________________
प्राभृतं १, प्राभृतप्राभृतं -१ त्र्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणिषट्पटानि-पट्पष्टयधिकानि मुहूर्तस्यैकषष्टिभाग- शतानि रजनिक्षेत्रस्य निर्वेटय-हापयित्वा दिवसक्षेत्रस्य च तान्यव त्रीणि षट्पटानि मुहूर्तेकषष्टि-मागशतानि अभिवद्धर्यचारं चरति, तदा णमिति वाक्यालङ्कारे उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्त उत्कर्षक:उत्कृष्टोऽष्टादशमुहूर्तो दिवसोभवति जघन्या च द्वादशमुहूर्त्ता रात्रि, एतद्वितीयं षण्मासं, यदिवा एषा द्वितीया षण्मासी, सूत्रे पुंस्त्वनिर्देश आर्षत्वात्, एष षट्पटयधिकत्रिंशत- तमोऽहोरात्रो द्वितीयस्यषण्मासस्य पर्यवसानभूतः, 'एष एवंप्रमाण आदित्यसंवत्सरः, एषषट्पटयधिकत्रिशततमोऽहोरात्रः 'आदित्यस्य'आदित्य- सम्वन्धिनः संवत्सरस्य पर्यवसानम्।
सम्प्रत्युपसंहारमाह-'इइ खलु तस्सेव'मित्यादि, यस्मादेव 'इति तस्मात्कारणात्तस्यादित्यस्य-आदित्यसंवत्सरस्य मध्ये ‘एवं उक्तेनप्रकारेण 'सकृद्' एकवारमष्टादशमुहूर्तो दिवसो भवति सकृच्चाष्टादशमुहूर्ता रात्रि, तथा सकृद् द्वादशमुहूर्तो दिवसो भवति सकृच्च द्वादशमुहूर्ता रात्रि, तत्र प्रथमे षण्मासे अस्त्यष्टादशमुहूर्ता रात्रि, सा च प्रथमषण्मासपर्यवसानेऽहोरात्रे, नतु द्वादशमुहूर्त्ता रात्रि, द्वितीयेषण्मासेऽसत्येतद्यदुत अष्टादशमुहूर्तो दिवसो भवति, सच द्वितीयषण्मासपर्यवसान्भूतेऽहोरात्रे नत्वष्टादशमुहूर्ता रात्रि, तथा अस्त्येतत् यदुत तस्मिन्नेव द्वितीयषण्मासे अस्ति द्वादशमुहूर्त्ता रात्रि, साऽपि तस्मिन्नेव द्वितीयषण्मासपर्यवसानभूतेऽहोरात्रे, न पुनस्त्येतत्यदुत्द्वादशमुहूर्तो दिवसोभवतीति, तथाप्रथमेवाषण्मासेनारत्येतत्यदुत पञ्चदशमुहूर्तो दिवसोभवति, नाप्यस्त्येतत्यदुत पञ्चदशमुहूर्तारात्रि, किं सर्वथा नेत्याह-नान्यत्र-रात्रिन्दिवानां वृध्यपवृद्धेन्यत्र न भवति, रात्रिन्दिवानां तु वृद्धयपवृद्धौ च भवत्येव पञ्चदशमुहूर्ता रात्रि पञ्चदशमुहूर्तो दिवसः, ते च वृद्धयपवृद्धी रात्रिन्दिवानां कथं भवत इत्याह
_ 'मुहुत्ताणं चयोवचएण'मुहूर्तानां पञ्चदशसङ्ख्यानां चयोपचयेन चयेन-अधिकत्वेन वृद्धिरपचयेन-हीनत्वेनापवृद्धि, इयमत्र भावना-परिपूर्णपञ्चदशमुहूर्तप्रमाणे दिवसरात्री न भवतो, हीनाधिकपञ्चदशमुहूर्तप्रमामेतु दिवसरात्री भवतः, एवं अन्नत्थ वा अणुवायगईए'इति वाशब्दः प्रकारान्तरसूचने अन्यत्रानुपातगतेः-अनुसारगतेः पञ्चदशमुहूर्तो दिवसः पञ्चदशमुहूर्तावा रात्रिन भवति, अनुसारगत्यातुभवत्येव, साचानुसारगतिरेवं-यदि त्र्यशीत्यधिकशततमे मण्डले षण्मुहूर्ता वृद्धौ हानौ वा प्राप्यन्ते ततोऽर्वाक् तदर्द्धगतौ त्रयो मुहूर्ताः प्राप्यन्ते, त्र्यशीत्यधिकशतस्य वाऽर्द्ध सार्धा एकनवतिःतत आगतं एकनवसितसङ्खयेषुमण्डलेषु गतेपुद्विनवतितमस्य च मण्डलस्यार्द्ध गते पञ्चदश मुहूर्ताः प्राप्यन्ते, ततस्तत ऊर्ध्वं रात्रिकल्पनायांपञ्चदशमुहूर्तोदिवसः, पञ्चदशमुहूर्ता च रात्रिर्लभ्यते नान्यथेति । ‘गाहाओ भणितव्वाओ'त्ति अत्र अनन्तरोक्तार्थसङ्गाहिका अस्या एव सूर्यप्रज्ञप्तेर्भद्रवा-हुस्वामिनाया नियुक्ति कृता तत्प्रतिवद्धाअन्या वा काश्चनग्रन्थान्तरसुप्रसिद्धा गाथा वर्तन्ते ता भणितव्याः'पठनीयाः, ताश्च सम्प्रति कापि पुस्तके न दृश्यन्त इति व्यवच्छिन्नाः सम्भाव्यन्ते ततो न कथयितुं व्याख्यातुं वा शक्यन्ते, यो वा यथा सम्प्रदायादवगच्छति तेन तथा शिष्येभ्यः कथनीया व्याख्यानीयाश्चेति ।
प्राभृतं-१, प्राभृत प्राभृतं-१ समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org