SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १५, प्राभृतप्राभृतं - २६७ शत् सप्त चाहोरात्रा एकादश मुहूर्त्तास्त्रयोविंशतिश्च द्वाषष्टिभागा मुहूर्त्तस्य, एष च राशि सांश इति न त्रैराशिककर्म्मविषयस्ततः परिपूर्णमासप्रतिपत्यर्थः मयं राशि षट्पञ्चाशदधिकेन शतेन गुप्ते, जातानि परिपूर्णानि नवाशीति शतानि अष्टाविंशत्यधिकानि अभिवर्द्धितमासानां, किमुक्तं भवति षट्पञ्चाशदधिकशतसङ्घयेषु युगेषु एतावन्तः परिपूर्णा अभिवर्द्धितमासाः लभ्यन्ते, एतच्च द्वादशप्राभृते सूत्रकृतैव साक्षादभिहितं, ततस्त्रिराशिककर्म्मावतारः - यद्यष्टाविंशत्यधिकैरभिवर्द्धितमासैर्नवाशीतिशतैः षट्पञ्चाशदधिकशतसङ्घययुगभाविभिश्चन्द्रमण्डलानामेकं लक्षं सप्तत्रिंशत्सहस्राणि नव शतानि चतुरुत्तराणि लभ्यन्ते तत एकेनाभिवर्द्धितमासेन किं लभामहे ? अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेस्ताडनाज्जातः स तावानेव तस्याद्येन राशिना भागहरणं लब्धानि पञ्चदश मण्डलानि शेषमुद्धरति एकोनचत्वारिंशत् शतानि चतुरशीत्यधिकानि ततश्छेद्यच्छेदकराश्योरष्टाचत्वारिंशताऽ- पवर्त्तना जात उपरितनो राशिस्त्रयशीतिरधस्तनः पडशीत्यधिकं शतं आगं षोडशमण्डलस्य त्र्यशीति षडशीत्यधिकशतभागाः । 'ता अभिवढिएण' मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'सोलसे' त्यादि, षोडश मण्डलानि त्रिभिर्भागैर्न्यनानि चरति, मण्डलं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां छित्वा, तथाहि-यदि षट्पञ्चाशदधिकशतसङ्घययुगभाविभिरष्टाविंशत्यधिकैरभिवर्द्धितमासैर्नवाशीतिशतैः सूर्यमण्डलानामेकं लक्षं द्विचत्वारिंशत्सहस्राणि सप्त शतानि चत्वारिंशदधिकानि लभ्यन्ते तत एकोनाभिवर्द्धितमासेन किं लभामहे ? अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिर्गुण्यते जातः सतावानेव तस्याद्येन राशिना भागो हियते लब्धानि पञ्चदश मण्डलानि शेषमुद्धरन्ति अष्टाशीति शतानि विंशत्यधिकानि ततश्छेद्यच्छेदकराश्योः षट्विंशताऽपवर्त्तना जात उपरितनो राशि द्वे शते पञ्चचत्वारिंशदधिके अधस्तनो द्वे शते अष्टाचत्वारिंशदधिके आगतं षोडशं मण्डलं न्निभिर्भागैर्न्यूनं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां प्रविभक्तं । 'ता अभिवड्डिएण'मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता सोलसे' त्यादि, षोडश मण्डलानि सप्तचत्वारिंशता भागैरधिकानि चतुर्द्दशभि शतैरष्टाशीत्यधिकैर्मण्डलं छित्वा, तथाहि-यदि षट्पञ्चाशदधिकशतसङ्घययुगभाविभिरभिवर्द्धितमासैर्नवाशीतिशतैरष्टाविंशत्यधिकैर्नक्षत्रमण्डलानामेकं लक्षं त्रिचत्वारिंशत् सहस्राणि शतमेकं त्रिंशदधिकं लभ्यते ततः एकेनाभिवर्द्धितमासेन किं लभामहे ? अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्याद्येन राशिना भागो हियते लब्धानि षोडश मण्डलानि शेषमुद्धरति द्वे शते द्वयशीत्यधिके ततश्छेद्यच्छेदकराश्योः षट्केनापवर्त्तना जाता उपरि सप्तचत्वारिंशत् अधस् चतुर्द्दश शतान्यष्टाशीत्यधिकानि आगताः सप्तचत्वारिंशत् अष्टाशीत्यधिकचतुर्द्दशशतभागाः । सम्प्रत्येकैकेनाहोरात्रेण चन्द्रादयः प्रत्येकं कति मण्डलानि चरन्तीत्येतन्निरूपणार्थमाह मू. (११४) ता एगमेगेणं अहोरत्तेणं चंदे कति मंडलाई चरति ?, ता एवं अद्धमंडलं चरति एकतीसाए भागेहिं ऊणं नवहिं पन्नरसेहिं अद्धमंडलं छेत्ता, ता एगमेगेणं अहोरत्तेणं सूरिए कति मंडलाई चरति ?, ता एगं अद्धमंडलं चरति, ता एगमेगेणं अहोरत्तेणं नक्खत्ते कति मंडलाई चरति ?, ता एगं अद्धमंडलं चरति दोहिं भागेहिं अधियं सत्तहिं बत्तीसेहिं सएहिं अद्धमंडलं छेत्ता । ता एगमेगं मंडलं चंदे कतिहिं अहोरत्तेहिं चरति ?, ता दोहिं अहोरत्तेहिं चरि एक्कतीसाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy