________________
प्राभृतं १९, प्राभृतप्राभृतं -
मू. (१५९)
छच्च सता छन्नउया नक्खत्ता तिन्नि य सहस्सा ।। अट्ठासीइ चत्ताई सतसहस्साइं मणुयलोगंमि । सत्त य सता अणूणा तारागणकोडिकोडीणं ॥
वृ. 'बत्तीसं चंदसय 'मित्यादि गाथात्रयं सकलमनुष्यलोकगतचन्द्रादिसङ्ख्याप्रतिपादकं तदपि सुगमं, 'अट्ठासीई चत्ता' इति अष्टाशीति शतसहस्राणि चत्वारिंशानि चत्वारिंशत्सहस्नाधिकानि शेषं गतार्थं सम्प्रति सकलमनुष्यलोकगततारागणस्यैवोपसंहारमाहएसो तारापिंडी सव्वसमासेण मणुयलोयंमि ।
भू. (१६०)
बहिता पुण ताराओ जिणेहिं भणिया असंखेजाओ !!
वृ. 'एसो' इत्यादि, एषः - अनन्तरगातोक्तसङ्ख्याकस्तारापिण्डः सर्वसङ्घयया मनुष्यलोके आख्यात इति गम्यते, बहिः पुनर्मनुष्यलोकात् यास्तारास्ता जिनैः - सर्वज्ञैस्तीर्थकृद्भिर्भणिता असङ्ख्याताः, द्वीपसमुद्राणामसङ्ख्यातत्वात् प्रतिद्वीपं प्रतिसमुद्रं च यथायोगं सङ्घयेयानाम्सङ्घयेयानां च ताराणां सद्भावात् ।
सू. (१६१)
एवतियं तारग्गं जं भणियं माणुसंमि लोगंमि ।
चारं कलंबुयापुप्फसंठितं जोतिसं चरति ।
वृ. 'एवतिय' मित्यादि, एतावत्सङ्ख्याकं तारापरिमाणं यदनन्तंर भणितं मानुषे लोके तत् ज्योतिष्कं ज्योतिष्कदेवविमानरूपं 'कदम्बपुष्पसंस्थितं' कदम्बपुष्पवत् अधः सङ्कुचितं उपरि विस्तीर्णमुत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितमित्यर्थः चारं चरति चारं प्रतिपद्यते, तथाजगत्स्वाभाव्यात, ताराग्रहणं चोपलक्षणं तेन सूर्यादयोऽपियतोक्तसङ्ख्याका मनुष्यलोके तथाजगत्स्वाभाव्याचारं प्रतिपद्यन्ते इति द्रष्टव्यं ।
मू. (१६२)
रविससिगहनक्खत्ता एवतिया आहिता मणुयलोए।
जेसिं नामागोत्तं न पागता पन्नवेहंति ॥
२८९
घृ. सम्प्रत्येतदगतमेवोपसंहारमाह- 'रवी' त्यादि, रविशशिग्रहनक्षत्राणि उपलक्षणमेतत् तारकाणिच एतावन्ति - एतावत्सङ्ख्यानि आख्यातानि सर्वज्ञैर्मनुष्यलोके, येषां किमित्याह - येषां सूर्यादीनां यथोक्तसङ्ख्याकानां सकलमनुष्यलोकभाविनां प्रत्येकं 'नामगोत्राणि 'इहान्वर्थयुक्तं नाम सिद्धान्त परिभाषया नामगोत्रमित्युच्यते, ततोऽयमर्थः - नामगोत्राणि - अन्वर्थयुक्तानि नामानि यदिवा नामानि च गोत्राणि च नामगोत्राणि प्राकृता - अनतिशयिनः पुरुषा न कदाचनापि प्रज्ञापनायिष्यन्ति, केवलं यदा तदा वा सर्वज्ञा एव तत इदमपि सूर्यादिसङ्ख्यानं प्राकृतपुरुषांप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक् श्रद्धेयमिति ।
मू. (१६३)
छावट्ठि पिडगाई चंदादिचाण मणुलोयंमि ।
दो चंदा दो सूरा य हुंति एक्के क्कए पिडए ।
वृ. 'छावडी पिडगाई' इत्यादि, इह द्वौ चन्द्रौ द्वौ सूर्यौ चैकं पिटकमुच्यते, इत्थम्भूतानि च चन्द्रादित्यानां पिटकानि सर्वसङ्घयया मनुष्यलोके भवन्ति षट्षष्टि-षट्षष्टिसङ्ख्याकानि । अथ किंप्रमाणं पिटकमिति पिटकप्रमाणमाह-एकैकस्मिन्नपि पिटके द्वौ चन्द्रौ द्वौ सूर्यौ भवतः, किमुक्तं
1219
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org