________________
प्राभृतं १९, प्राभृतप्राभृतं -
२९१ पङ्क्तिर्भवति षट्षष्टिः-षट्षष्टिनक्षत्रप्रमाणा इत्यर्थः, तथाहि-अस्मिन् किल जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य राशिनः परिवारभूतानि अभिजिदादीन्यष्टाविंशतिनक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूतानि अष्टाविंशतिसङ्ख्याकान्यभिजिदादीन्येवनक्ष-त्राणिक्रमेण व्यवस्थितानि, तत्र दक्षिणतोऽर्द्धभागे यदभिजिनक्षत्रंतत्समश्रेणिव्यवस्थिते द्वे अभिजिन्नक्षत्रेलवणसमुद्रे षट्यातकीखण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्करा॰इति सर्वसङ्ख्यया षष्टिरभिजिन्नक्षत्राणिपङ्कत्या व्यवस्थितानि, एवं श्रवणादीन्यपि दक्षिण-तोऽर्द्धभागेपङ्क्त्या व्यवस्थितानिषट्षष्टिसङ्ख्याकानि भावनीयानि, उत्तरतोऽप्यर्द्धभागे यदभिजिन्नक्षत्रं तत्समश्रेणिव्यवस्थिते उत्तरभागे एव द्वे अभिजिन्नक्षत्रे लवणसमुद्रेषट्यातकीखण्डेएकविंशति कालोदे षट्त्रिंशत् पुष्कराढ़ें, एवं श्रवणादिपङक्तयोऽपि प्रत्येकं षट्षष्टिसङ्ख्याका वेदितव्या इति भवन्ति सर्वसङ्ख्यया षट्पञ्चाशनक्षत्राणां पङ्क्त्यः , एकैका च पङ्क्तिषट्षष्टिसङ्खयेति 'छावट्ठी'त्यादि। मू. (१६८) छावत्तरंगहाणं पंतिसयं हवति मणुयलोयमि।
छावहिं २ हवइ य एक्केकया पंती॥ वृ. ग्रहाणामङ्गारकप्रभृतीनां सर्वसङ्ख्यया मनुष्यलोके षट्सप्तत्यधिकंपङ्किशतं एकैका चपङ्क्तिर्भवति षट्षष्टि-षट्षष्टिग्रहसङ्ख्या, अत्रापीयं भावना-इहजम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य राशिनः परिवारभूता अङ्गारकप्रभृतयोऽष्टाशीतिर्ग्रहाः, उत्तरोऽर्द्धभागे द्वितीयस्य राशिनः परिवारभूता अङ्गारकप्रभृतय एवाष्टाशीति, तत्र दक्षिणतोऽर्द्धभागे योऽङ्गारकनामा प्रहस्तत्समश्रेणिव्यवस्थितौ दक्षिणभागे एव द्वावङ्गारको लवणसमुद्रे षट्घातकीखण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराः इतिषट्षष्टि-एवं शेषाअपि सप्ताशीतिर्ग्रहाः पङ्क्त्या व्यवस्थिताः: प्रत्येकंषट्ष,ष्टिर्वेदितव्याः, एवमुत्तरतोऽप्यर्द्धभागेअङ्गारकप्रभृतीनामष्टाशीतेहाणां पङ्क्त्यः प्रत्येकं षट्षष्टिसङ्ख्याका भावनीया इति भवति सर्वसङ्ख्यया ग्रहाणां षट्सप्ततं पङ्क्तिशतमेकैका च पङ्क्तिषट्षष्टिसङ्खयाकेति। मू. (१६९) ते मेरुयणुचरंता पदाहिणावत्तमंडला सब्वे।
अणयवडियजोगेहिं चंदा सूरा गहगणा य॥ वृ. 'ते मेरुमनुचरंती'त्यादि, ते मनुष्यलोकवर्तिनः सर्वे चन्द्राः सर्वे सूर्या सर्वे च ग्रहगणा अनवस्थितैः यथायोगमन्यैरन्यैर्रनक्षत्रेण सहयोगैरुपलक्षिताः ‘पयाहिणावत्तमंडला' इतिप्रकर्षणसर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षइण एव मेरुर्भवति यस्मिन्नावर्त्तने- मण्डलपरिभ्रमणरूपेसप्रदक्षिणः प्रदक्षिण आवर्तों येषां मण्डलानांतानितथा प्रदक्षिणावर्त्तानि मण्डलानि येषां ते तथा, मेरुमनुलक्षीकृत्य चरन्ति, एतेनैतदुक्तं भवति-सूर्यादयः समस्ताअपिमनुष्यलोकवर्तिनः प्रदक्षिणावर्त्तमण्डलगत्यापरिभ्रमन्तीति, इहचन्द्रादित्यग्रहाणां मण्डलानि अनवस्थितानि, यथायोगमन्यस्मिन् अन्यस्मिन् मण्डले येषां सञ्चारित्वात् । मू. (१७०) नक्खत्ततारगाणं अवट्टिता मंडला मुणेयव्वा।
तेऽविय पदाहिणावत्तमेव मेहं अनुचरंति ।। वृ. नक्षत्रताराणां तु मण्डलान्यवस्थितान्येव, तथा चाह-'नरखत्ते त्यादि, नक्षत्राणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org