SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १, प्राभृतप्राभृतं -१ अत्र 'सव्वखुड्डाग'त्ति सर्वेभ्योऽप्यन्येभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको लघुरायामविष्कम्भाभ्यां योजनलक्षप्रमाणत्वात्, शेषं प्रायः सुगम परिधिपरिमाणं गणितं च क्षेत्रसमासटीकातः परिभावनीयं । _ 'ता'इति ततो यदा णमिति पूर्ववत्, सूर्य सर्वाभ्यन्तरमण्डलमुपसङ्कम्य चारं चरति तदा णमिति प्राग्वत् उत्तमकाष्ठाप्राप्तोऽत्र काष्ठाशब्दः प्रकर्षवाची परमप्रकर्षप्राप्तो यतः परमन्योऽधिको नभवतिस इत्यर्थः, 'उक्कोस'त्तिउत्कर्षतीत्युत्कर्षउत्कर्षएवोत्कर्षकः उत्कृष्ट इत्यर्थः,अष्टादशमुहूर्तो दिवसोभवति, तस्मिन्नेव च सर्वाभ्यन्तरे मण्डले सूर्येचारंचरति जघन्या-सर्वलध्वी द्वादशमुहूर्ता रात्रिः, एषोऽहोरात्रः पाश्चात्यय सूर्यसंवत्सरस्य पर्यवसानं, ततःससूर्यस्तस्मात्सर्वाभ्यन्तरान्मण्डलानिष्क्रमन्नवंसूर्यसंवत्सरमाददानः-प्रवर्तमानः प्रथमेअहोरात्रे अमितरानंतर'न्ति सर्वाभ्यन्तरामण्डलादनन्तरंद्वितीयंमण्डलमुपसङ्कन्यचारंचरतिततोयदा सूर्योऽभ्यन्तरान्तरं-सर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति ततो यदा सूर्योऽभ्यन्तरानन्तरंसर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्कम्य चारंचरति तदाअष्टादशमुहूर्तो दिवसो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूनो भवति, द्वाभ्यां च मुहूर्तेकषष्टिभागाभ्यामधिका द्वादशमुहूर्ता रात्रिः, कथमेतदवसीयते इति चेत् ?, उच्यते। इहैकं मण्डलमेकेनाहोरात्रेण द्वाभ्यां सूर्याभ्यां परिसमाप्यते, एकैकश्च सूर्य प्रत्यहोरात्रं मण्डलस्य त्रिंशदधिकोऽष्टादशशतसङ्ख्यान्भागान्परिकल्प्यएकैकंभागंदिवसक्षेत्रस्य रात्रिक्षेत्रस्य वा यथायोग्यं हापयिता वर्द्धयिता वा भवति, स चैको मण्डलगतस्त्रिंशदधिकाष्टादशशततमो भागो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यां गम्यते, तथाहि-तानि मण्डलगतानि त्रिंशदधिकान्यष्टादशशतानि भागानां द्वाभ्यां सूर्याभ्यामेकेनाहोरात्रेण गम्यते, अहोरात्रश्च त्रिंशन्मुहूर्तप्रमाणः, ततः सूर्यद्वयापेक्षया षष्टिर्मुहूर्ता लभ्यन्ते ततस्त्रैराशिककर्मावकाशः, यदि षष्टया मुहूर्तेरष्टादश शतानि त्रिंशदधिकानिमण्डलस्य भागानांगम्यंतेतत एकेन मुहूर्तेन किंगम्यते?,अत्रान्त्येन राशिना एककलक्षणेनमध्यस्य राशेर्गुणनाजातानि तान्येवाटादशशतानि त्रिंशदधिकानि तेषामायेन राशिना षष्टिलक्षणेन भागो ह्रियते लब्धाः सार्धास्त्रिंशद्भागाः, एतावन्मुहूर्तेन गम्यते, मुहूर्तश्चैकषष्टिभागीक्रियते तत आगतमेको भागो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यां गम्यते, यदिवा यदि त्र्यशीत्यधिकेनाहोरात्रशतेन षट् मुहूर्त्ता हानौ वृद्धौ वा प्राप्यन्ते तत एकेनाहोरात्रेण किं प्राप्यते ?,अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिर्गुण्यते, जातास्त एव षट्, तेषां यशीत्यधिकेन शतेन भागहरणं, अत्रोपरितनराशेः स्तोकत्वाद्भागो न लभ्यते ततश्छेद्यच्छेदकराश्योस्त्रिकेनापवर्त्तना, जात उपरितनो राशिर्द्विकरूपोऽधस्तन एकषष्टिरूपः, आगतं द्वावेकषष्टिभागौ मुहूर्तस्य एकस्मिन्नहोरात्रे वृद्धौ हानौ वा प्राप्यते इति, तथा। ता'इति तस्माद्वितीयान्मण्डलानिष्कमन्सूर्योद्वितीये अहोरात्रेसर्वाभ्यन्तरंमण्डलमपेक्ष्य तृतीयंमण्डलमुपसंक्रम्य चारंचरति, ‘ता जयान' मित्यादि, तत्रयदातस्मिन्सर्वाभ्यन्तरंमण्डलमवेक्ष्य तृतीये मण्डले उपसकम्यचारंचरति तदा चतुर्भिर्मुहूर्तस्यैकषष्टिभागैर्हीनोऽष्टादशमुहूर्तप्रमाणो दिवसो भवति, चतुर्भिर्मुहूर्तस्यैकषष्टिभागैरधिका द्वादशमुहूर्तमाणा रात्रि, एवमुक्तनीत्या 'खलु'निश्चितमेतेनानन्तरोदितेनोपायेन प्रतिमण्डलं दिवसरात्रिविषयमुहूर्तेकषष्टिभागद्वयहानिवृद्धिरूपेण निष्क्रमन्मण्डलपरिभ्रमणगत्या शनैः शनैर्दक्षिणाभिमुखं गच्छन् सूर्य, 'तयानंतर'इति Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy