SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २९० सूर्यप्रज्ञप्तिउपासूत्रम् १९/-/१६३ भवति ?-द्वौ चन्द्रौ द्वौ सूर्यावित्येतावत्प्रमाणमेकैकं चन्द्रादित्यानां पिटकमिति, एवंप्रमाणं च पिटकंजम्बूद्वीपे, एकंजम्बूद्वीपेद्वयोरेव चन्द्रमसोईयोरेवच सूर्ययोर्भावात, द्वे पटके लवणसमुद्वे तत्र चतुर्णां चन्द्रमसां चतुर्णां च सूर्याणां भावात्, एवं षट् पिटकानि धातकीखण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराः इति भवन्ति सर्वमीलने चन्द्रादित्यानां षट्षष्टि पिटकानि । मू. (१६४) छावढि पिडगाइं नक्खत्ताणं तु मणुयलोमि । छप्पन्न नक्खत्ता हुँति एकेकए पिडए। वृ. 'छावट्ठी'त्यादि, सर्वस्मिन्नपि मनुष्यलोके सर्वसङ्यया नक्षत्राणां पिटकानि भवन्ति षट्षष्टि, नक्षत्रपिटकप्रमाणंच राशिद्वयसम्बन्धिनक्षत्रसङ्घयापरिमाणं, तथा चाह-एकैकस्मिन् पिटके नक्षत्राणिभवन्तिषट्पञ्चाशत्सङ्ख्यानि, किमुक्तं भवति?-षट्पञ्चाशनक्षत्रसद्ध्याकमेकैकं नक्षत्रपिटकं, अत्रापि षट्ष,टिसङ्ख्याभावना एवं-एक नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे षट्घातकीखण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराः इति । मू. (१६५) छावहिं पिडगाइं महागहाणं तु मणुयलोयंमि। छावत्तरं गहसतं होइ एकेक्कए पिडए॥ वृ.'छावट्ठी'त्यादि, महाग्रहाणामपि सर्वस्मिन्मनुष्यलोके सर्वसङ्ख्ययापिटकानि भवन्ति षट्षष्टि, ग्रहपिटकप्रमाणंच राशिद्वयसम्बन्धिग्रहसङ्ख्यापरिमाणं, तथाचाह-एकैकस्मिन्ग्रहपिटके भवति षट्सप्तत्यधिकं ग्रहशतं, सप्तत्यधिकग्रहशतपरिमाणमेकैकं ग्रहपिटकमिति भावः, षट्षष्टिसवयाभावनाच प्राग्वत्कर्तव्या । मू. (१६६) चत्तारियपंतीओ चंदाइयाण मणुयलोयम्मि। छावढि२ च होइ एक्कक्कया पंती॥ वृ. 'चत्तारिय'इत्यादि, इह मनुष्यलोके चन्द्रादित्यानांपङ्क्त्यश्चतन भवन्ति, तद्यथा-द्वे पङ्क्ती चन्द्राणां द्वे सूर्याणां, एकैकाच पङ्कितर्भवतिषट्षष्टि-षट्षष्टिसूर्यादिसङ्ख्या, तद्भावना चैवं-एकः किल सूर्यो जम्बूद्वीपे मेरौ दक्षिणभागे चारं चरन् वर्तते एक उत्तरभागे एकश्चनद्रमा मेरोः पूर्वभागे एकोऽपरभागे, तत्रयो मेरोदक्षिणभागेसूर्यश्चारंचरन् वर्ततेतत्समणिव्यवस्थितौ द्वौदक्षिणभागेसूर्यौलवणसमुद्रेषट्धातकीखण्डे एकविंशति कालोदेषट्त्रिंशत् अभ्यन्तरपुष्कराड़े इत्यस्यां सूर्यपङ्क्तौ षट्षष्टि सूर्या, योऽपि च मेरोरुत्तरभागे व्यवस्थितः सूर्यश्चारं चरन् वर्तते अस्यापि समश्रेण्या व्यवस्थितौ द्वावुत्तरभागे सूर्यौ लवणसमुद्रे धातकीखण्डे षट् एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराढे इत्यस्यामपि पङ्क्तौ सर्वसङ्ख्यया षट्षष्टि सूर्या, तथा यो मेरोः किल पूर्वभागे चारं चरन् वर्तते चन्द्रमाः तत्समश्रेणिव्यवस्थितौ द्वौ पूर्वभाग एव चन्द्रमसौ लवणसमुद्रेषट्धातकीखण्डे एखविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराद्धे इत्यस्यां चन्द्रपङ्क्ती सर्वसङ्ख्यया षट्षष्टिश्चन्द्रमसः, एवं यो मेरोरपरभागे चन्द्रमास्तन्मूलायामपि पङ्क्ती षट्षष्टिश्चन्द्रमसो वेदितव्याः । छावट्ठी इत्यादि। मू. (१६७) छप्पन्नं पंतीओ नक्खत्ताणं तुमणुयलोयंमि। छावष्टुिं २ हवंति एक्केकया पंती ॥ वृ. नक्षत्राणां मनुष्यलोके सर्वसङ्ख्यया पङ्क्त्यो भवन्ति षट्पञ्चाशत्, एकैका च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy