि तीर्थान्तरीयाणां मतेन सूर्यषट्षड्योजनसहनण्येकैकेन मुहूर्तेन गच्छति ततः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले यथोक्तमेव तापक्षेत्रपरिमाणं भवतीति, तथा -
'तत्थे'त्यादि, तत्र-तेषां वादिनां मध्ये ये ते एवमाहुः-पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति त एवमाहुः-यदा सूर्य सर्वाभ्यन्तरंमण्डलमुपसंक्रम्यचारंचरति ‘तहेव दिवसराइप्पमाण मितिअत्र प्रस्तावे दिवसरात्रिप्रमाणंतथैव-प्रागिव द्रष्टव्यं, 'तयाणं उत्तमकठ्ठपत्ते उक्कसए अट्ठारसमुहत्ते दिवसे हवइ, जहनिया दुवालसमुहुत्ता राई इति, तस्सिंचन'मित्यादि, तस्मिंश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादशमुहूर्त्तप्रमाणे दिवसे तापक्षेत्रं-तापक्षेत्रपरिमाणं प्रज्ञप्तं नवतिर्योजनसहस्राणि, तदा हि प्रागुक्तयुक्तिवशादष्टादशमुहूर्तप्रमाणं तापक्षेत्रं, एकैकेन च मुहूर्तेन गच्छति सूर्य पञ्च २ योजनसहस्राणि, ततः पञ्चानां योजनसहस्रणामष्टादशभिर्गुणनेन नवतिरेव योजनसहस्राणि भवन्ति, 'ताजयाण मित्यादि, यदा सूर्य सर्वबाह्यं भण्डलमुपसंक्रम्य चारं चरति तदा 'तंचेव राइंदियप्पमाण मिति, तदेव प्रागुक्तं रात्रिंदिवप्रमाणं-रात्रिदिवसप्रमाणं वक्तव्यं, तद्यथा-"उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई हवइ जहनिए दुवाल समुहुत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org