SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २६६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/११३ तत एकेन कर्म्ममासेन किं लभामहे ?, राशित्रयस्थापना अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्य एकषष्ट्या भागहरणं लब्धानि परिपूर्णानि चतुर्द्दश मण्डलानि पञ्चदशस्य च मण्डलस्य त्रिंशदेकषष्टिभागाः 'ता उउमासेण' मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता पन्नरसे' त्यादि, पञ्चदश परिपूर्णानि मण्डलानि चरति, तथाहि यद्येकषष्ट्या कर्म्ममासैर्नव शतानि पञ्चदशोत्तराणि सूर्यमण्डलनां लभ्यन्ते तत एकेन कर्म्ममासेन किं लभामहे ? अत्रा - न्त्येन राशिना मध्यराशिर्गुण्यते जातः स तावानेव तस्य एकषष्ट्या भागहरणं लब्धानि परिपूर्णानि पञ्चदश मण्डलानि, 'ता उउमासेण' मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'तापन्नरसे त्यादि, पञ्चदश मण्डलानि चरति, षोडशस्य च मण्डलस्य पञ्च द्वाविंशशतभागान्, तथाहि यदि द्वाविंशेन कर्म्ममासशतेनाष्टादश शतानि पञ्चत्रिंशदधिकानि मण्डलानां नक्षत्रस्य लभ्यन्ते तत एकेन कर्ममासेन किं लभामहे ? अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्याद्येन राशिना द्वाविंशत्यधिकशतरूपेण भागहरणं लब्धानि पञ्चदश मण्डलानि षोडशस्य च पञ्च द्वाविंशशतभागाः सम्प्रति सूर्यमासमधिकृत्य चन्द्रादीनां मण्डलानि निरूपयति 'ता आइच्चेण 'मित्यादि, ता इति पूर्ववत्, आदित्येन मासेन चन्द्रः कति मण्डलानि चरति भगवानाह - चतुर्द्दश मण्डलानि चरति पञ्चदशस्य च मण्डलस्य एकादश पञ्चभागान्, तथाहि--यदि षष्ट्या सूर्यमासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां चन्द्रस्य लभ्यन्ते तत एकेन सूर्यमासेन किं लभामहे ? अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्य षष्ट्या भागहरणं लब्धानि चतुर्द्दश मण्डलानि शेषास्तिष्ठन्ति चतुश्चत्वारिंशत् ततश्छेद्यच्छेदकराश्योश्चतुष्केनापवर्त्तना जत उपरितनो राशिरेकादशरूपोऽधस्तनः पञ्चदशरूपः लब्धाः पञ्चदशमण्डलस्य एकादशभगाः 'ता आइच्चेण’मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगमं भगवानाह - पञ्चदश चतुर्भागाधिकानि मण्डलानि चरति, तथाहि - यदि षष्ट्या सूर्यासैर्नव शतानि पञ्चदशोत्तराणि मण्डलानां सूर्यस्य लभ्यन्ते तत एकेन मासेन किं लभामहे ? अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्य षष्ट्या भागहरणं लब्धानि पञ्चदश मण्डलानि षोडशस्य च षष्टिभागविभक्तस्य पञ्चदशभागात्मकश्चतुर्भागः । 'ता आइचेण' मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमम्, भगवानाह - 'ता पन्नरसे' त्यादि, पञ्चदश मण्डलानि चतुर्भागाधिकानि पञ्चत्रिंशतं विंशत्यधिकशतभागानुमण्डलस्य चरति, किमुक्तं भवति ? - षोडशस्य च मण्डलस्य पञ्चत्रिंशतं विंशत्यधिकशतभागान् चरति, तथाहि--यदि विंशेन सूर्यमास शतेनाष्टादश शतानि पञ्चत्रिंशदधिकानि मण्डलानां नक्षत्रस्य लभ्यन्ते तत एकेन सूर्यमासेन किं लभ्यते ? अत्रान्त्येन राशिना मध्य - राशिर्गुणितो जातस्तवानेव तस्य विंशत्यधिकेन शतेन भागहरणं लब्धानि पञ्चदश मण्डलानि पञ्चत्रिंशद्ध विंशत्यधिकशतभागाः षोडशस्य अधुना अभिवर्द्धितमासमधिकृत्य चन्द्रादीनां मण्डलानि निरूपयन्नाह 'ता अभिवढिएण' मित्यादि, ता इति पूर्ववत्, अभिवर्द्धितेन मासेन चन्द्रः कति मण्डलानि चरति ?, भगवानाह - 'ता पन्नरसे' त्यादि, पञ्चदश मण्डलानि चरति षोडशस्य च मण्डलस्य त्र्यशीति चतुरशीत्यधिकशतभागान्, तथाहि अत्रैवं त्रैराशिकं - इह युगेऽभिवर्द्धितमासाः सप्तपञ्चा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy