SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २६० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/१११ लब्धे द्वे रात्रिन्दिवे, शेषं तिष्ठति चतुर्विंशत्यधिकं शतं , तत्रैकैकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि, तेषां सप्तदशभिः शतैरष्टषष्ट्यधिकैः भागे हृते लब्धौ द्वौ मुहूत्र्ती, ततः शेषच्छेद्यराशिच्छेदकराश्योरष्टकेनापवर्तना जातश्छेद्यो राशिस्त्रयोविंशति छेदक-राशिद्धेशते एकविंशत्यधिके, आगतंमुहूर्तस्यैकविंशत्यधिकशतद्वयभागास्त्रयोविंशति । एतावता कालेन द्वे अर्द्धमण्डले परिपूर्णे चरति, किमुक्तं भवति ?-तावता कालेन परिपूर्णमेकंमण्डलं चन्द्रश्चरति, तदेवं मण्डलकालपरिज्ञानं कृतं, साम्प्रतमेतदनुसारेणमुहूर्तगतिपरिमाणं चिन्त्यते-तत्र ये द्वे राबिन्दिवे ते मुहूर्तकरणार्थं त्रिंशता गुण्येते, जाताः षष्टिर्मुहूर्ताः, तत उपरितनौ द्वौ मुहूत्र्ती प्रक्षिप्तौ जाता द्वाषष्टिः, एषासवर्णनार्थं द्वाभ्यांशताभ्याम-कविंशत्यधिकाभ्यां गुण्यते गुणयित्वाचोपरितनात्रयोविंशति क्षिप्यतेजातानित्रयोदश सहस्राणिसप्तशतानि पञ्चविंशत्यधिकानि, एतत् एकमण्डलकालगतमुहूर्तसत्कैकविंश-त्यधि-कशतद्वयभागानां परिमाणं। ततस्त्रैराशिककविसरो-यदि त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैरेकविंशत्यधिकशतद्वयभागानां मण्डलभागा एकं शतसहस्रमष्टानवतिः शतानि लभ्यन्ते त एकेन मुहूर्तेन किं लभामहे ? इहायो राशिर्मुहूर्त- गतेकर्विशत्यधिकशतद्वयभागरूपस्ततः सवर्णनार्थमन्त्यो राशिरेककलक्षणो द्वाभ्यां शता- भ्यामेकविंशत्यधिकाभ्यां गुण्यते, जाते द्वे शते एकविंशत्यधिके, ताभ्यां मध्यो राशिगुण्यते, जाते द्वे कोट्यौ द्विचत्वारिंशल्लक्षाः पञ्चषष्टि सहस्राण्यष्टौ शतानि, तेषांत्रयोदशभिः सहनै सप्तभिशतैः पञ्चविंशत्यधिकैर्भागो हियते लब्धानि सप्तदश शतानि अष्टषष्ट्यधिकान, एतावतो भागान् यत्र तत्र वा मण्डले चन्द्रो मुहूर्तेन गच्छति। ___ताएगमेगेणे'त्यादि, ताइति पूर्ववत्, एकैकेन मुहूर्तेन सूर्य कियन्ति भागशतानि गच्छति भगवानाह-'ताजंज मित्यादि, यत् यत्मण्डलमुपसङ्क्रम्य सूर्यश्चारंचरति तस्य तस्य मण्डलसम्भन्धघिनः परिक्षेपस्य-परिधेरष्टादश भागशतानि त्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रणाष्टानवत्या च शतैश्छित्वा, कथमेतदवसीयते इति चेत्, उच्यते, त्रैराशिकवलात्, तथाहि-यदि षट्या मुहूत्रेकं शतसहस्रमष्टानवति शतानि मण्डलभागानां लभ्यन्ते तत एकेन मुहूर्तेन कति भागान् लभामहे ?, अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनं जातः स तावानेव, 'एकेन गुणितं तदेव भवतीति वचनात्, ततस्तस्यायेन राशिना षष्टिलक्षणेन भागो हियते, लब्धान्यष्टादश शतानि त्रिंशदधिकानि, एतावतो भागान्मण्डलस्य सूर्यएकैकेन मुहूर्तेन गच्छति। “ता एगमेगेण मित्यादि, ता इति पूर्ववत्,एकैकेन मुहूर्तेन कियतो भागान् मण्डलस्य नक्षत्रंगच्छति?,भगवानाह-'ता जंज'मित्यादि, यत्यत्आत्मीयमाकालप्रतिनियतंमण्डलमुपस क्रम्य चारंचरतितस्य तस्यात्मीयस्यमण्डलस्य सम्बन्धिनःपरिक्षेपस्य-परिधेरष्टादशभागशतानि पञ्चत्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानवत्याच शतैश्छित्वा, इहापि प्रथमतोमण्डलकालो निरूपणीयः यतस्तदनुसारेणैव मुहूर्ततगतिपरमाणभावना, तत्र मण्डलकालप्रमाणचिन्तायामिदं त्रैराशिक-यद्यष्टादशभिशतैः पञ्चत्रिंशदधिकैः सकलयुगभाविभिरर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यां एकैकेन परिपूर्णेन मण्डलेनेति भावः किं लभामहे ? अत्रान्त्वेन राशिना मध्यराशेर्गुणनं जातानि षट्त्रिंशच्छतानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy