________________
५६
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/२/३२ परिभ्रमितुमिप्टे, द्वितीयमण्डलसत्काहोरात्रमध्यात्त्रुट्यति, ततो द्वितीये मण्डले परिभ्रमन् पर्यन्ते तावन्तं कालं न परिभ्रमेत् तद्गताहोरात्रस्य परिपूर्णीभूतत्वात्, एवमपि को दोष इत्याह-पुरतो द्वितीयमण्ड-लपर्यन्तेऽगच्छन् मण्डलकालं परिभवति, यावता कालेन मण्डलं परिपूर्ण भ्रम्यते तस्य हानिरुप-जायते, तथा च सतिसकलजगद्विदितप्रतिनियतदिवसरात्रिपरिमाणव्याघातप्रसङ्गः, 'तेसि णमयं दोसे'त्ति तेषामयं दोषः।
'तत्थे' त्यादि, तत्र येते वादिन एवमाहुः-मण्डलान्मण्डलं संक्रमन् सूर्योऽधिकृतमण्डलं कर्णकलं निर्वेष्टयति-मुञ्चति तेषामयं विशेषो-गुणः, तमेव गुणमाह-'जेणे'त्यादि, येन-यावता कालेनापान्तरालेन मण्डलामण्डलं संक मन्सूर्य कर्णकलमधिकृतंमण्डलंनिर्वेटयति, एतावतीमद्धां पुरतोऽपि द्वितीयमण्डलपर्यन्तेऽपि गच्छति, इयमत्र भावना-अधिकृतं मण्डलं किल कर्णकलं निर्वेष्टितंअतोऽपान्तरालगमनकालोऽधिकृतमण्डलसत्क एवाहोरात्रेऽन्तर्भूतस्तथाच सतिद्वितीये मण्डले संक न्तः सन् तद्गतकालस्य मनागप्यहीनत्वाद् यावता कालेन प्रसिद्धेन तन्मण्डलं परिसमाप्यतेतावता कालेनतन्मण्डलंपरिपूर्ण समापयति, नपुनर्मनागपिमण्डलकालपरिहाणिस्ततो न कश्चित्सकलजगत्प्रसिद्धप्रतिनियतदिवसरात्रिपरिमाणव्याघातप्रसङ्गः, एष तेषामेवंवादिनां विशेषो-गुणः, तत इदमेव मतं समीचीनं नेतरदित्यावेदयन्नाह
'तत्थे त्यादितत्रयेतेवादिन एवमाहुमण्डलान्मण्डलं संक्रमन्सूर्योऽधिकृतंमण्डलं कर्णकलं निर्वेष्टयति, एतेन नयेन-अभिप्रायेणास्मन्मतेऽपि मण्डलान्मण्डलान्तरसंक्रमणं ज्ञातव्यं, न चैवमितरेण नयेन, तत्र दोषस्योक्तत्वात्॥
प्राभृतं-२, प्राभृत प्राभृतं-२ समाप्तम्
-प्राभृत प्राभृतं-३:वृ. तदेवमुक्तं द्वितीयस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतं सम्प्रति तृतीयमुच्यते-तस्य चायमाधिकारः, यथा 'मण्डले २ प्रतिमुहर्त गतिर्वक्तव्ये ति, ततस्तद्विषयं प्रश्नसूत्रमाह
मू. (३३) ता केवतियं ते खेत्तं सूरिए एगमेगेणं मुहुत्तेणं गच्छति आहिताति वदेजा ?, तत्थ खलु इमातो चत्तारि पडिवत्तीओ पन्नत्ताओ, तत्थ एगे एवमाहंसु-ता छ छ जोयणसहस्साई सूरिएएगमेगेणं मुहत्तेण गच्छति, एगे एवमाहंसु१एगेपुण एवमाहंसु-तापंचपंच जोयणसहस्साई सूरिए एगमेगेणंमुहुत्तेणं गच्छति एगे एवमाहंसु२, एगेपुण एवमाहंसु-ता चत्तारि २ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, एगे एवमाहंसु ३, एगे पुण एवमाहंसु-ता छवि पंचविचत्तारिवि जोयणसहस्साहं सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे एवमासु ४।।
तस्थ जे ते एवमाहंसु ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छति ते एवमाहंसु-जता णं सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चरति तया णं उत्तमकट्टपत्ते कोसे अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवति, तेसिं च णं दिवसंसि एगं जोयणसतसहस्सं अट्ठ य झओयणसहस्साइं तावक्खेत्ते पनत्ते, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमिता चारं चरति तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहन्ने दुवालसमुहुत्ते दिवसे भवति, तेसिं च णं दिवसंसि बावत्तरि जोयणसहस्साई तावक्खेत्ते पन्नते, तया णंछ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org