SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १९, प्राभृतप्राभृतं - २९३ तिथिनक्षत्रमुहूर्तादौ प्रव्राजनव्रतारोपणादि कर्त्तव्यं, नान्यथा, अपिच-क्षेत्रादयोऽपिकर्मणामुदयादिकारणं भगवद्भिरुक्ताः, ततोऽशुभद्रव्यक्षेत्रादिसामग्री प्राप्य कदाचिदशुभवेद्यानि कर्माणि विपाकं गत्वोदयमासादयेयुः, तदुदये च गृहीतव्रतभङ्गादिदोषप्रसङ्गः, शुभद्रव्यक्षेत्रादिसामन्यां तु प्रायो नाशुभकर्मविपाकसम्भव इति निर्विघ्नं सामायिकपरिलापनादि, तस्मादवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यं । ये तु भगवन्तोऽतिशयिनस्ते अतिशयबलादेव सविघ्नं निर्विघ्नं वा सम्यगधिगच्छन्ति ते न शुभतिथिमुहूदिकमपेक्षन्ते इति न तन्मार्गानुसरणं छद्मस्थानां न्याय्यं, तेनयेपरममुनिप-र्युपासितप्रवचनविडम्बका अपरिमलितजिनशासनोपनिषद्भूतशास्त्र गुरुपरम्परायातनिरव-धविशदकालोचितसामाचारीप्रतिपन्धिनः स्वमतिकल्पिसामाचारीका अभिदधति यथा-न प्रव्राजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणं कर्त्तव्यं, न खलु भगवान् जगत्स्वामी प्रव्राजनायोपस्थितेषु शुभतिथ्यादिनीरीक्षणं कृतवानिति ते अपास्ता द्रष्टव्याः। मू. (१७३) तेसिं पविसंताणं तावक्खेत्तं तु वड्डते निययं । तेणेव कमेण पुणो परिहायति निक्खमंताणं॥ वृ.'तेसिमित्यादि, तेषां सूर्यनचन्द्रमसां सर्वबाह्यात् मण्डलादभ्यन्तरं प्रविशतां तापक्षेत्रं प्रतिदिवस क्रमेण नियमादायामतोवर्द्धते, येन च क्रमेण परिवर्द्धते तेनैवक्रमेण सर्वाभ्यतरान्मण्डलाद् वहिः निष्क्रमतां परिहीयते, तथाहि सर्वबाह्ये मण्डले चारं चरतां सूर्याचन्द्रमसां प्रत्येकं जम्बूद्वीपचक्रवालस्य दशधाप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रं, ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं षष्ट्यधिकषट्त्रिंशच्छतप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वर्द्धते, चन्द्रमसस्तु मण्डलेषुप्रत्येकंपौर्णमासीसम्भवेक्रमेण प्रतिमण्डलं षड्विंशतिषड्विंशतिर्भागाः सप्तविंशतितमस्य चएकः सप्तभाग इति वर्द्धते, एवं च क्रमेण प्रतिमण्डलमभिवृद्धौ यदा सर्वाभ्यन्तरे मण्डले चारं चरतः तदा प्रत्येकं जम्बूद्वीपचक्रवालस्य त्रयः परिपूर्णा दशभागास्तापक्षेत्रं, ततः पुनरपि सर्वाभ्यन्तरान्मण्डलाद्वहिनिष्क्रमणे सूर्यस्य प्रतिमण्डलं षष्ट्यधिकषट्त्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रवाल द्वौ द्वौ भागौ परिहीयेते, चन्द्रमसस्तुमण्डलेषु प्रत्येकं पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं पड्विंशतिर्भागाः सप्तविंशतितमस्य च भागस्य एकः सप्तभाग इति । मू. (१७४) तेसिं कंबुयापुष्फसंठिता हुंति तावखेत्तपहा। अंतो य संकुडा बाहि वित्थडा चंदसूराणं ।। वृ. 'तेसि'मित्यादि, तेषांचन्द्रसूर्यादीनांतापक्षेत्रपथाः कलम्बुकापुष्पसंस्थिता-नालिकापुष्पाकारा भवन्ति, एतदेव व्याचष्टे–अन्तः-मेरुदिशि सङ्कुचिता, बहि-लवणदिशि विस्तृता, एतच्छ प्रागेव चतुर्थे प्राभृते भावितमिति नभूयो भाव्यते। -सम्प्रति चन्द्रमसमधिकृत्य गौतमः प्रश्नयतिमू. (१७५) केणं वड्डति चंदो ? परिहाणी केण हुंति चंदस्स। कालो वा जोण्हो वा केणऽनुभावेण चंदस्स ।। वृ. 'केण'मित्यादि, केन कारणेन शुक्लपक्षे चन्द्रो वर्द्धते?, केन वा कारणेन चन्द्रस्य कृष्णपक्षे परिहानिर्भवति, केन वा अनुभावेन-प्रभावेन चन्द्रस्य एकः पक्षः कृष्णो भवति एको ज्योत्स्नः-शुक्ल इति?, एवमुक्ते भगवानाह मू. (१७६) किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहितं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy