________________
२४८
सूर्यप्रज्ञप्तिउपासूत्रम् १३/-/१०७ तीसंचबावडिभागे मुहुत्तस्स, ता दोसिणापक्खाओ अन्धगारपखमयमाणेचंदे चत्तारिबायालसते छत्तालीसंच बावहिभागे मुहत्तस्स जाइं चंदे रजति तं०--
पढमाए पढमं भागं बितियाए बितियं भागंजाव पन्नरसीए पन्नरसमं भागं, चरिमसमए चंदे रते भवति, अवसेसे समए चंदे रत्ते य विरत्तेत य भवति, इयण्णं अमावासा, एत्थणं पढमे पच्चे अमावासे, ता अंधारपक्खो, तो णं दोसिणापक्खं अयमाणे चंदे चत्तारे बाताले मुहत्तसते छातालीसं च बावट्ठिभागा मुहत्तस्स जाइं चंदे विरजति, तं०- पढमाए पढमं भागं बितियाए वितियं भागंजाव पन्नरसीए पन्नसमं भागं चरिमे समये चंदे विरत्ते भवति, अवसेससमए चंदे रत्ते य विरते य भवति, इयण्णं पुण्णिमासिणी, एत्य णं दोचे पव्वे पुण्णिमासिणी।
वृ. 'ता कहं ते इत्यादि, ता इति पूर्ववत्, कथं-केन प्रकारेण त्वया भगवन् ! चन्द्रमसो वृद्धयपवृद्धी आख्याते इति वदेत् ?, किमुक्तं भवति?-कियन्तं कालं यावत् चन्द्रमसो वृद्धि कियन्तं च कालं यावदपवृद्धिस्त्वया भगवन्नाख्याता इति वदत्, एवमुक्ते भगवानाह
‘ता अडे'त्यादि, ता इति पूर्ववत् अष्टौ मुहूर्तशतानि पञ्चाशीतानि-पञ्चाशीत्यधिकानि एकस्य च मुहूर्तस्य त्रिंशतं द्वाषष्टिभागान् यावत् वृद्धयपवृद्धी समुदायेनाख्याते इति वदेत्, यथा एकस्य चन्द्रमासस्य मध्ये एकस्मिन् पक्षे चन्द्रमासो वृद्धिरेकस्मिन् पक्षे चापवृद्धि, चन्द्रमासस्य च परिमाणमेकोनत्रिंशत् ात्रिन्दिवानि एक्यच रात्रिन्दिवस्य द्वात्रिंशत् द्वापटिभागाः, रात्रिन्दिवं चनिशन्मुहूर्तकरणार्थमेकोनत्रिंशत् (त्रिंश)ता गुण्ये जातान्यष्टौ शतानि सप्तत्यधिकानि मुहूर्तानां ये पिच द्वात्रिंशत् द्वाषष्टिभागा रात्रिंदिवस्य ते मुहूर्तसत्कभागकरणार्थं त्रिंशता गुण्यन्ते, जाता नवशतानि षष्ट्यधिकानि, तेषां द्वाषष्ट्या भागोहियते, लब्धाः पञ्चदश मुहूर्ताः, ते मुहूर्तराशौ प्रक्षिप्यन्ते, जातानि मुहूर्तानामष्टौ शतानिपञ्चाशीत्यधिकानि,शेषाश्चोद्धरन्ति त्रिंषत्द्वाषष्टिभागा मुहूर्तस्य, एतदेव प्रतिविशेषावबोधार्थं वैविक्त्येन स्पष्टयति
ता दोसिणाओ'इत्यादि, ता इति पूर्ववत्, ज्योत्स्नाप्रधानः पक्षोज्योत्स्नापक्षः शुक्लपक्ष इत्यर्थः तस्मात् अन्धकारपक्षमयमानो-गच्छन् चन्द्रः चत्वारि मुहूर्त्तशतानि द्विचत्वारिंशानिद्विचत्वारिंश- दधिकानि षट्चत्वारिंशतं च द्वाषष्टिभागान् मुहूर्तस्य यावदपवृद्धिं गच्छतीति वाक्यशेषः, यानि यथोक्तसङ्ख्याकानि मुहूर्त्तशतानि यावच्चन्द्रो राहुविमानप्रभया रज्यते, कथं रज्यते ? इति तमेव रागप्रकारं तद्यथेत्यादिना प्रकटयति, प्रथमायां-प्रतिपल्लक्षणायां तिथौ परिसमाप्नुवत्यां प्रथम-परिपूर्ण पञ्चदशं भागं यावद्रज्यते, द्वितीयायां परिसमाप्नुवत्यां तिथौ परिपूर्ण द्वितीयं पञ्चदशंभागंयावत्, एवं यावत्पञ्चदश्यां तिथौ परिसमाप्नुवत्यां परिपूर्ण पञ्चदर्श भागं यावद्रज्यते, तस्याश्च पञ्चदश्यास्तिधेश्चरमसमये चन्द्रः सर्वात्मना राहुविमानप्रभया रक्तो भवति, तिरोहितो भवतीति तात्पर्यार्थः, यस्तु षोडशो भागो द्वाषष्टिभागद्वयात्मकोऽनावृतस्तिष्ठति स स्तोकत्वाश्यत्वाच्च न गण्यते, 'अवसेसे' इत्यादि, तं च पञ्चदश्यास्तिथेश्वरममयं मुक्त्वा अन्धकारपक्षप्रथमसमयादारम् शेषेषु सर्वेष्वपि समयेषु चन्द्रो रक्तो भवति विरक्तश्च, कियानंसशस्तस्य राहुणा आवृतो भवति कियांश्चानावृत इति भावः । अन्धकारपक्षवक्त व्यतोपसंहारमाह-'इयण्ण मित्यादि, इयमन्धकारपक्षे पञ्चदशी तिथि णमिति वाक्याल्कारे अमावास्या-अमावास्यानाम्नी अत्रयुगेप्रथमं पर्वअमावास्या, इहमुख्यवृत्या पर्वशब्दस्याभिधेय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org