SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २४९ प्राभृतं १३, प्राभृतप्राभृतंममावास्या पौर्णमासी च उपचारात् पक्षे पर्वशब्दस्य प्रवृत्तिस्तत उक्तम्-"एत्थ णं पढमे पव्वे अमावासे" इति। ___ अथ कथंचत्वारि मुहूर्तशतानि द्विचत्वारिंशदधिकानिषट्चत्वारिंशञ्चद्वाषष्टिभागा मुहूर्तस्य उच्यते, इह शुक्लपक्षः कृष्णपक्षो वा चन्द्रमासस्याड़, ततः पक्षस्य प्रमाणं चतुर्दश रात्रिन्दिवं सप्तचत्वारिंशत् द्वाषष्टिभागाः, रात्रिन्दिवस्य परिमाणं त्रिंशन्मुहूर्त्ता इति चतुर्दश त्रिंशता गुण्यन्ते, जातानि मुहूर्तानां चत्वारिंशतानि विंशत्यधिकानि , येऽपि च सप्तचत्वारिंशत् द्वापष्टिभागा रात्रिन्दिवस्य तेऽपि मुहूर्तभागकरणा) त्रिंशता गुण्यन्ते, जातानि चतुर्दश शतानि दशोत्तरणि तेषां द्वाषष्ट्या भागो हियते लव्या द्वाविंशतिर्मुहूर्ताः ते मुहूर्तराशौ प्रक्षिप्यन्ते जातानि चत्वारि मुहूर्तानां शतानि द्वाचत्वारिंशदधिकानि , शेषास्तिष्ठन्ति पट्चत्वारिंशत् द्वापष्टिभागा मुहूर्तस्य, तदेवं यावन्तं कालं चन्द्रमसोऽपवृद्धिस्तावत्कालप्रतिपादनं कृतं अथ यावन्तं कालं वृद्धिस्तावममभिधित्सुराह- ‘ता अंधकारपवखातो ण'मित्यादि, ता इति पूर्ववत् अन्धकारपक्षात् णमिति वाक्यालक्तरे ज्योत्स्नाप-शुक्लपक्षमयमानश्चन्द्रचत्वारि वाचत्वारिंशदधिकानिमुहूर्तशतानि षट्चत्वारिंशतंच द्वापटिभागान् मुहूर्तस्य यादवृद्धिमुपगच्छतीति वादयशेपः, यानि-यथोक्तसङ्ख्यकानि मुहूर्तशतानि यावचन्द्रः शनैः शनरिक्तो-राहुविमानेनावृतो भवतीति, विरागप्रकारमेवाह-- 'तंजहे त्यादि, तबधेति विरागप्रकारोपदर्शने प्रथमायां प्रतिपल्लक्षणायां तिधौ प्रथम पञ्चदशभागं यावत् चन्द्रो विरज्यते, द्वितीयायां द्वितीयं पञ्चदशं भागं यावत् एवं पञ्चदश्यां पञ्चदशं भागंयावत्,तस्वाध पञ्चदश्याः पौर्णमासीरूपायास्तिधेश्वरमसमये चन्द्रोविरक्तो भवति, सर्वात्मना राहुविमानेनावृतो भवर्तीति भावः। तंच पञ्चदश्याश्चरमसमयं मुक्त्वा शुक्लपक्षप्रथमसमयादारभ्य शेपेषु समयेषुचन्द्रो रक्तश्च भवति विरक्तश्थ, देशतो रक्तो भवति देशतो विरक्तश्चेति भावः, मुहूर्तसङ्ख्याभावना च प्राग्वकर्तव्या, शुक्लपक्षवक्तव्यतोपसंहारमाह-'इयण्णमित्यादि इयमनन्तरोदिता पञ्चदशी तिथि पौर्णमासीनामा अत्र च युगे णमिति पूर्ववत् द्वितीयं पर्व पौर्णमासी। अधैवंरूपा युगे कियत्यो अमावास्याः कियन्त्यश्च पौर्णमास्य इति तद्गतां सर्वसङ्ख्यामाह मू. (१०८) तत्थ खलुइमाओ वावहिं पुणिमासिणीओ बावहि अमावासाओ पन्नत्ताओ, बावहिं एते कसिणा रागा वावहिं एते कसिया विरागा, एते चाबीसे पव्वसते एते चउब्बीसे कसिणरागविरागसते, जावतियाणं पंचण्हं संवच्छराणं समया एगेणंचवीसेणं समयसतेनूनका एवतिया परित्ता असंखेजा देसरागविरागसता भवंतीतिमक्खाता,। अमावासातोणं पुणिमासिणी चत्तारि बाताले मुहत्तसते छत्तालीसं वावडिभागे मुहत्तस्स आहितेति वदेजा, ता पुणिमातिणीतोणंअमावासाचत्तारिवायाले मुहत्तसतेछत्तालीसंवाहिभागे मुहुत्तस्स आहितेति वदेजा, ता अमावासातो णं अमावासा अट्ठपंचासीते मुहत्तसते तीसं च बावट्ठिभागे मुटुत्तस्स आहितेति वदेजा। तापुणिमासिणीतोणंपुण्णिमासिणी अपंचासीते मुहत्तसेत तीसंबायट्ठिभागे मुहत्तस्स आहितेति वदेआ, एस णं एवतिए चंदे मासे एस णं एवतिए सगले जुगे। वृ. 'तत्थ खलु'इत्यादि, तत्र युगे खल्चिमाः-एवंस्वरूपा द्वाषष्टि पौर्णमास्यो द्वाषष्टि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy