________________
प्राभृतं २, प्राभृतप्राभृतं - १
५३
अधोभागाद्विनिर्गत्येत्यर्थः, पौरस्त्याल्लोकान्तादूर्ध्वमाकाशे प्रातः सूर्य उद्गच्छति, एवं सर्वदापि द्रष्टव्यं, अत्रोपसंहारः 'एगे एवमाहंसु' ३ ।
एके पुनरेवमाहुः - पौरस्त्याल्लोकान्तादूर्ध्वं प्रातः सूर्यो देवतारूपस्तथाविधपुराणप्रसिद्धः पृथिवीकाये - पृथिवकायमध्ये उदयभूधरशिरसि उत्तिष्ठति-उत्पद्यते स चोत्पन्नः सन्निमं मनुष्यलोकं तिर्यक्करोति, तिर्यक् परिभ्रमन्निमं मनुष्यलोकं प्रकाशयतीत्यर्थ, तिर्यक्क त्वा पश्चिमे लोकान्ते सायंसान्ध्ये समये सूर्य पृथिवीकाये-अस्तमयभूधरशिरसि विध्वंसते- विध्वंसमुपयाति एवं प्रतिदिवसं सकलकालं जगत्स्थिति परिभावनीया, अनोपसंहारः 'एगे एवमाहंसु' ४ ।
एके पुनरेवमाहुः - पौरस्त्याल्लोकान्तादूर्ध्व प्रातः सूर्यो देवतारूपः सदावस्थायी पृथ्वीकायेउदयभूधरशिरसि उत्तिष्ठति–उद्गच्छति, स चोद्गतः सन्निमं प्रत्यक्षत उपलभ्यमानं तिर्यग्लोकं तिर्यक्करोति, तिर्यककृत्वा पश्चिमे लोकान्ते सायं सान्ध्ये समये पृथिवीकार्य अस्तमयभूधरमनुप्रविशति, प्रविश्य चाधः प्रत्यागच्छति - अधोभागवर्त्तिनं लोकं प्रकाशयन् प्रतिनिवर्त्तते, ततः पुनरप्यवरमुवः - अधोमुवः पृथिव्या अधोभागाद्विनिर्गत्येत्यर्थः, पौरस्त्याल्लोकान्तादूर्ध्व प्रातः सूर्य पृथिकाये - उदयभूधरशिरसि उत्तिष्ठति, एतोऽपि भूगोलवादिनः परं पूर्वे आकाशे उत्तिष्ठतीति प्रतिपन्नाः एते तु पर्वतशिरसीति शेषः, अत्रैवोपसंहारः 'एगे एवमाहंसु' ५ ।
एके पुनरेवमाहुः -- पौरस्त्याल्लोकान्तादूर्ध्वप्रातः सूर्योऽ काये- पूर्वसमुद्रे उत्तिष्ठति - उत्पद्यते, सचोत्पन्नः सन्निमं-प्रत्यक्षत उपलभ्यमानं तिर्यग्लोकं तिर्यक्करोति, तिर्यक्कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये सूर्योऽप्काये-पश्चिमसमुद्रे विध्वंसमुपगच्छति, एवं सर्वदापि, अत्रोपसंहारः 'एगे एवमाहंसु' ६ । एके पुनरेव माहुः - पौरस्त्याल्लोकान्तादूर्ध्वं प्रातः सूर्य सदावस्थायी पुराणशास्त्रप्रसिद्धो ऽप्काये - पूर्वसमुद्रे उत्तिष्ठति उद्गच्छति, स चोद्गतः सन्निमं तिर्यग्लोकं तिर्यक्करोति, तिर्यक् परिभ्रमन्निमं तिर्यग्लोकं प्रकाशतीत्यर्थः, तिर्यक् कृत्वा पश्चिमे लोकान्ते सायं- सान्ध्ये समये सूर्योऽकायं-पश्चिमसमुद्रमनुप्रविशति प्रविश्य चाधः प्रत्यागच्छति - अदोभागवर्त्तिनं लोकं प्रकाशयन् प्रतिनिवर्त्तत इति भावः, अधः प्रत्यागत्य चावरभुवः - अधः पृथिव्या अधोभागाद्विनिर्गत्येत्यर्थ, पौरस्त्याल्लोकान्तादूर्ध्वं प्रातः सूर्योऽ काये पूर्वसमुद्रे उत्तिष्ठति उद्गच्छति, एवं सकलकालमपि, अत्रैवोपसंहारः 'एगे एवमाहंसु' ७ ।
एके पुनरेवमाहुः - पौरस्त्याल्लोकान्तादूर्ध्वं प्रथमतो बहूनि योजनानि ततः क्रमेण बहूनि योजनशतानि तदनन्तरं क्रमेण बहूनि योजनसहस्राणि दूरमूर्ध्वमुत्तुत्य-बुद्धया गत्वा अत्रअस्मिन्नवकाशे प्रातः सूर्यो देवतारूपः सदावस्थायी उत्तिष्ठति – उद्गच्छति, स चोद्गतः सन्निमं दक्षिणार्द्धलोकं दक्षिणदिग्भाविनमर्द्धलोकं, दक्षिणं लोकस्यार्द्धमित्यर्थ, तिर्यक्करोति-तिर्यकपरिभ्रमन् दक्षिणलोकार्द्ध प्रकाशयतीत्यर्थः, दक्षिणं चार्द्धलोकं तिर्यक्कुर्वन् तदैवोत्तरमर्द्धलोकं रात्रौ करोति, ततः स सूर्य क्रमेणेममर्द्धलोकमुत्तरं तिर्यक्करोति, तत्रापि तिर्यक परिभ्रममन् उत्तरमर्द्धलोकं प्रकाशयतीत्यर्थ: उत्तरं चार्द्धलोकं तिर्यकपरिभ्रमणेन प्रकाशयन् तदैव दक्षिण- मर्द्धलोकं रात्री करोति, ततः स सर्व इमी दक्षिणोत्तराद्धलोकौ तिर्यक्क त्वा भूयोऽपि पौरस्त्याल्लोकान्तादूर्ध्वं प्रथमतो बहूनि योजनानि गत्वा ततः क्रमेण बहूनि योजनशतानि तदनन्तरं बहूनि योजनसहस्राणि दूरमूर्ध्वमुस्लुत्य-बुद्धया गत्वा अत्र -अस्मिन्नवकाशे प्रातः सूर्य आकाशे उत्तिष्ठति - उद्गच्छति,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International