SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २९२ - सूर्यप्रज्ञप्तिउपासूत्रम् १९/-/१७० तारकाणां च मण्डलानयवस्थितानि ज्ञातव्यानि, किमुक्तं भवति?-आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च प्रत्येकं मण्डलमिति, न चेत्थमवस्थितभण्डलत्वोक्तावेवमाशङ्कलीयं यथैतेषां गतिरेव न भवतीति, यत आह-'तेऽविय'इत्यादि, तान्यपि-नक्षत्राणितारकाणि च, सूत्रे पुंस्त्व-निर्देशःप्राकृतत्वात्, प्रदक्षिणावर्तमेव, इदंक्रयाविशेषणं, मेरुमनुलक्षीकृत्य चरन्ति, एतच्च मेरुं लक्षीकृत्य प्रदक्षिणावर्त तेषां चरणं प्रत्यक्षत एवोपलक्ष्यत इति संवादि । मू. (१७१) रयणिकरदिणकराणं उद्धं च अहे व संकमो नत्थि। मंडलसंकमणं पुण सब्भंतरबाहिरं तिरिए। वृ. 'रयणियरे'त्यादि, रजनिकरदिनकराणां-चन्द्रादित्यानामूर्ध्वमधश्चसङ्क्रमोन भवति, तथाजगत्स्वाभाव्यात्, तिर्यक् पुनर्मण्डलेषुसङ्क्रमणंभवति, किंविशिष्टमित्याह-साभ्यन्तरबाह्यअभ्यन्तरं च बाह्यं च अभ्यन्तरबाह्यं सहाभ्यन्तरबाह्येन वर्त्तते इति साभ्यन्तरबाा, एतदुक्तं भवतिसर्वाभ्यन्तरान्मण्डलात्परतः तावन्मण्डलेषु सङ्क्रमणंयावत् सर्वबाह्यं मण्डलं सर्वबाह्याच्च मण्डलादर्वाक् तावन्मण्डलेषु सङ्क मणं यावत् सर्वाभ्यन्तरमिति । मू. (१७२) रयणिकरदिनकराणं नक्खत्ताणं महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविधी मणुस्साणं ।। दृ. 'रयणियरे'त्यादि, रजनिकरदिनकराणां-चन्द्रादित्यानां नक्षत्राणां च महाग्रहाणांच चारविशेषेण-तेन तेन चारेण सुखदुःखविधयो मनुष्याणां भवन्ति, तथाहि-द्विविधानि सन्ति सदा मनुष्याणांकाणि, तद्यथा-शुभवेद्यानिअशुभवेद्यानि च, कर्मणांच सामान्यतो विपाकहेतवः पञ्च, तद्यथा-द्रव्यं क्षेत्र कालो भावोभवश्च, उक्तंच॥१॥ "उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया। दव्वं च खेत्तं कालं भवंच भावंच संपप्प ।।" शुभकर्मणां प्रायःशुभवेद्यानांचकर्मणांशुभद्रव्यक्षेत्रादिसामग्री विपाकहेतुरशुभवेद्यानामशुभद्रव्यक्षेत्रादिसामग्री, ततो यद येषां जन्मनक्षत्रादिविरोधी चन्द्रसूर्यादीनां चारो भवति तदातेषांमायोयान्यशुभवेद्यानिकम्माणितानितांतथाविधां विपाकसामग्रीमवाप्य विपाकमायान्ति, विपाकमागतानिचशरीररोगोत्पादनेनधनहानिकरणतोवा प्रियविप्रयोगजननेन वा कलहसंपादनतो वा दुःखमुत्पादयन्ति, यदाच येषां चन्मनक्षत्राद्यनुकूलः चन्द्रादीनां चारस्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणितानितांतथाविधां विपाकसामग्रीमधिगम्य विपाकं प्रतिपद्यन्ते, प्रपन्नविपाकानि चतानि शरीरनीरोगतासम्पादनतो धनवृद्धिकरणेन वा वैरोपशमनतः प्रियसम्प्रयोगसम्पादनतो वायदिवा प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परमविवेकिनोऽल्पमपि प्रयोजनं शुभतिथिनक्षत्रादावारभन्ते नतुयथाकथंचन, अतएवजिनानामप्याज्ञा प्रव्राजनादिकमधिकृत्येस्थमवर्त्तिष्ट यथा शुभक्षेत्रे शुभांदिशमभिमुकीकृत्य शुभे तिथिनक्षत्रमुहूर्तादौ प्रव्राजनव्रतारोपणादि कर्त्तव्य, नान्यथा, तथा चोक्तं पञ्चवस्तुके॥१॥ "एसा जिणाणमाणा खित्ताईया य कम्मुणो भणिया उदयाइकारणंजं तम्हा सव्वस्थ जइयव्वं ॥" अस्या अक्षरगमनिका-एषा जिनानामाज्ञा शुभे क्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy