SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २६१ प्राभृतं १५, प्राभृतप्राभृतं षष्ट्यधिकानितत आधेन राशिना भागहरणं लब्धमेकं रात्रिन्दिवंशेषाणि तिष्ठन्त्यष्टादश शतानि पञ्चविंशत्यधिकानि, ततोमुहूर्तानयनार्थमेतानि त्रिंशता गुण्यन्ते, जातानि चतःपञ्चाशत्सहस्राणि सप्तशतानिपञ्चाशदधिकानि, तेषामष्टादशभिशतैः पञ्चविंशदधिकांगहृतेलब्धाएकोनत्रिंश-मुहूर्ताः, ततः शेषच्छेद्यच्छेदकराश्योः पञ्चकेनापवर्त्तना जात उपरितनो राशि त्रीणि शतानि सप्तोत्तराणि छेदकराशिस्त्रीणि शतानि सप्तषष्ट्यधिकानि , तत आगतमेकं रात्रिन्दिवमेकस्य च रात्रिन्दिवस्य एकोनत्रिंशन्मुहूर्त्ता एकस्य च मुहूर्तस्य सप्तषष्ट्यधिकत्रिशतभागानांत्रीणिशतानि सप्तोत्तराणि इदानी- मेतदनुसारेण मुहुर्तगतिपरिमाणं चिन्त्यते, तत्र रात्रिदिवे त्रिंशन्मुहूर्ताः तेषु उपरितना एकोन-त्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्तानां, ततः सा सवर्णनार्थं त्रिभिः शतैः सप्तष-टयधिकैर्गुण्यते, गुणयित्वाचोपरितनानि त्रीणिशतानि सप्तोत्तराणिप्रक्षिप्यन्ते। जातान्येकविंशति सहस्राणि नव शतानि षष्ट्यधिकानि, ततस्त्रैराशिकं-यदि मुहूर्तगतसप्तषष्ट्यधिकत्रिशतभागानामेकविंशत्या सहनैनवभिः शतैः षष्ट्यधिकैरेक शतसहस्रमटानवति शतानि मण्डलभानां लभ्यते तत एकेन मुहूर्तेन किं लभामहे ? अत्रायो राशिमुहूर्तगतसप्तषष्ट्यधिकत्रिशतभागरूपस्ततोऽन्त्योऽपि राशिस्त्रभिःशतैः सप्तषष्ट्यधिकैगुण्यते जातानि त्रीण्येव शतानि सप्तषष्ट्यधिकानि, तैर्मध्यो राशिगुण्यते जाताश्चततः कोट्यो द्वे लक्षे षष्णवति सहस्राणि षट् शतानि तेषामायेन राशिना एकविंशति सहनणि नव शतानि षष्ट्यधिकानीत्येवंरूपेणभागोहियतेलब्धान्यादश शतानि पञ्चत्रिंशदधिकानिएतावतोभागानक्षत्रं प्रतिमुहूर्तं गच्छति। तदेवं यतश्चन्द्रो यत्र तत्र वा मण्डले एकैकेन मुहूर्तेन मण्डलपरिक्षेपस्य सप्तदश शतानि अटषष्ट्यधिकानि भागानां गच्छति सूर्योऽष्टादश शतानि त्रिंशदधिकानि नक्षत्रमष्टादश शतानि पञ्चत्रिंशदधिकानिततश्चन्द्रेभ्य-शीघ्रगतयःसूर्या सूर्येभ्यः शीघ्रगतीनि नक्षत्राणि, ग्रहास्तुवक्रानुवक्रादिगतिभावतोऽनियतगतिप्रस्थानास्ततोन तेषामुक्तप्रकारेण गतिप्रमाणप्ररूपणा कृता, उक्तंच॥१॥ "चंदेहिं सिग्घयरा सूरा सूरेहि होति नक्खत्ता । अनिययगइपत्थाणा हवंति सेसा गहा सव्वे ।। ॥२॥ अट्ठारस पणतीसे भागसए गच्छई मुहुत्तेणं । नक्खत्तं चंदो पुण सत्तरस सए उ अडसट्टे॥ ॥३॥ अट्ठारस भागसए तीसे गच्छइ रवी मुहुत्तेण । नक्खत्तसीमछेदो सो चेव इहपि नायब्वो॥ इदं गाथात्रयमपि सुगम, नवरं नक्षत्रसीमाछेदः स एव अत्रापि ज्ञातव्य इति किमुक्तं भवति? -अत्रापि मण्डलमेकेन शतसहम्नाणाष्टानवत्या च शतैः प्रविभक्तव्यमिति ।। सम्प्रत्युक्तस्वरूपमे चन्द्रसूर्यनक्षत्राणां परस्परं मण्डलभागविषयं विशेषं निर्धारयति मू. (११२) ता जया णं चंदं गतिसमावण्णं सूरे गतिसमावण्णे भवति, सेणं गतिमाताए केवतियंविसेसेति?, बावट्ठिभागे विसेसेति, ताजयाणं चंदंगतिसमावण्णं नक्खत्ते गतिसमावण्णे वइसेणं गतिमाताए केवतियं विसेसेइ ?, तासत्तविभागे विसेसेति।ता जताणं सूरंगतिसमावण्णं नक्खत्ते गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसेति?, तापंच भागे विसेसेति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy