SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-२१ तस्माद्विवक्षितादनन्तरान्मण्डलात् 'तयाणंतर मिति तद्विवक्षितमनन्तरं मण्डलं संक्रामन् २ एकैकस्मिन् मण्डले मुहूर्तस्य द्वौद्वावेकषष्टिभागौ दिवसक्षेत्रस्य निर्वेष्टयन् २' हापयन् २ रजनिक्षेत्रस्य प्रतिमण्डलं द्वौ द्वौ मुहूर्तस्यैकषष्टिभागौ अभिवर्द्धयन् २ वशीत्यधिकशततमेअहोरात्रेप्रथमषण्मासपर्यवसानभूते सर्वबाह्यं मण्डलमुपसंक्रम्य चारंचरति । 'ता'इति ततो यदा तस्मिन् काले अहोरात्ररूपेणमिति प्रागिव सूर्य सर्वाभ्यन्तरान्मण्डलान्मण्डलपरिभ्रमणगत्या शनैः शनैः निष्क्रम्य सर्वबाह्यमण्डलमुपसंक्रम्यचारंचरतितदा सर्वाभ्यन्तरमण्डलं 'प्रणिधाय' मर्यादीकृत्य द्वितीयान्मण्डला- दारभ्येत्यर्थ, एकेन त्र्यशीत्यधिकेन रानिन्दिवशतेन त्रीणि 'षट्षष्टानि' षट्पष्टएयधिकानि मुहूर्तेकषष्टिभागशतानि दिवसक्षेत्रस्य 'निर्वेटय' हापयित्वा रजनिक्षेत्रस्य तान्येव त्रीणि मुहूर्ते- कषष्टिभागशतानि षट्षष्ट्यधिकानि अभिवर्द्धर्य चारं चरति, तदा णमिति पूर्ववत्, उत्तमकाष्ठा प्राप्ता-परमप्रकर्षप्राप्ता उत्कर्षिकाउत्कृष्टाअष्टादशमुहूर्ता-अष्टा-दशमुहूर्तप्रमाणारात्रिर्भवति, जघन्यश्च द्वादशमुहूर्तप्रमाणो दिवसः, एषा प्रथमा षण्मासी, यदिवा एतत् प्रथमं षण्मासं, सूत्रे च पुंस्त्वनिर्देश आर्षत्वात्, एथ त्र्यशीत्यधिकशततमोऽहोरात्रः प्रथमस्य षण्मासस्य पर्यवसानं ।। ___ 'से पविसमाणे इत्यादि, 'स'सूर्यः सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन् द्वितीयं षण्मासमाददानः-प्रतिपद्यमानो द्वितीयस्य षण्मासस्य प्रथमे अहोरात्रे सर्ववाह्यान्मण्डलादगिनन्तरं द्वितीयंमण्डलमुपसङ्कम्य चारंचरति 'ता'इति तत्रयदा सूर्यो वाह्यात्-सर्वबाह्यान्मण्डलादर्वाक्तनं द्वितीयं मण्डलमुपसङ्कम्य चारं चरति तदा द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूना अष्टादशमुहूर्ता रात्रिर्भवति, द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिको द्वादशमुहूर्तप्रमाणो दिवसः, ततस्ततोऽपि द्वितीयान्मण्डलादभ्यन्तरं स सूर्य प्रविशन् द्वितीयस्यषण्मासस्य द्वितीये अहोरात्रे 'वाहिरंतच्चंति सर्ववाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसङ्कम्य चारं चरति ‘ता जया ण'मित्यादि, ततो यदाणमितिपूर्ववत्, सूर्य सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसङ्कम्य चारं चरति ‘ता जया ण'मित्यादि ततो यदा णमिति पूर्ववत् सूर्य सर्वबाह्यान्मण्डलादर्वाक्तनं तृतीयं मण्डलमुपसङ्कम्य चारंचरति तदा अष्टादशमुहूर्तारात्रिश्चतुर्भि एगट्ठिभागमुहुत्तेहिं'त प्राकृतत्वाद् व्यत्यासेन पदोपन्यासः, एवं तु यथास्थितपदनिर्देशो द्रष्टव्यो-मुहूर्तेकषष्टिभागैरूना भवति, चतुर्भिर्मुहूर्तेकषष्टि- भागैरधिक द्वादशमुहूर्तो दिवसः। एवंखलु एएण'मित्यादि, एवं-उक्तनीत्या खल्वेतेन–अनन्तरोदितेनोपायेन प्रतिमण्डलं रात्रिदिवसविषयमुहूर्तेकषष्टिभागद्वयहानिवृद्धिरूपेण प्रविशन् मण्डलपरिभ्रमणगत्या शनैः शनैरुत्तराभिमुखं गच्छन् 'तयानंतराउ'त्ति तस्माद्विवक्षिता- तान्मण्डलात् 'तयानंतर मिति तद्विवक्षितमनन्तरं मण्डलं सङ्क मन् २ एकैकस्मिन् मण्डले मुहूर्तस्य द्वौ द्वावेकषष्टिभागौ रजनिक्षेत्रस्य निर्वेष्टयन् दिवसक्षेत्रस्य प्रतिमण्डं द्वौ द्वौ मुहूर्तस्यैकषष्टिभागौ अभिवर्द्धयन् २ त्र्यशीत्यधिकशततमे अहोरात्रे द्वितीयषण्मासपर्यवसानभूते 'सव्वभंतरं ति सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारंचरति, 'ता' इति ततोयदा-यस्मिन् काले णमिति पूर्ववत्सूर्यसर्ववाह्यान्मण्डलान्मण्डलपरिभ्रमणगत्या शनैः शनैरभ्यन्तरं प्रविश्य सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा सर्ववाह्यमण्डलं 'प्रणिधाय' मर्यादीकृल्य तदस्तिनाद् द्वितीयान्मण्डलादारभ्येत्यर्थः, एकेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy