SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्राभृतं २, प्राभृतप्राभृतं -२ ५५ __ -प्रामृतप्राभृतं-२:वृ. तदेवमुक्तं द्वितीयस्य प्रामृतस्य प्रथमं प्राभृतप्राभृतं, सम्प्रति द्वितीयमारभ्यते, तस्य चायमर्थाधिकारो यथा 'मण्डलान्तरे संक्रमणं वक्तव्य मिति ततस्तद्विषयं प्रश्नसूत्रमाह मू. (३२) ता कहं ते मंडलाओ मंडलं संकममाणे २ सूरिए चारं चरति आहिताति वदेज्जा तत्थ खलु इमातो दुवे पडिवत्तीओ पन्नत्ताओ। तत्थेगेएवमाहंसुता मंडलातोमंडलं संकममाणे २ सूरिए भेयधाएणसंकामइएगेएवमाहंसु, एगे पुण एवमाहंसु ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निब्वेटेति। तत्थ जे ते एवमाहंसु, ता मंडलातो मंडलं संकममाणे २ भेयधाएणं संकमइ, तेसिणं अयं दोसे, ता जेणंतरेणं मंडलातो मंडलं संकममाणे २ सूरिए भेयधाएणं संकमति, एवतियं च णं अद्धं पुरतो न गच्छति, पुरतो अगच्छमाणे मंडलकालं परिहवेति, तेसिणं अयं दोसे। तत्थ जे ते एवमाहंसु, ता मंडलातो मंडलं संकममाणे सूरिए कण्णकलं निवेढेति, तेसिणं अयं विसेसे ताजेणंतरेणं मंडलातो मंडलं संकममाणे सूरिए कण्णकलं णिव्वेढेति, एवतियंचणं अद्धं पुरतो गच्छति, पुरोत गच्छमाणे मंडलकालं न परिहवेति, तेसिणं अयं विसेसे। तत्थ जे ते एवमाहंसु-मंडलातो मंडलं संकममाणे सूरिए कण्णकलं णिवेढेति, एतेणं नएणं नेतव्वं, नो चेवणं इतरेणं। वृ. 'ता कह'मित्यादि, ता इति पूर्ववत्, कथंभगवन्! मण्डलान्मण्डलं संक्रामन् सूर्यश्चारं चरति, चारंचरनाख्यात इतिवदेत्, किमुक्तं भवति? -कथं भगवनेष सूर्यश्चारंचरनमण्डलामण्डलं संक्रामन् आख्यात इति, अत्रहि मण्डलान्मण्डलान्तरसंक्र मणमेव वक्तव्यमतस्तदेवप्रधानीकृत्य वाक्यस्य भावार्थोभावनीयः, एवमुक्तेभगवानाह- 'तत्थ खलु' इत्यादि, तत्र-मण्डलान्मण्डलान्तरसंका मणविषये खल्विमे द्वे प्रतिपत्ती प्रज्ञप्ते तद्यथा-तत्रैके एवमाहुः–ता इति पूर्ववत्स्वयं परिभावनीयं, मण्डलादपरमण्डलं संक्र मन्-संक्रमितुमिच्छन् सूर्यो भेदघातेन संक मति, भेदो-मण्डलस्य मण्डलस्यापान्तरालं तत्रघातो-गमनं, एतच्च प्रागेवोक्तं, तेन संक्रमति, किमुक्तं भवति? विवक्षितेमण्डले सूर्येणापूरितेसतितदन्तर-मपान्तरालगमनेन द्वितीयंमण्डलं संक्रमति, संक्राम्य च तस्मिन्मण्डले चारं चरति, अत्रोपसंहारः ‘एगे एवमाहंसु' । ___ एके पुनरेवमाहुः 'ता' इति पूर्ववत्मण्डलान्मण्डलं संक्रामन्-संक्रमितुमिच्छन् सूर्यस्तदधिकृतं मण्डलं प्रथमक्षणादूर्ध्वमारभ्य कर्णकलं निर्वेष्टयति-मुञ्चति, इयमत्रभावना-भरत ऐरावतो वा सूर्य स्वस्वस्थाने उद्गतः सन् अपरमण्डलगतं कर्णं प्रथमकोटिभागरूपं लक्ष्यीकृत्य शनैः शनैरधिकृतं मण्डलं तया कयाचनापि कलया मुञ्चन् चारं चरति येन तस्मिन्नहोरात्रेऽतिक्रान्ते सति अपरानन्तरमण्डलस्यारम्भे वर्तते इति, कर्णकलमिति च क्रियाविशेषणं द्रष्टव्यं, तच्चैवं भावनीयं-कर्ण-अपरमण्डलगतप्रथमकोटिभागरूपं लक्ष्यीकृत्याधिकृतमण्डलं प्रथमक्षणादूर्ध्वं क्षणे क्षणे कलयाऽतिक्रान्तं यथा भवति तथा निर्वेष्टयतीति, तदेवंप्रतिपत्तिद्वयमुपन्यस्य यद्वस्तुतत्वं तदुपदर्शयति- 'तत्थे त्यादि, तत्र-तेषां द्वयानां मध्ये ये एवमाहुः-मण्डलान्मण्डलं संका मन् सूर्यो भेदघातेन संक्रामतीत्युच्यते, एतावतीमद्धां पुरतो-द्वितीये मण्डले न गच्छति, किमुक्तं भवति ? - मण्डलान्मण्डलं संक्रामन् यायता कालेनापान्तरालं गच्छति तावत्कालाऽनन्तरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy