SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १३/-/१०८ श्चामावास्याः प्रज्ञप्ताः, तथा युगे चन्द्रमस एते - अनन्तरोदितस्वरूपाः कृत्स्नाः - परिपूर्णा रागा द्वाषष्टिरमावास्यानां युगे द्वाषष्टिसङ्घयाप्रमाणत्वात् तास्वेव च चन्द्रमसः परिपूर्णरागसम्भवात्, एते - अनन्तरोदितस्वरूपा युगे चन्द्रमसः कृत्स्ना विरागाः सर्वात्मना रागाभावा द्वाषष्टि युगे पौर्णमासीनां द्वाषष्टिसङ्ख्याकत्वात् तास्वेव च चन्द्रमसः परिपूर्णविरागभावात्, तथा युगे सर्वसङ्ख्यया एकं चतुर्विंशत्यधिकं पर्वशतं अमावास्यापौर्णमासीनामेव पर्वशब्दवाच्यत्वात् तासां च पृथक् पृथक् द्वाषष्टिसङ्खयानामेकत्र मीलने चतुर्विंशत्यधिकशतभावात् एवमेव च युगमध्ये सर्वसङ्क्लनया चतुर्विंशत्यधिकं कृत्स्नरागविरागशतं । 'जावइयाण' मित्यादि, यावन्तः पञ्चानां चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्धितरूपाणां समया एकेन चतुर्विंशत्यधिकेन समयशतेनोना एतावन्तः परीत्ताः- परिमिताः असङ्ख्याता देशरागविरासमया भवन्ति, एतेषु सर्वेष्वपि चन्द्रमसो देशतो रागविरागभावात्, यत्तु चतुर्विंशत्यधिकं समयशतं तत्र द्वाषष्टिसमयेषु कृत्स्नो रागो द्वाषौ च समयेषु कृत्स्नो विरागस्तेन तद्वर्द्धनं इत्याख्यातं, मयेति गम्यते, एतच्च भगवद्वचनमतः सम्यक् श्रद्धेयमिति, सम्प्रति कियत्सु मुहूर्त्तेषु गतेष्वमावास्वातोऽनन्तरं पौर्णमासी कियत्सु वा मुहूर्त्तेषु गतेषु पौर्णमास्या अनन्तरमवास्या इत्यादि निरूपयति 'ता अमावासातो ण'मित्यादि, सुगमं, नवरं अमावास्याया अनन्तरं चन्द्रमासस्यार्द्धेन पौर्णमासी पौर्णमास्या अनन्तरमर्द्धमासेन चन्द्रमासस्यामावास्या अमावास्याचाश्चामावास्या परिपूर्णेन चन्द्रमासेन पौर्णमास्या अपि पौर्णमासी परिपूर्णेन चन्द्रमासेनेति भवति यथोक्ता मुहूर्तसङ्ख्या, उपसंहारमाह- 'एस ण' मित्यादि, एषः - अष्टौ मुहूर्तशतानि पञ्चाशीत्यधिकानि द्वात्रिंशच्च द्वापष्टिभागा मुहूर्त्तस्येत्येतावान् एतावत्प्रमाणश्चन्द्रमासः, एतत् एतावत्प्रमाणं शकलं - खण्डरूपं युगं चन्द्रमासप्रमितं युगशकलमेति दित्यर्थः । सम्प्रति चन्द्रो यावन्ति मण्डलानि चन्द्रार्द्धमासेन चरति तन्निरूपणार्थं प्रश्नसूत्रमाहमू. (१०९) ता चंदेणं अद्धमासेणं चंदे कति मंडलाई चरति ?, ता चोद्दस चउब्भागमंडलाई चरति एगं च चउवीस सतभां मंडलस्स, (ता) आइचेणं अद्धमासेणं चंदे कति मंडलाई चरति ?, (ता) सोलस मंडलाई चरति सोलसमंडलचारी तदा अवराई खलु दुवे अटुकाई जाई चंदे केणइ असामन्नकाइं सयमेव पविङित्ता २ चारं चरति । २५० कतराई खलु दुवे अट्टकाई जाई चंदे केणइ असामण्णकाई सयमेव पविट्ठित्ता २ चारं चरति ? इमाई खलु ते बे अट्ठगाई जाई चंदे केणइ असामण्णगाई सयमेव पविट्ठित्ता २ चारं चरति, तंजहा-निक्खममाणे चेव अमावासंतेणं पविसमाणे चेव पुण्णिमासिंतेणं, एताई खलु दुवे अट्टगाई जाई चंदे केणइ असामण्णगाई सयमेव पविट्ठित्ता २ चारं चरइ, ता पढमायणगते चंदे दाहिणाते भागाते पविसमाणे सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाए पविसमाणे चारं चरति । कतराई खलु ताइं सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति इमाई खलु ताइं सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति, तं० - बिदिए अद्धमंडले चउत्थे अद्धमंडले छट्टे अद्धमंडले अट्ठमे अद्धमंडले दसमे अद्धमंडले बारसमे अद्धमंडले चउदसमे अद्धमंडले एताइं खलु ताइं सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति, ता पढमायणगते चंदे उत्तराते भागाते पविसमाणे छ अद्धमंडलाई तेरस य सत्तट्ठिभागाइं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy