________________
२४६
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०५ तैश्च त्रयोदशभिरश्लेषादीनि उत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, तत आगतमभिजितो नक्षत्रस्यप्रथमसमये चन्द्र उत्तरायणं करोति, एवं सर्वाण्यपि चन्द्रस्योत्तरायणानि वेदितव्यानि, उक्तंच॥१॥ “पन्नरसे उ मुहुत्ते जोइत्ता उत्तरा असाढाओ।
एवं च अहोरत्तं पविसइ अभितरे चंदो।" अधुना पुष्येदक्षिणाआवृत्तयोभाव्यन्ते, यदिचतुस्त्रिंशदधिकेनायनशतेन सप्तषष्टिश्चन्द्रस्य पर्याया लभ्यन्ते तत एकनायनेन किं लभामहे ? अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेः सतषष्टिरूपस्य गुणनं जाताः सप्तषष्टिरेव तस्याश्चतुस्त्रिंशद-धिकेन शतेन भागहरणं लब्धमेकमड़े पर्यायस्य, तच्च सप्तषष्टिभागरूपाणि नव शतानि पञ्चदशोत्तराणि, तत एकविंशतिरभिजितः सम्बन्धिनः सप्तषष्टिभागाः शोध्यन्ते, स्थितानिपश्चादौ शतानि चतुर्नवत्यधिकानि, तेषां सप्तषष्ट्या भागो ह्रियते, लब्धास्त्रयोदश, तैश्च त्रयोदशभिपुनर्वस्वन्तानि नक्षत्राणि शुद्धानि, शेषा तिष्ठतित्रयोविंशति, एतेचकिल सप्तषष्टिभागाअहोरात्रस्य ततोमुहूर्तभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि षट् शतानि नवत्यधिकानि , तेषां सप्तषष्ट्या भागे हृते लब्धा दश मुहूर्ताः, शेषास्तिष्ठन्ति विंशति सप्तषष्टिभागाः । तत इदमागतं-पुनर्वसुनक्षत्रे सर्वात्मना भुक्ते पुष्यस्य च दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य विंशती सप्तषष्टिभागेषु भुक्तेषु सर्वाभ्यन्तरान्मण्डलारहिर्निष्कामति चन्द्रः, एवं सर्वाण्यपि दक्षिणायनानि भावनीयानि, उक्तंच॥१॥ “दस यमुहुत्ते सगले मुहुत्तभागेय वीसई चेव ।
पुस्सविसयमभिगओ बहिया अभिनिक्खमइ चंदो ॥" तदेवमुक्तानक्षत्रयोगमधिकृत्यचन्द्रस्याप्यावृत्तयः,सम्प्रतियोगमेवसामान्यतःप्ररूपयति
मू. (१०६) तत्थ खलु इमे दसविधे जोए पं०, तं०-वसभाणुजोए वेणुयाणुजोते मंचे मंचाइमंचे छत्ते छत्तातिच्छत्ते जुअणद्धे घणसंमद्दे पीणिते मंडकप्पुते नामंदसमे, एतासिणं पंचण्हं संवच्छराणं छत्तातिछत्तं जोयं चंदे कसि देसंसि जोएति?
ताजंबुद्दीवस्स २ पाईणपडिणीआयताए उदीणदाहिणायताएजीवाए मंडलं चउव्वीसेणं सतेणं छित्ता दाहिणपुरच्छिमिल्लंसिचउभागमंडलंसि सत्तावीसंभागेउवादिणावेत्ताअट्ठावसतिभागं वीसधाछेत्ता अट्ठारसभागे उवादिणावेत्ता तिहिं भागेहिं दोहिं कलाहिंदाहिणपुरच्छिमिलं चउभाग मंडलं असंपत्ते एत्थ णं से चंदे छत्तातिच्छत्तंजोयं जोएति, उप्पिं चंदो मझे नक्खत्ते हेट्ठा आदिच्चे
तं समयं च णं चंदे केणं नक्खत्तेणं जोएति?, ता चित्ताहिं चरमसमए॥
वृ. 'तस्थ खलु'इत्यादि, तत्रयुगेखल्वयंवक्ष्यमाणोदशविधोयोगःप्रज्ञप्तः, तद्यथा-वृषभानुजातः, अत्र अनुजातशब्दः सशवचनो, वृषभस्यानुजातः-सहशो वृषभानुजातः, वृषभाकारेण चन्द्रसूर्यनक्षत्राणियस्मिन् योगेऽवतिष्ठन्तेस वृषभानुजात इति भावना, एवं सर्वत्रापिभावयितव्यं, वेणुः-वंशस्तदनुजातः-तत्सदृशो वेणुकानुजातो मञ्चो--मञ्चसशः मञ्चात्-व्यवहारप्रसिद्धात् वित्रादिभूमिकाभावतोऽतिशायी मञ्चो मञ्चातिमञ्चस्तत्सदेशो योगोऽपि मञ्चातिमञ्चः, छत्रप्रसिद्धं तदाकारोयोगोऽपिछत्रं,छत्रात्-सामान्यरूपात् उपर्यन्यान्यच्छत्रभावतोऽतिशायिछत्रंछत्रातिच्छवं तदाकारो योगोऽपि छत्रातिच्छत्रं, युगमिव नद्धो युगनद्धः, यथा युगं वृषभस्कन्धयोरारोपितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org