SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/३/३३ मण्डले कियति क्षेत्र व्यवस्थित उदयमानः सूर्य इहगतानां मनुष्याणां चक्षुर्गोधरमायातीतिप्रश्नावकाशमाशङ्कयाह--- 'तया ण मित्यादि, तदा-सर्वाभ्यन्तरमण्डलचारचरणकाले उदयमानः सूर्य इहगतस्य मनुष्यस्य, अत्रजातावेकवचनं, ततोऽयमर्थः-इहगतानांभरतक्षेत्रगतानांमनुष्याणांसप्तचत्वारिंशतायोजनसहाभ्यां त्रिषाभ्यां-त्रिषष्टयधिकाभ्यां योजनशताभ्यामेकविंशत्याच षष्टिभागयोजनस्य चक्षुस्पर्श 'हव्वंति' शीघ्रमागच्छति, काऽत्रोपपत्तिरिति चेत्, उच्यते, इह दिवसस्यार्द्धन यावन्मानं क्षेत्र व्याप्यते तावति व्यवस्थित उदयमानः सूर्य उपलभ्यते, सर्वाभ्यन्तरे च मण्डले दिवसोऽष्टादशमुहूर्तप्रमाणस्तेषामट्टै नव मुहूर्ताः, एकाकस्मिंश्च मुहूर्ते सर्वाभ्यन्तरे मण्डले चारं चरन् पञ्च पञ्चयोजनसहम्माणि द्वे च योजनशते एकपञ्चाशदधिके एकोनत्रिंशतं च षष्टिभागान् योजनस्य गच्छति, त एतावन्मुहूर्तगतिपरिमाणं नवभिर्मुहूर्तेर्गुण्यते, ततो भवति यथोक्तं दृष्टिपथप्राप्तताविषये परिमाणमिति । 'तयाण मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारचरणकाले दिवसरात्री तथैव-प्रागिव वक्तव्ये, ते चैवम्-'तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवइ, जहन्निया दुवालसमुहुत्ता राई भवइ' इति । ___ ‘से निक्खममाणे' इत्यादि, ततः सर्वाभ्यन्तरान्मण्डलाट्यागुक्तप्रकारेण निष्क्रामन् सूर्यो नवं संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे 'अभितरानंतरं तिसर्वाभ्यन्तरस्यमण्डलस्यानन्तरं द्वितीयं मण्डलमुपसंक म्य चारं चरति ‘ता जया णमित्यादि तत्र यदा णमिति वाक्यालङ्कारे सर्वाभ्यन्नानन्तरं द्वितीयंमण्डलमुपसंक्रम्य चारं चरति तदा पञ्च योजनसहमाणि द्वेयोजनशते एकपञ्चाशदधिके सप्तचत्वारिंशतंचषष्टिभागान्योजनस्य एकैकेन मुहूर्तेन गच्छति, तथाहि-अस्मिन् सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले परिरयपरिमाणं त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेकं व्यवहारतः परिपूर्णं सप्तोत्तरं निश्चयमतेन तु किंचिन्यूनं ततोऽस्य प्रागुक्तयुक्तिवशात् षष्टया भागो ह्रियते, लब्धं यथोक्तमत्र मण्डले मुहूर्ततिपरिमाणं, अथवा पूर्वमण्डलपरिरयपरिमाणादस्य मण्डलस्य परिरयपरिमाणे व्यवहारतः परिपूर्णान्यष्टादशयोजनानि वर्द्धन्ते, निश्चयतः किञ्चिदूनानि, अष्टादशानां च योजनानां पटया भागे हृते लब्धा अष्टादश षष्टिभागा योजनस्य, ते प्राक्तनमण्डलगतमुहूर्तगतिपरिमाणेऽधिकत्वेन प्रक्षिप्यन्ते, ततो भवति यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणमिति, अत्रापि दृष्टिपथप्राप्तताविषयं परिमाणमाह तयाण मित्यादि, तदा-सर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारकाले इहगतस्य मनुष्यस्यजातावेकवचनंइहगतानां मनुष्याणांसप्तचत्वारिंशता योजनसहनैरेकोनाशीत्यधिकेन योजनशतेन सप्तपञ्चाशता षष्टिभागैरेकंच पष्टिभागमेकषष्टिधा छित्वा तस्य सत्कैरेकोनविंशत्या चूर्णिकाभागैः सूर्यश्चक्षुस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले मुहूर्तगतिपरिमाणं पञ्च योजनसहस्राणि द्वे शते एकपञ्चाशदधिके सप्तचत्वारिंशच्च पष्टिभागा योजनस्य दिवसोऽयदशमुहूर्त्तपमाणो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूनस्तस्या नव मुहूर्त्ता एकेन एकषष्टिभागेन हीनाः, ततः सकलैकपष्टिभागकरणार्थं नव मुहूर्ता एकषष्टया गुण्यन्ते, गुणयित्वा च तत ए रूपमपनीयते, जातानि पञ्चशतान्यष्टचत्वारिंशदधिकानि ततोऽस्य द्वितीयस्य मण्डलस्य यत्परिरयपरिमाणं त्रीणि लक्षाणि पञ्चदश सहस्राणि शतमेकं सप्तोत्तरमिति तत्पञ्चभिः शतैरष्टाचत्वारिंश-दधिकैर्गुण्यते, ततो For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy