________________
२९४
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-१७६ चतुरंगुलमसंपत्तं हिचा चंदस्स तं चरति ॥ वृ. 'किण्ह'मित्यादि, इह द्विविधो राहुस्तद्यथा-पर्वराहुः नित्यराहुश्च, तत्र पर्वराहुः स उच्यते यः कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानंच अन्तरितं करोति, अन्तरितेच कृते लोके ग्रहणमिति प्रसिद्धि, स इह न गृह्यते, यस् नित्यराहुस्तस्य विमानं कृष्णं, तच तथा- जगत्स्वाभाव्यात् चन्द्रेण सह नित्यं-सर्वकालमविरहितं तथा चतुरङ्गुलेन-चतुर्भिरमुलैरप्राप्तं सत्चन्द्रविमानस्याधस्ताच्चरति, तच्चैवंचरत् शुक्लपक्षे शनैः शनैःप्रकटीकरोति चन्द्रमसं कृष्णपक्षे च शनै, शनैरावृणोति, तथा चाहमू. (१७७) बावहिँ २ दिवसे २ तु सुक्लपक्खस्स।
जं परिवहति चंदो खवेइ तं चेव कालेणं। वृ. 'बावहिमित्यादि, इह द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौभागावुपरितनावपाकृत्य शेषस्य पञ्चदशभिर्भागेहते ये चत्वारोभागा लभ्यन्तेते द्वाषष्टिशब्देनोच्यन्ते, 'अवयवे समुदायोपचारात्', एतच्च व्याख्यान् जीवाभिगमधूण्यार्दिदर्शनतः कृतं, नपुनः स्वमनीषिकया, तथाचास्या एव गाथाया व्याख्याने जीवाभिगमचूर्णि-"चन्द्रविमानं द्वाषष्टिभागीक्रियते, ततः पञ्चदशभिर्भायो ह्रियते, तत्र चत्वारोभागा द्वाषष्टिभागानां पञ्चदशभागेन लभ्यन्ते, शेषौ द्वौभागौ, एतावद् दिने दिने शुक्लपक्षस्य राहुणा मुच्यते" इत्यादि, एवं चसतियत् समवायाङ्गसूत्र-'सुक्कपक्खस्स दिवसे २ चंदो बावट्टि भागे परिवड्डइत्ति तदप्येवमेव व्याख्येयं, सम्प्रदायवशाद्धि सूत्रं व्याख्येयं, न स्वमनीषिकया, सम्प्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यत्-यस्मात्कारणात् चन्द्रो द्वाषष्टि :२ भागान्-द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत्परिवर्द्धते, 'कालेन' कृष्णपक्षेन पुनर्दिवसे दिवसे तानेव द्वाषष्टिभागसत्कान् चतुरश्चतुरोभागान्क्षपयति-परिहापयति मू. (१७८) पन्नरसइभागेण य चंदं पन्नरसमेव तं वरति।
पन्नरसतिभागेण य पुणोवि तं चेव वक्कमति ।। वृ.एतदेवव्याचष्टे-'पनरस'इत्यादि, कृष्णपक्षेप्रतिदिवसराहुविमानं स्वकीयेन पञ्चदशेन भागेन चन्द्रविमानं पञ्चदशमेव भागं वृणोति-आच्छादयति, शुक्लपक्षेतुपुनस्तमेव प्रतिदिवसं पञ्चदशभागंआत्मीयेन पञ्चदशभागेन व्यतिक्रमति मुञ्चति, किमुक्तंभवति? -कृष्णपक्षे प्रतिपद आरभ्यात्मीयेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवसमेकैकं पञ्चदशमागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलवृद्धिहानी प्रतिभासेते, स्वरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव । मू. (१७९) एवं वडति चंदो परिहाणी एव होइ चंदस्स।
कालो वा जुण्हो वा एवऽनुभावेण चंदस्स ।। वृ. तथा चाह-एवंवइ' इत्यादि, एवं-राहुविमानेनप्रतिदिवसंक्रमेणानावरणकरणतो वर्द्धते वर्द्धमानः प्रतिभासते चन्द्रः, एवं-राहुविमानेनप्रतिदिवसंक्रमेणावरणकरणतःप्रतिहानिप्रतिहानिप्रतिभासो भवतिचन्द्रस्य विषये, एतेनैवानुभावेन-कारणन एकः पक्षः-कृष्णो भवति, यत्र चन्द्रस्य परिहानि प्रतिभासते, एकस्तु ज्योत्स्नः-शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिभासः ।
मू. (१८०) अंतो मणुस्सखेत्ते हवंति चारोवगा तु उववण्णा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org