________________
५४
एवं सकलकालं, अत्रोपसंहारमाह- 'एगे एवमाहंसु' ८।
1
तदेवं परप्रतिपत्तीरुपदर्श्य स्वमतमुपदर्शयति- 'वयं पुण' इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह'ता' इत्यादि, ता इति पूर्ववत्, जम्बूद्वीपस्य द्वीपस्योपरि यद्वा तद्वा मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा चतुर्विंशत्यधिकशतसङ्खान् भागान् मण्डलं परिकल्प्येत्यर्थः, भूयश्च प्राचीनापाचीनायतया उदीच्यदक्षिणायतया प्रत्यञ्चया- दवरिकयेत्यर्थ, तन्मण्डलं चतुर्भिर्भागैर्विभज्य दक्षिणपौरस्त्य उत्तरपश्चिमेच चतुर्भागमण्डले - चचतुर्भागमण्डले - मण्डलचतुर्भागे एकत्रिंशद्भागप्रमाणे, एतावति किल चतुरशीत्यधिकमपि मण्डलशतं सूर्यस्योदये प्राप्यते इति 'चउवीसेणंसएणं छित्ता चउब्भागमंडलंसी'त्युक्तं, अस्याः-अप्रत्यक्षत उपलभ्यमानाया रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वमष्यै योजशतान्युत्तुत्य - बुद्धया गत्वा अत्रान्तरे प्रातद्वौ सूर्यावुत्तिष्ठतः - उद्गच्छतः, दक्षिणपौरस्त्यमण्डलचतुर्भागे भारतः सूर्य उद्गच्छति अपरोत्तरस्मिन् मण्डलचतुर्भागे ऐरावतः सूर्य, तौ चैवमुद्गतौ भरतैरावतसूर्यौ यथाक्रममिमौ दक्षिणोत्तरौ जम्बूद्वीपभागौ तिर्यक्कृरुतः, किमुक्तं भवति ? - भारतः सूर्यो दक्षिणपौरस्त्यमण्डलचतुर्भागे उद्गतः सन् तिर्यक् परिभ्रमति तिर्यक् परिभ्रमन् मेरोर्दक्षिणभागं प्रकाशयति, ऐरावतः पुनः सूर्योऽपरोत्तरदिग्विभागे उद्गच्छति स चोद्गतः सन् तिर्यक् परिभ्रमन् मेरोरुत्तरभागं प्रकाशयतीति, इत्थंच भारतैरावतसूर्यो यदा मेरोदक्षिणोत्तरौ जम्बूद्वीपभागौ तिर्यक्कुरुतः तदैव तौ पूर्वपश्चिमौ जम्बूद्वीपभागी रात्रौ कुरुतः, एकोऽपि सूर्यस्तदा पूर्वभागं पश्चिमभागं वा न प्रकाशयतीत्यर्थः, दक्षिणोत्तरौ च भागौ तिर्यक्कुत्वा ताविमौ पूर्वपश्चिमी जम्बूद्वीपभागौ तिर्यक्कुरुतः, इयमत्र भावना - एरावतः सूर्यो मेरोरुत्तरभागे तिर्यक् परिभ्रम्य तदनन्तरं मेरोरेव पूर्वस्यां दिशि तिर्यक् परिभ्रमति, भारतः सूर्यो मेरोर्दक्षिणतस्तिर्यक् परिभ्रम्य तदनन्तरं मेरोः पश्चिमे भागे तिर्यक् परिभ्रमतीति, इत्थं च यदा एरावतभारती सूर्यौ यथाक्रमं पूर्वपश्चिमभागौ तिर्यक् कुरुतस्तदैव दक्षिणोत्तरौ जम्बूद्वीपभागौ रात्रौ कुरुतः, एकोऽपि दक्षिणभागं उत्तरभागं वा न प्रकाशयतीति भावः, तत इत्थं यथाक्रममैरावतभारतसूर्यौ पूर्वपश्चिमभागौ तिर्यक् कृत्वा यो भारतः सूर्य स उत्तरपश्चिममण्डलचतुर्भागे उदयमासादयति, यश्चैरावतः स दक्षिणपौरस्त्ये मण्डलचतुर्भागे इति, एतदेवोपदर्शयनुपसंहारमाह'ते णं' इत्यादि, तौ भारतैरावतौ सूर्यौ प्रथमतो यथाक्रममिमौ दक्षिणोत्तरौ जम्बूद्वीपभागौ ततो यथायोगं पूर्वपश्चिमी जम्बूद्वीपभागौ, भारतः पश्चिमभागमैरावतः पूर्वभागमित्यर्थः, तिर्यक् कृत्वा जम्बूद्वीपस्य द्वीपस्योपरि यद्वा तद्वा मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा भूयश्च प्राचीनाप्राचीनायतया उदीच्यदक्षिणायतया च जीवया प्रत्यञ्चया दवरिकया इत्यर्थः, चतुर्भिर्विभज्य यथायोगं दक्षिणपौरस्त्ये उत्तरपश्चिमे वा मण्डलचतुर्भागे अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वमष्टौ योजनशतान्युत्लुत्य अत्रास्मिन्नवकाशे प्रातर्द्धा सूर्यावाकाशे उत्तिष्ठतः - उद्गच्छतः, य उत्तरभागं पूर्वस्मिन्नहोरात्रे प्रकाशितवान् स दक्षिणपौरस्त्ये मण्डलचतुर्भागे उद्गच्छति, यस्तु दक्षिणं भागं प्रकाशयति स्म स उत्तरपश्चिमे मण्डलचतुर्भागे, एवं सकलकालं जगत्स्थिति परिभावनीया ।
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/१/३१
Jain Education International
प्राभृतं - २, प्राभृतप्राभृतं १, समाप्तम्
For Private & Personal Use Only
www.jainelibrary.org