SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २६५ प्रामृतं १५, प्राभृतप्राभृतं - लभ्यन्ते तत एकेन नाक्षत्रेण मासेन किं लभामहे ? अत्रान्त्येन राशिना मध्यराशेर्गुणनं, तत आडुन राशिना भागहारोलब्धानिसप्तविंशतिरर्द्धमण्डलानि अष्टाविंशतितमस्य चार्द्धमण्डलस्य षड्विंशति सप्तषष्टिभागाः ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकमण्डलमित्यस्यराशेरर्द्धकरणे लब्धानि त्रयोदश मण्डलानि चतुर्दशस्य मण्डलस्य सार्दाः षट्चत्वारिंशत्सप्तषष्टिभागाः सम्प्रति चन्द्रमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति- 'ता चंदेण मित्यादि, ता इति पूर्ववत्, चान्द्रेण मासेन प्रागुक्तस्वरूपेण चन्द्रः कति मण्डलानि चरति?, भगवानाह___'ता चोद्दसे'त्यादि, चतुर्दश सचतुर्भागमण्डलानि-चतुर्भागसहितानि मण्डलानि चरति एकंच चतुर्विंशशतभागं मण्डलस्य, किमुक्तं भवति?-परिपूर्णानि चतुर्दशमण्डलानिपञ्चदशस्य चमण्डलस्य चतुर्भाग-चतुर्विंशत्यधिकशतसत्कमेकत्रिंशद्भागप्रमाणमेकंचचतुर्विंशत्यधिकशतस्य भाग-द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधकशत भागान् चरति, तथाहि-यदि चतुर्विंशत्यधिकेन पर्वशतेनाष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ? अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि सप्तदश शतान्यष्टषष्ट्यधिकानि, तेषांचतुर्विंशत्यधिकेन शतेन भागहरणं, लब्धानिचतुर्दशमण्डलानिपञ्चदशस्य चमण्डलस्य द्वात्रिंशत् चतुर्विंशत्यधिकशतभागाः 'ता चंदेण'मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, 'ता पन्नरसे' त्यादि, पञ्चदश चतुर्भागन्यनानिमण्डलानि चरति एकंच चतुर्विंशत्यधिकशतभागं मण्डलस्य, किमुक्तं भवति? -चतुर्दशपरिपूर्णानि मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्नवतिंचतुर्विंशत्यधिकशतभागान्चरति, तथाहि-यदि चतुर्विंशत्यधिकेन पर्वशतेन नवशतानि पञ्चदशोत्तराणि मण्डलानां लभ्यन्ते ततो द्वाभ्यां किं लभामहे ?, अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातान्यष्टादश शतानि त्रिंशदधिकानि, एतेषामाद्येन राशिना चतुर्विंशत्यधिकेन शतेन भागहरणं, लब्धानि चतुर्दश मण्डलानिपञ्चदशस्य चमण्डलस्यचतुर्नवतिश्चतुर्विंशत्यधिकशतभागाः इति, ‘ता चन्देण'मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगम, भगवानाह ‘ता पन्नरसे'त्यादि, पञ्चदशमण्डलानि चतुर्भागन्यूनानि चरति षट्च च चतुर्विंशत्यधिकशतभागान् मण्डलस्य, किमुक्तं भवति?-परिपूर्णानि चतुर्दश मण्डलानि चरति पञ्चदशस्य चमण्डलस्य नवनवतिं चतुर्विंशत्यधिकशतभागान्, तथाहि-यदिचतुर्विंशत्यधिकेन पर्वशतेनाटादशशतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानां लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ? अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि षट्त्रिंशच्छतानि सप्तत्यधिकानि एतेषामाद्येन राशिना चतुर्विंशत्यधिकशतरूपेण भाग-हरणं, लब्धा एकोनत्रिंशत् शेषा तिष्ठति चतुःसप्तति, इदंचार्द्धमण्डलगतं परिमाणं, द्वाभ्यांचार्द्धमण्डलाभ्यामेकंपरिपूर्ण मण्डलं ततोऽस्य राशेकेन भागहारो लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य नवनवतिश्चतुर्विंशत्यधिकशतभागाः साम्प्रतं ऋतुमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति 'ता उउमासेण चंदे'इत्यादि, ऋतुमासेन-कर्ममासेन चन्द्रः कति मण्डलानि चरति ?, भगवानाह-'ता चोद्दसे'त्यादि चतुर्दश मण्डलानि चरति पञ्चदशस्य मण्डलस्य त्रिंशतमेकषष्टिभागान्, तथाहि-यदिएकषष्ट्या कर्ममासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy