________________
२४७
प्राभृतं १२, प्राभृतप्राभृतं - वर्तते तद्वत् योगोऽपि यः प्रतिभाति स युगनद्ध इत्युच्यते, घनसम्परूपः यत्र चन्द्रः सूर्यो वा ग्रहस्य नक्षत्रस्य वा मध्ये गच्छति, प्रीणितः-उपचयं नीतः यः प्रथमतश्चन्द्रमसः सूर्यस्य वा एकतरस्य ग्रहेण नक्षत्रेण वा एकतरेण जातस्तदनन्तरं द्वितीयेन सूर्यादिना सहोपचयं गतः स प्रीपितइति भावः,माण्डूकप्लुतो नाम दशमः, तत्रमाण्डूकप्लुत्यायोजातो योगः स माण्डूकप्लुतः, सच ग्रहेण सह वेदितव्यः, अन्यस्य माण्डूकप्तुतिगमनासम्भवात्, उक्तंच
“चन्द्रसूर्यनक्षत्राणि प्रतिनियतगतानि ग्रहास्त्वनियतगतय"इति, तदित्यं यथावबोधं दशानामपियोगानां स्वरूपमात्रभावना कृता यथासम्प्रदायमन्यथावावाच्या, तत्रयुगेछत्रातिच्छअवर्जा शेषा नवापि योगाः प्रायो बहुशो बहुषु च देशेषु भवन्ति, छत्रातिच्छत्रयोगस्तु कदाचित् कस्मिंश्चिदेव देशे ततस्तद्विषयं प्रश्नसूत्रमाह-- ____ ता एएसि णमित्यादि, ता इति पूर्ववत्, छत्रातिमनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणांमध्ये छत्रातिच्छत्रं योगचन्द्रः कस्मिन् देशेयुनक्ति-करोति?,भगवानाह-'ता'इत्यादि, ता इति पूर्ववत् जम्बूद्वीपस्य द्वीपस्योपरि प्राचीनापाचीनायतया उदग्दक्षिणायतयाअत्रचशब्दोऽनुक्तो द्रष्टव्यः यदिवा चिनविभक्तिनिर्देशादेव समुच्चयो लब्ध इति चशब्दो नोक्तः, यथा 'अहरहनयमानो गामश्वं पुरुषं पशुं वैवश्वतो न तृप्यति सुरायाइव दुर्मदी' इत्यत्र, चादयो हि पदान्तराभिहितमेवार्थं स्पष्टयतिन पुनःस्वातन्त्रयेण कमप्यर्थमभिदधति इति निर्णीतमेत स्वशब्दानुशासने, जीवया-प्रत्यञ्चयादवरिकया इत्यर्थः, मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा-विभज्य, इयमत्र भावना- एकया दवरिकया बुद्धया कल्पितया पूर्वापरायतया एकयाचदक्षिणोत्तरायतया मंडलं समकालं विभज्यते, विभक्तं च सच्चतुर्भागतया जातं, तद्यथा-एको भाग उत्तरपूर्वस्यामेको दक्षिणपूर्वस्यामेको दक्षिणापरस्यामेकोऽपरोत्तरस्यामिति, तत्र दक्षिणपौरस्त्ये-दक्षिणपूर्वे चतुर्भागमण्डले-चतुर्भागमात्रेमण्डले मण्डलचतुर्भाग इत्यर्थः, एकत्रिंशद्भागप्रमाणे सप्तविंशति भागानुपादाय-गृहीत्वाआक्रम्येत्यर्थः, अष्टाविंशतितमंचभागविंशतिधा छित्वा तस्य सत्कानष्टा दश भागानुपादाय आक्रम्य शेषैस्त्रीभिरेकत्रिंशत्सकैर्भागाभ्यां च कलाभ्यामेकस्य एकत्रिंशत्सत्कस्य भागस्य सत्काभ्यां द्वाभ्यां विंशतितमाभ्यां भागाभ्यां दक्षिणपश्चिमंचतुर्भागमण्डलं मण्डलचतुर्भागसम्प्राप्तोऽस्मिन् प्रदेशे स चन्द्रश्छत्रातिच्छत्ररूपं योगं युनक्ति-करोति ।
एनमेव तद्यथे' त्यादिना भावयति, उपरिचन्द्रो मद्ये नक्षत्रमधस्ताच्चादित्य इति, इह मध्ये नक्षत्रमित्युक्तं ततो नक्षत्रविशेषप्रतिपत्यर्थं प्रश्नं करोति-"तं समयं च णमित्यादि, तस्मिन् समये चन्द्रः केन नक्षत्रेण युनक्ति-योगं करोति?, भगवानाह-'ता' इत्यादि, ता इति पूर्ववत्, तस्मिन् समये चित्रया सह योगं करोति, तदानींच चित्रायाश्चरमसमयः ।।
प्राभृतं-१२ समाप्तम्
(प्रामृत-१३) वृतदेवमुक्तं द्वादशं प्राभृतं, सम्प्रति त्रयोदशमारभ्यते-तस्य चायमर्थाधिकारो यथा'चन्द्रमसो वृद्धयपवृद्धी वक्तव्ये' इति ततस्तद्विषयं प्रश्नसूत्रमाहमू. (१०७) ता कहते चंदमसो वडोवड़ीआहितेति वदेजा?,ता अgपंचासीते मुहुत्तसते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org